Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ
चतुर्थं
परिशिष्टम्
१९९
तथा अनेकं बहु यन्निर्गमद्वारम् उपलक्षणत्वात्तदेव च प्रवेशद्वारं तेन विवर्जितं निकेतनं यस्य स तथा । बहुषु हि निर्गम-प्रवेशद्वारेष्वनुपलक्ष्यमाणनिर्गम-प्रवेशानां दुष्टलोकानामापाते स्त्री-द्रविणादिविप्लव: स्यात् । अत्र चानेकद्वारताया: प्रतिषेधेन विधिराक्षिप्यते । ततः प्रतिनियतद्वारसुरक्षितगृहो गृहस्थ: स्यादिति लभ्यते । तथाविधमपि निकेतनं स्थान एव निवेशयितुं युक्तं नास्थाने । स्थानं तु शल्यादिदोषरहित बहलदूर्वा-प्रवाल-कुशस्तम्ब-प्रशस्तवर्णगन्धमृत्तिका-सुस्वादुजलोद्गमं निधानादिमच्च । स्थानगुण-दोषपरिज्ञानं च शकुन-स्वप्नोपश्रुतिप्रभृतिनिमित्तादिबलेन । स्थानमेव विशिनष्टि-अतिव्यक्तमतिप्रकटमतिगुप्तमतिप्रच्छन्नम्, तन्निषेधादनतिव्यक्तगुप्तम्, तत्र अतिव्यक्ते ह्यसन्निहितगृहान्तरतया परिपार्श्वतो निरावरणतया चौरादयोऽभिभवेयुः । अतिगुप्ते च सर्वतो गृहान्तरैर्निरुद्धत्वान्न स्वशोभां लभते, प्रदीपनकाद्युपद्रवेषु विशिष्टानि च दुःखनिर्गम-प्रवेशं गृहं भवति । पुनः कथंभूते स्थाने ? सुप्रातिवेश्मिके, शोभना: शीलादिसम्पन्ना: प्रातिवेश्मिका यत्र । कुशीलप्रातिवेश्मिकत्वे
टिप्पणानि हि तदालापश्रवण-तच्चेष्टादर्शनादिवशात् स्वतः सगुणस्यापि गुणहानिः स्यात् । दुष्प्रातिवेश्मिकास्त्वेते शास्त्रप्रतिषिद्धाः - "खरिया तिरिक्खजोणी-तालायर-समण-माहण-सुसाणा । वणुरिअ-वाह-गुम्मिअ-हरिएस-पुलिंद-मच्छंधा ॥" [ओघनि० ७६७] ७ ॥
तथा कृतः सनो येन स कृतसङ्गः सन् शोभन आचार इहपरलोकहिता प्रवृत्तिर्येषां ते सदाचारास्तैः, न तु कितव-धूर्त-विट-भट्ट-भण्ड-नटादिभिः, तत्सङ्गे हि सदपि शीलं विलीयेत । यदाह – “यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । अथासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥१॥ सङ्गः सर्वात्मना त्याज्य: स चेत् त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सन्त: सङ्गस्य भेषजम् ॥२॥"[ ] इति च ८॥
तथा माता जननी, पिता जनकः, तयोः पूजकस्त्रिसन्ध्यं प्रणामकरणेन परलोकहितानुष्ठाननियोजनेन सकलव्यापारेषु तदाज्ञया प्रवृत्त्या वर्ण-गन्धादिप्रधानरूपपुष्प-फलादिवस्तुन उपढौकनेन तद्भोगे भोगेन चान्नादीनामन्यत्र तदनुचितादिति । माता च पिता च मातापितरौ, आ द्वन्द्वे [सि० ३३२२३९] इत्यात्वं मातुश्चाभ्यर्हितत्वात् पूर्वनिपातः । यन्मनुः - "उपाध्याया दशाचार्य आचार्याणां शतं पिता । सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ॥" [मनुस्मृति।१४५] ९।।
तथा त्यजन् परिहरन् उपप्लुतं स्वचक्र-परचक्रविरोधाद् दुर्भिक्ष-मारीति-जनविरोधादेश्चास्वस्थीभूतं यत् स्थानं ग्राम-नगरादि । अत्यज्यमाने हि तस्मिन् धर्मा-ऽर्थ-कामानां पूर्वार्जितानां विनाशेन नवानां चानुपार्जनेनोभयलोकभ्रंश एव स्यात् १०।।
भेषजम् ॥२॥ अथासज्जनगोष्टी पाकतव-पूर्त-विट-भट्ट
१९९
Jain Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379