SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ १६० अष्टमोऽध्यायः नावि:कर्तुमुदारतां निजधियो वाचां न वा चातुरीमन्येनापि च कारणेन न कृता वृत्तिर्मयाऽसौ परम् । तत्त्वाभ्यासरसादुपात्तसुकृतोऽन्यत्रापि जन्मन्यहं सर्वादीनवहानितोऽमलमना भूयासमुच्चैरिति॥१॥ ॥ इति श्रीमुनिचन्द्रसूरिविरचिता धर्मबिन्दुप्रकरणवृत्तिः समाप्ता । प्रत्यक्षरं निरूप्यास्या ग्रन्थमानं विनिश्चितम् । अनुष्टभां सहस्राणि त्रीणि पूर्णानि बुध्यताम् ॥२॥ १वृत्ति: समाप्तः । ग्रंथाग्रं सहस ३००० । संवत् ११८१ वैशाख बदि १५... पारसदेवेन लिखितमिति.....लेखकपाठकयोः शुभं भूयात् ॥-K.वृत्तिः समाप्तः ॥॥ प्रत्यक्षरं ग्रंथ ३००० ।-J.. 'वृत्तिः समाप्ताः ॥ प्रत्यक्ष निरूप्यास्या ग्रन्थमानं विनिश्चितम् । अनुष्टुमा सहस्राणि त्रीणि पूर्णानि बुध्यताम् ॥ ग्रंथानम् ३००० । शुभं भवत्सर्वसंघस्य ||L. || २.श्लोकोऽयं J.K.मध्ये नास्ति ।।३.इतः परं मध्ये ईद्रशः पाठःसदा नवप्रवालश्रीवंशोऽस्त्युकेशसंज्ञकः । यस्याहार्यस्थितिं दृष्ट्वा कस्य न प्रीयते मनः ॥१॥ देवानागाभिधः श्राद्धस्तत्राऽभूधर्मकर्मभूः । तस्याऽपि दूअकनामा तुक् जज्ञे यज्ञे विरक्तधीः ।।२।। तस्यापि भुवणिग-सुमति-लूणिग-पद्माभिधाश्च चत्वारः । धर्मार्थकाममोक्षप्रसाधनार्थ ध्रुवं सुता जनुः ॥३॥ महेन्द्रधीदा धणदेविनाम्नी पत्नी सपत्नीकृतकृष्णकान्ता । तत्रादिमस्येह यथा वृषस्याऽभूत् सद्गतिः सातनिखातकल्पा ॥४॥ श्री तीर्थनाथपदपकजभागिभाल: सस्फूर्तिकीर्तिसितपद्यवनीमरालः । धैर्यादिलक्षणगुणाऽभयवासशालस्तस्याः सुतः समुदपादि कुमारपालः ॥५॥ द्वितीयः सुमतिनामाऽभूद यः परीक्ष्य क्षमातले। श्रीमज्जिनपति सूरि गुरुबुद्धचा न्यषेवत ॥६॥ जगमतगणिनी पुत्री श्रीजिनपतिसूरिभिर्दिदीक्षेऽस्य । पुत्रश्च जिनेश्वरसूरिभिरिह जयसेननामर्षिः ॥७॥ मातृश्रेयोहेतोः कुमारपाल: प्रधानपुस्तिकयोः । पञ्चनमस्कारविवरण-धर्मबिन्दुविवृती अलेखयत ॥८॥ अदोदिपुस्तिकाव्याजाद् भव्यदर्शनशुद्धये। कृते कुमारपालेन सुधाञ्जनशलाकिके ॥९॥ ततश्चयत्कीर्त्या धवलीकृते त्रिभुवने कैलासलीलान् नगांच्छ्रीकण्ठानिव तद्गुणांस्तत इतः प्रेक्ष्यांबिका विस्मिता । रुद्रानं स्वसतीत्वखण्डनभिया त्यक्त्वा हिमाद्रावगात् तत्रास्यानुपलक्षणाकुलतया ब्रूते हहा किं चिदम् ॥१०॥ श्रीजिनेश्वरसूरीणां तेषां भक्तिपुरस्सरम् । दत्ते कुमारपालेन ते च द्वे अपि पुस्तिके ॥११॥ यावद् व्योमकटित्रकेतन इतः स्रष्ट्रेव यानादरात् क्षिप्तानृक्षवलक्षिताक्षतकणान् भोक्तुं परिभ्राम्यतः । पक्षद्वन्दविकाशनप्रतिदिने द्वौ राजहंसौ मुदा तावद् द्वे अपि पुस्तिके बुधजनैः स्तां वाच्यमाने इमे ॥१२॥ स्वगुरुवचःसारस्वतमन्त्रध्यानात् प्रशस्तिमकृतेमाम् । सुगुरुजिनेश्वररेरन्तेवासी प्रबोधचन्द्रगणिः ॥१३॥७।। १६० Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy