________________
सवृत्ति धर्मबिन्दौ
१५९
Jain Education International
इति निरुपमसुखसिद्धिः ||६१ ||५४२ ॥ इति । इति एवमौत्सुक्यात्यन्तिकनिवृत्तेर्निरुपमसुखसिद्धिः सिद्धानां श्रद्धेया ॥ ॥ ६१ ॥ अथोपसंहरन्नाह—
सद्ध्यानवह्निना जीवो दग्ध्वा कर्मेन्धनं भुवि । सद्ब्रह्मादिपदैर्गीतं स याति परमं पदम् ॥४६॥ इति ।
सद्ध्यानवह्निना शुक्लध्यानलक्षणज्वलज्ज्वलनेन करणभूतेन जीवो भव्यजन्तुविशेष; दग्ध्वा प्रलयमानीय कर्मेन्धनं भवोपग्राहिकर्मलक्षणं भुवि मनुष्यक्षेत्रलक्षणायाम्, किमित्याह — सद्ब्रह्मादिपदैः, सद्भिः सुन्दरैः ब्रह्मादिपदैः ब्रह्म- लोकान्तादिभिर्ध्वनिभिर्गीतं शब्दितं सः आराधितशुद्धसाधुधर्मो अष्टमोऽध्यायः जीवो याति प्रतिपद्यते परमं पदम् इति ॥ १॥ न च वक्तव्यम् - अकर्मणः कथं गतिरित्याह
पूर्वावेधवशादेव तत्स्वभावत्वतस्तथा । अनन्तवीर्ययुक्तत्वात् समयेनानुगुण्यतः ॥४७॥इति ।
पूर्वावेधवशात्, पूर्वं संसारावस्थायां य आवेधः आवेशो गमनस्य तस्य वशः, तस्मात् एवशब्दोऽवधारणे, तत्स्वभावत्वतः, सः ऊर्ध्वगमनलक्षणो बन्धनमुक्तत्वेनैरण्डबीजस्येव स्वभावो यस्य स तथा तद्भावस्तत्त्वम्, तस्मात्, तथेति हेत्वन्तरसमुच्चये, अनन्तवीर्ययुक्तत्वाद् अपारसामर्थ्यसंपन्नत्वात् समयेनैकेन आनुगुण्यतः शैलेश्यवस्थावष्टब्धक्षेत्रमपेक्ष्य समश्रेणितया, परमपदं यातीत्यनुवर्त्तत इति ॥२॥
स तत्र दुःखविरहादत्यन्तसुखसंगतः । तिष्ठत्ययोगो योगीन्द्रवन्द्यस्त्रिजगतीश्वरः ॥ ४८ ॥ इति । ॥ इति धर्मविन्दौ [शेष ] धर्मफलविधिः अष्टमोऽध्यायः समाप्तः ॥
॥ कृतिराचार्य [ श्री] हरिभद्रस्येति ॥ मङ्गलं महाश्रीः ॥
सः अनन्तरोक्तो जीवः तत्र सिद्धिक्षेत्रे दुःखविरहात् शारीर-मानसबाधावैधुर्यात्, किमित्याह--- अत्यन्तसुखसंगतः आत्यन्तिकैकान्तिकशर्मसागरोदरमध्यमनस्तिष्ठति अयोगो मनो-वाक्- कायव्यापारविकलः योगीन्द्रवन्द्यो योगिप्रधानमाननीय:, अत एव त्रिजगतीश्वरः द्रव्य-भावापेक्षया सर्वलोकोपरिभागवर्त्तितया जगत्त्रयपरमेश्वर इति ॥२॥
इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुप्रकरणवृत्तौ विशेषतो धर्मफलविधिरष्टमोऽध्यायः समाप्तः ॥ १. पाठोऽयं K १ मध्ये एव वर्तते, J.K.L.मध्ये नास्ति । इति धर्मबिन्दौ शेषफलप्रदर्शनविधिरष्टमोऽध्यायः D | J१ मध्ये त्वत्रेदृशः पाठः इति धर्मबिन्दौ शेषफलप्रदर्शने अष्टमोऽध्यायः समाप्तः । समाप्तं चेदं धर्मबिन्द्वाख्यं प्रकरणम् । कृतिराचार्यश्रीहरिभद्रस्य ।। मङ्गलं महाश्रीः ।। - J.१ ।।
rivate & Personal Use Only
१५९
www.jainelibrary.org