SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ प्रथम परिशिष्टम् धर्मबिन्दुसूत्रपाठः १६३ सम्यक् तदधिकाख्यानम् ४(६२) । अबोधेऽप्यनिन्दा ५(६३) । शुश्रूषाभावकरणम् ६(६४) । भूयो भूय उपदेश: ७(६५) । बोधे प्रज्ञोपवर्णनम् ८(६६) । तन्त्रावतार:९(६७) । प्रयोग आक्षेपण्या: १०(६८)। ज्ञानाद्याचारकथनम् ११(६९) । निरीहशक्यपालना १२(७०) । अशक्ये भावप्रतिपत्ति: १३(७१) । पालनोपायोपदेश: १४(७२) । फलप्ररूपणा १५(७३) । देवर्द्धिवर्णनम् १६(७४) । सुकुलागमनोक्ति: १७(७५) । कल्याणपरम्पराख्यानम् १८(७६) । असदाचारगर्दा १९(७७) । तत्स्वरूपकथनम् २०(७८) । स्वयं परिहार: २१(७९) । ऋजुभावाऽऽसेवनम् २२(८०) । अपायहेतुत्वदेशना २३(८१) । नारकदुःखोपवर्णनम् २४(८२) । दुष्कुलजन्मप्रशास्ति: २५(८३) । दुःखपरम्परानिवेदनम् २६(८४) । उपायतो मोहनिन्दा २७(८५) । सज्ज्ञानप्रशंसनम् २८(८६) । पुरुषकारसत्कथा २९(८७) । वीर्यर्द्धिवर्णनम् ३०(८८)। परिणते गम्भीरदेशनायोग: ३१(८९) । श्रुतधर्मकथनम् ३२(९०) । बहुत्वात् परीक्षावतार: ३३(९१) । कषादिप्ररूपणा ३४(९२) । विधिप्रतिषेधौ कष: ३५(९३) । तत्सम्भवपालनाचेष्टोक्तिश्छेद: ३६(९४)। उभयनिबन्धनभाववादस्ताप: ३७(९५) । अमीषामन्तरदर्शनम् ३८(९६) । कषच्छेदयोरयत्न: ३९(९७) । तद्भावेऽपि तापाभावेऽभाव: ४०(९८) । तच्छुद्धौ हि तत्साफल्यम् ४१(९९) । फलवन्तौ च तौ तौ ४२(१००)। अन्यथा याचितकमण्डनम् ४३(१०१) । नातत्त्ववेदिवाद: सम्यम्वादः ४४(१०२) । बन्धमोक्षोपपत्तितस्तच्छुद्धिः ४५(१०३) । इयं बध्यमान-बन्धनभावे ४६(१०४) । कल्पनामात्रमन्यथा ४७(१०५) । बध्यमान आत्मा, बन्धनं वस्तुसत् कर्म ४८(१०६) । हिंसादयस्तद्योगहेतवः , तदितरे तदितरस्य ४९(१०७) । योग: प्रवाहतोऽनादिमान् ५०(१०८) । कृतकत्वेऽप्यतीतकालवदुपपत्ति: ५१(१०९) । वर्तमानताकल्पं कृतकत्वम् ५२(११०)। परिणामिन्यात्मनि हिंसादयः , भिन्नाभिन्ने च देहात् ५३(१११) । अन्यथा तदयोग: ५४(११२) । नित्य एवाविकारतोऽसंभवात् ५५(११३) । अनित्ये चापराहिंसनेन ५६(११४) । भिन्न एव देहान्न स्पृष्टवेदनम् ५७(११५)। निरर्थकश्चानुग्रहः ५८(११६) । अभिन्न एवामरणं वैकल्यायोगात् ५९(११७) । मरणे परलोकाभाव: ६०(११८)। देहकृतस्यात्मनाउनुपभोग: ६१(११९) । आत्मकृतस्य देहेन ६२(१२०) । दृष्टेष्टबाधा ६३(१२१) । अतोऽन्यथैतत्सिद्धिरिति तत्त्ववादः ६४(१२२) । परिणामपरीक्षा ६५(१२३) । शुद्धे बन्धभेदकथनम् ६६(१२४) । वरबोधिलाभप्ररूपणा ६७(१२५) । तथाभव्यत्वादितोऽसौ ६८(१२६) । ग्रन्थिभेदे नात्यन्तसंक्लेश: ६९(१२७) । न भूयस्तद्वन्धनम् ७०(१२८) । असत्यपाये न दुर्गतिः ७१(१२९)। विशुद्धेश्चारित्रम् ७२(१३०) । भावनातो रागादिक्षय: ७३(१३१) । तद्भावेऽपवर्ग: १.प्रतिषु पाठा:- योगः ॥ प्रवाहतो १ । योग: प्रवाहतो D. I योगः । प्रवाहतो K१० । योग: K१सं० J.K.L. मध्ये नास्ति । Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy