Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबन्दी
चतर्थं
परिशिष्टम्
२२०
Jain Education International
प्रशंसादि वर्णवाद-कुशलचित्त उचितकृत्यकरणलक्षणम्, तद्व्रतम् धर्मगतम् । तच्चिन्तादि, तस्य धर्मस्य चिन्ता अभिलाषः, आदिशब्दात् सच्छ्रुत्यादि वक्ष्यमाणम्, अङ्करादि अङ्कुर - सत्काण्डादि वक्ष्यमाणमेव । फलसिद्धिस्तु निर्वृतिरिति प्रतीतार्थम् । चिन्ता इत्यादिश्लोको भावितार्थ एव ।" इति मुनिचन्द्रसूरिविरचितायां ललितविस्तरापञ्जिकायाम् ॥
पृ०२७ पं० ३ ॥ " पञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् || १३|२|| पञ्च इति सङ्ख्या, एतानि वक्ष्यमाणानि पवित्राणि पावनानि सर्वसम्मतत्वादेषाम्, सर्वेषां समस्तानां जैनसाङ्ख्यबौद्धवैशेषिकादीनां, धर्मचारिणाम्, कानि तानीत्याह- अहिंसा प्राणिवधविरतिः, सत्यम् ऋतम्, अस्तेयम् अचौर्यम्, त्यागः सर्वसङ्गत्यर्जनम्, मैथुनवर्जनम् अब्रह्मविरतिरिति । सर्वसम्मतत्वं चैषामेवम् | जैनैस्तावदेतानि महाव्रतान्यभिधीयन्ते । साङ्ख्यैर्व्यासमतानुसारिभिश्च यमाः, यतस्ते आहुः - पञ्च यमाः, पञ्च नियमाः । तत्र यमा:- अहिंसा सत्यमस्तेयं ब्रह्मचर्यमव्यवहारश्चेति ॥ नियमास्तु अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् अप्रमादश्चेति || पाशुपतैस्तु धर्मशब्देनोक्तानि, यतस्ते दश धर्मानाहुः तद्यथा - अहिंसा सत्यवचनमस्तैन्यं चाप्यकल्पना || ब्रह्मचर्यं तथाऽक्रोधो ह्यार्जवं शौचमेव च || संतोषो गुरुशुश्रूषा इत्येते दश कीर्तिताः ॥१॥ भागवतैस्तु व्रतशब्देनोच्यन्ते, यदाहुस्ते- “पञ्च व्रतानि पञ्चोपव्रतानि, तत्र व्रतानि यमाः, उपव्रतानि तु नियमाः " ॥ बौद्धैः पुनरेतानि कुशलधर्मा उक्ताः, यदाहस्ते- दश कुशलानि, तद्यथा “हिंसास्तेयान्यथाकामपैशुन्यं परुषानृतम् । सम्भिन्नालापव्यापादमभिध्यां दृग्विपर्ययम् ॥ पापं कर्मेति दशधा कायवाङ्मानसैस्त्यजेत् ” ॥१॥" अत्र चान्यथाकामः पारदार्यम्, सम्भिन्नालापोऽसम्बद्धभाषणम्, व्यापादः परपीडाचिन्तम्, अभिध्या धनादिष्वसन्तोषः परिग्रह इति तात्पर्यम्, दृग्विपर्ययो मिथ्याभिनिवेशः, एतद्विपर्ययाश्च दश कुशलधर्मा भवन्तीति ॥ वैदिकैस्तु ब्रह्मशब्देनैतान्यभिहितानीति ॥२॥” इति जिनेश्वरसूरिविरचितटीकासहिते हरिभद्रसूरिविरचिते त्रयोदशे अष्टके ||
पृ० २७ पं० १० । “स खलु पिशाचकी वातकी वा यः परेऽनर्थिनि वाचमुदीरयति ||१०|१५९|| परे जनेऽनर्धिनि अश्रोतुकामे य उदीरयति वदति, काम् ? वाचं वाणीम्, स किंविशिष्टो जनैर्मन्यते ? खलु पिशाचकी संजातभूतग्रहः वातकी वा सन्निपातयुक्तो वा । तस्मादश्रोतुः पुरतो विदुषा न वक्तव्यम् ।” इति सटीके नीतिवाक्यामृते दशमे मन्त्रिसमुद्देशे ॥
पृ० २८ पं० १-११ ॥ “परलोकविधौ शास्त्रात्, प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान्, श्रद्धाधनसमन्वितः ॥ २२९ ॥
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२२०
www.jainelibrary.org
Loading... Page Navigation 1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379