Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 291
________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २१८ Jain Education International 11311 ददातीत्यर्थः । स धनी तादात्विक उच्यते । तथा व शुक्रः - आगमे यस्य चत्वारो निर्गमे सार्धपञ्चमः । तस्यार्थाः प्रक्षयं यान्ति सुप्रभूतोऽपि चेत्स्थितः अथ मूलहरलक्षणमाह- यः पितृपैत (मह (होपात्त - तालपत्रे ) मर्थमन्यायेन भक्षयति स मूलहरः ॥८॥ यः पुनर्धनी पितृपैतामहमर्थमन्य द्यूतवेश्यादिना व्ययति नान्यदुपार्जयति स मूलहरः प्रोच्यते । तथा च गुरुः पितृपैतामहं वित्तं व्यसनैर्यस्तु भक्षयेत् । अन्यन्नोपार्जयेत् किंचित् स दरिद्रो भवेद् ध्रुवम् ॥ १॥ - अथ कदर्यलक्षणमाह- यो भृत्यात्मपीडाभ्यामर्थं संचिनोति स कदर्यः || ९ || यः पुनर्भृत्यानात्मानं च पीडयति, विभवे विद्यमानेऽपि भृत्येभ्यो न प्रयच्छति, न च स्वयं भक्षयति स कदर्यः । स च त्रयाणामप्यधमः । तस्य द्रव्यं राजा तस्करा वा हरन्ति । तथा च हारीत: अथ तादात्विक मूलहरयोर्यद्भवति तदाह- तादात्विकमूलहरयोरायत्यां नास्ति कल्याणम् ॥१०॥ आयतिशब्देन परिणाम उच्यते। तस्यामायत्यां परिणामे कल्याणं शुभं न भवति । कयोः ? तादात्त्रिक मूलहरयोः । एतदुक्तं भवति, यन्मूलहर: पितृपैतामहमर्थमन्यायेन भक्षयति यच्च तादात्विकोऽनुचितं व्ययं करोति तत्तयोरपि द्वयोर्दरिद्रता भवति, द्वौ दौःस्थ्यं व्रजतः । तथा च कपिपुत्रः - आगमाभ्यधिकं कुर्याद्यो व्ययं यश्च भक्षति । पूर्वजोपार्जितं नान्यदर्जयेच्च स सीदति ॥ १ ॥ अथ कदर्यस्य यद्भवति तदाह- कदर्यस्यार्थसंग्रहो राजदायादतस्कराणामन्यतमस्य निधिः ॥ ११ ॥ कदर्यस्य तु पुनर्यो धनसंचयः स किंविशिष्टः ? निधिः । केषाम् ? राजदायादतस्कराणामन्यन्यतमस्य एकस्य । एतदुक्तं भवति - भूपेन गोत्रजेन तस्करेण वाहियते इति । तथा च वल्लभदेवःदानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुंक्ते तस्य तृतीया गतिर्भवति ॥ १ ॥ तथा च शुक्रः- शेषो धारयते पृथ्वीं सन्निधानां सदोष्मणां । कृपणैर्निहितानि च तस्य शक्तिर्न चान्यथा || १||" इति नीतिवाक्यामृते द्वितीयेऽर्थसमुद्देशे ॥ पृ० २१ पं० ६ । “नाजितेन्द्रियस्य कापि कार्यसिद्धिरस्ति ||७|| अजितेन्द्रियाणां पुरुषाणां कापि स्वल्पापि कार्यसिद्धिर्न विद्यते । कथम् ? यो गीतलालसो भवति स गीतं शृण्वन् स्वकृत्येषु विलम्बं करोति, विलम्बे कृते कार्यनिष्फलता स्यात् । ........ न कामासक्तस्यास्ति किञ्चित् चिकित्सितम् ।।११।। नास्ति न विद्यते । किं तत्, चिकित्सितं शुभकर्मोपदेशः । कस्य ? कामासक्तस्य पुरुषस्य । कोऽर्थः ? न किंचिद्धितं शृण For Private & Personal Use Only विशिष्टानि टिप्पणानि २१८ www.jainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379