Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके | धर्मबिन्दौ प्रथम परिशिष्टम्
१६७
स्थिरः १५, समुपसंपन्न १६, श्चेति ३(२२९) । गुरुपदार्हस्तु इत्थंभूत एव-विधिप्रतिपन्नप्रव्रज्य: १, समुपासितगुरुकुल: २, अस्खलितशील: ३, | सम्यगधीतागमः ४, तत एव विमलतरबोधात् तत्त्ववेदी ५, उपशान्त: ६, प्रवचनवत्सलः ७, सत्त्वहितरत: ८, आदेय: ९, अनुवर्तक: १०, गम्भीर: ११, अविषादी १२, उपशमलब्थ्यादिसंपन्नः १३, प्रवचनार्थवक्ता १४, स्वगुर्वनुज्ञातगुरुपद १५ श्चेति ४(२३०) । पादार्द्धगुणहीनी मध्यमावरौ ५(२३१) | नियम एवायमिति वायुः ६(२३२) । समग्रगुणसाध्यस्य तदर्द्धभावेऽपि तत्सिद्ध्यसंभवात् ७(२३३) । नैतदेवमिति वाल्मीकि: ८(२३४) । निर्गुणस्य कथञ्चित्तद्गुणभावोपपत्ते: ९(२३५) । अकारणमेतदिति व्यास: १०(२३६) । गुणमात्रासिद्धौ गुणान्तरभावनियमाभावात् ११(२३७) । नैतदेवमिति सम्राट् १२(२३८)। संभवादेव श्रेयस्त्वसिद्धेः १३(२३९)। यत्किञ्चिदेतदिति नारदः १४(२४०) । गुणमात्राद् गुणान्तरभावेऽप्युत्कर्षायोगात् १५(२४१) धर्मबिन्दु। सोऽप्येवमेव भवतीति वसुः १६(२४२)। अयुक्तं कार्षापणधनस्य तदन्यविढपनेऽपि कोटिव्यवहारारोपणमिति क्षीरकदम्बक: १७(२४३) । न दोषो सूत्रपाठः योग्यतायामिति विश्व: १८(२४४) । अन्यतरवैकल्येऽपि गुणबाहुल्यमेव सा तत्त्वत इति सुरगुरु: १९(२४५) । सर्वमुपपन्नमिति सिद्धसेन: २०(२४६) । भवन्ति त्वल्पा अपि असाधारणगुणा: कल्याणोत्कर्षसाधका इति २१(२४७)। उपस्थितस्य प्रश्ना-ऽऽचारकथनपरीक्षादिविधि: २२(२४८)। गुरुजनाद्यनुज्ञा २३(२४९) । तथा तथोपधायोगः २४(२५०) । दुःस्वप्नादिकथनम् २५(२५१)। विपर्ययलिनसेवा २६(२५२) । दैवज्ञैस्तथा तथा निवेदनम् २७(२५३) । न धर्मे माया २८(२५४) । उभयहितमेतत् २९(२५५) । यथाशक्ति सौविहित्यापादनम् ३०(२५६) । ग्लानौषधादिज्ञातात्याग: ३१(२५७) । तथा गुरुनिवेदनम् ३२(२५८) । अनुग्रहधियाऽभ्युपगम: ३३(२५९) । निमित्तपरीक्षा ३४(२६०) । उचितकालापेक्षणम् ३५(२६१)। उपायत: कायपालनम् ३६(२६२) । भाववृद्धिकरणम् ३७(२६३) । अनन्तरानुष्ठानोपदेशः ३८(२६४) । शक्तितस्त्यागतपसी ३९(२६५) । क्षेत्रादिशुद्धौ वन्दनादिशुद्धया शीलारोपणम् ४०(२६६)। असन्तया समशत्रुमित्रता शीलम् ४१(२६७)। अतोऽनुष्ठानात् तद्भावसम्भव:४२(२६८)। तपोयोगकारणं चेति ४३(२६९)।
एवं यः शुद्धयोगेन परित्यज्य गृहाश्रमम् । संयमे रमते नित्यं स यति: परिकीर्तितः ॥२२॥ एतत्तु संभवत्यस्य सदुपायप्रवृत्तितः । अनुपायात्तु साध्यस्य सिद्धिं नेच्छन्ति पण्डिताः ॥२३॥
१६७ यस्तु नैवंविधो मोहात् चेष्टते शास्त्रबाधया । स तादृग्लिायुक्तोऽपि न गृही न यतिमतः ॥२४॥
इति धर्मबिन्दौ यतिविधिश्चतुर्थोऽध्यायः समाप्तः ॥ १.सा J१नास्ति ।। २.यतिधर्मश्चतुर्थो १ । यतिधर्मविधिश्चतुर्थों D. ॥ ३.समास: D.नास्ति ॥
Jain Education International
For Private Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379