________________
सवृत्तिके धर्मबिन्दौ
प्रथमं परिशिष्टम्
१६२
Jain Education International
वेषो विरुद्धत्यागेन २४ । आयोचितो व्ययः २५ । प्रसिद्धदेशाचारपालनम् २६ । गर्हितेषु गाढमप्रवृत्तिः २७ । सर्वेष्ववर्णवादत्यागो विशेषतो राजादिषु २८ । असदाचारैरसंसर्गः २९ । संसर्गः सदाचारै: ३० । मातापितृपूजा ३१ । आमुष्मिकयोगकारणम्, तदनुज्ञया प्रवृत्तिः, प्रधानाभिनवोपनयनम्, तद्भोगे भोगोऽन्यत्र तदनुचितात् ३२ । अनुद्वेर्जनी प्रवृत्तिः ३३ । भर्तव्यभरणम् ३४ । यथोचितं विनियोगः ३५ । तत्प्रयोजनेषु बद्धलक्षता ३६ | अपायपरिरक्षोद्योगः ३७ । गर्ह्ये ज्ञानस्वगौरवरक्षे ३८ । देवातिथिदीनप्रतिपत्तिः ३९ । तदौचित्याबाधनमुत्तमनिदर्शनेन ४० । सात्म्यतः कालभोजनम् ४१ । लौल्यत्यागः ४२ । अजीर्णे अभोजनम् ४३ । बलापाये प्रतिक्रिया ४४ । अदेशकालचर्यापरिहारः ४५ । यथोचितं लोकयात्रा ४६ । हीनेषु हीनक्रमः ४७ । अतिसङ्गवर्जनम् ४८ । वृत्तस्थज्ञानवृद्धसेवा ४९ । परस्परानुपघातेनान्योन्यानुबद्धत्रिवर्गप्रतिपत्तिः ५० । अन्यतरबाधासंभवे मूलाबाधा ५१ । बलाबलापेक्षणम् ५२ । अनुबन्धे प्रयत्नः ५३ । कालोचितापेक्षा ५४ । प्रत्यहं धर्मश्रवणम् ५५ । सर्वत्रानभिनिवेशः ५६ | गुणपक्षपातिता ५७ । ऊहापोहादियोग इति ५८ ।
एवं स्वधर्मसंयुक्तं सद् गार्हस्थ्यं करोति यः । लोकद्वयेऽप्यसौ धीमान् सुखमाप्नोत्यनिन्दितम् ||४|| दुर्लभं प्राप्य मानुष्यं विधेयं हितमात्मनः । करोत्यकाण्ड एवेह मृत्युः सर्वं न किञ्चन ||५|| सत्येतस्मिन्नसारासु संपत्स्वविहिताग्रहः । पर्यन्तदारुणासूच्चैर्धर्मः कार्यो महात्मभिः ||६|| धर्मबिन्द सामान्यतो गृहस्थधर्मविधिः प्रथमोऽध्यायः समाप्तः ॥ ॥ अथ द्वितीयोऽध्यायः ॥
प्रायः सद्धर्मबीजानि गृहिष्वेवंविधेष्वलम् । रोहन्ति विधिनोप्तानि यथा बीजानि सत्क्षितौ ॥७॥ बीजनाशो यथाऽभूमौ प्ररोहो वेह निष्फलः । तथा सद्धर्मबीजानामपात्रेषु विदुर्बुधाः ||८||
न साधयति यः सम्यग् अज्ञः स्वल्पं चिकीर्षितम् । अयोग्यत्वात् कथं मूढः स महत् साधयिष्यति ? ॥ ९ ॥
इति सद्धर्मदेशनार्ह उक्तः, इदानीं तद्विधिमनुवर्णयिष्यामः १ (५९) । तत्प्रकृति- देवताधिमुक्तिज्ञानम् २ (६०) । साधारणगुणप्रशंसा ३ (६१) ।
१. जनीया प्रवृत्ति: J. K. L. D. K१सं० ॥ २. बद्धलक्ष्यता J. K. L ॥ ३. सामान्यतो गृहस्थधर्मे धर्मबिन्दी प्रथमोऽध्याय: J१ || ४. समाप्त: D. नास्ति ॥ * अत्र प्रथमोऽङ्कः प्रस्तुताध्यायस्य सूत्राः, द्वितीय ( ) एतादृशचिह्नान्तर्गतोऽङ्ग आदित आरभ्य धर्मबिन्दुसूत्राङ्कः । एवं सर्वत्राप्यवसेयम् ॥
For Private & Personal Use Only
धर्मबिन्दुसूत्रपाठ:
१६२
www.jainelibrary.org