________________
सवृत्तिके धर्मबन्दी
प्रथमं
परिशिष्टम्
१६१
Jain Education International
परिशिष्टानि ।
प्रथमं परिशिष्टम् ।
॥ श्री धर्मबिन्दुसूत्राणि ॥
[अत्रादावेवेदमवधेयम्- आचार्यश्रीहरिभद्रसूरिविरचितधर्मबिन्दुसूत्राणां पाठद्वयमुपलभ्यते— एक आचार्यश्रीमुनिचन्द्रसूरिविरचितवृत्त्यन्तर्गतोऽत एव च वृत्तिकृत्स्वीकृतः सूत्रपाठः, अपर: J१ K१ D. मध्ये विद्यमानः सूत्रपाठः । प्रथमः सूत्रपाठः सवृत्तिके धर्मबिन्दी [पृ० १- १६०] अस्माभिर्मुख्यतया उपन्यस्तः, द्वितीयस्तु अत्र प्रथमे परिशिष्टे पाठभेदैः सह उपन्यस्तः । यद्यपि पाठद्वये प्रायः समानत्वमेव, तथापि क्वचित् किञ्चिद् वैशिष्ट्यमपि विद्यते, तदपि सूक्ष्मधियाऽऽलोचनीयम् ।]
ॐ नमः सर्वज्ञाय ॥
॥ अथ प्रथमोऽध्यायः ॥
प्रणम्य परमात्मानं समुद्धृत्य श्रुतार्णवात् । धर्मबिन्दुं प्रवक्ष्यामि तोयबिन्दुमिवोदधेः ||१||
धनदो धनार्थिनां प्रोक्तः कामिनां सर्वकामदः । धर्म एवापवर्गस्य पारम्पर्येण साधकः ||२||
वचनाद्यदनुष्ठानमविरुद्धाद्यथोदितम् । मैत्र्यादिभावसंयुक्तं तद्धर्म इति कीर्त्यते ॥ ३ ॥
सोऽयमनुष्ठातृभेदात् द्विविधः - गृहस्थधर्मो यतिधर्मश्च १ । गृहस्थधर्मोऽपि द्विविधः - सामान्यतो विशेषतश्च २ । तत्र सामान्यतो गृहस्थधर्मः कुलक्रमागतमनिन्द्यं विभवाद्यपेक्षया न्यायतोऽनुष्ठानम् ३ । न्यायोपात्तं हि वित्तमुभयलोकहिताय ४ । अनभिशङ्कनीयतया परिभोगाद् विधिना तीर्थगमनाच्च ५ । अहितायैवान्यत् ६ । तदनपायित्वेऽपि मत्स्यादिगलादिवद्विपाकदारुणत्वात् ७ । न्याय एव ह्यर्थाप्त्युपनिषत् परेति समयविदः ८ । ततो हि नियमत: प्रतिबन्धककर्मविगमः ९ । सत्यस्मिन्नायत्यामर्थसिद्धिः १० । अतोऽन्यथाऽपि प्रवृत्तौ पाक्षिकोऽर्थलाभो निःसंशयस्त्वनर्थ इति ११ । समानकुलशीलादिभिरगोत्रजैर्वैवाह्यमन्यत्र बहुविरुद्धेभ्यः १२ I दृष्टादृष्टबाधाभा १३ 1 शिष्टचरितप्रशंसनम् १४ | अरिषड्वर्गत्यागेनाविरुद्धार्थप्रतिपत्त्येन्द्रियजयः १५ । उपप्लुतस्थानत्यागः १६ । स्वयोग्यस्याऽऽश्रयणम् १७ । प्रधानसाधुपरिग्रहः १८ । स्थाने गृहकरणम् १९ । अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्यं च २० । लक्षणोपेतगृहवासः २१ । निमित्तपरीक्षा २२ । अनेकनिर्गमादिवर्जनम् २३ । विभवाद्यनुरूपो
For Private & Personal Use Only
धर्मबिन्दुसूत्रपाठ:
१६१
www.jainelibrary.org