________________
सवृत्तिके धर्मबिन्दौ
१५८
अथैनां निर्वृतौ निराकुर्वन्नाह
न चास्यार्थान्तरावाप्तिः ||५५ || ५३६ || इति । न च न पुनः अस्य सिद्धस्य अर्थान्तरावाप्तिः स्वव्यतिरिक्तभावान्तरसंबन्धः || ५५ ॥ एतदेव भावयति — स्वस्वभावनियतो सौ विनिवृत्तेच्छाप्रपञ्चः ॥ ५६ ॥ ५३७॥ इति । स्वस्वभावनियतः स्वकीयस्वरूपमात्रप्रतिष्ठितः, हि: यस्माद्, असौ भगवान् अत्यन्तनिवृत्तसर्वार्थगोचरस्पृहाप्रबन्धः ॥ ५६ ॥ आकाशेनापि सह तस्य संबन्धं निराकुर्वन्नाह - अतोऽकामत्वात् तत्स्वभावत्वान्न लोकान्तक्षेत्राप्तिराप्तिः ||५७ ||५३८ ।।
सिद्धो
अतो विनिवृत्तेच्छाप्रपञ्चत्वात् यद् अकामत्वं निरभिलाषत्वं तस्मात् यत् तत्स्वभावत्वम् अर्थान्तरनिरपेक्षत्वं तस्मात् न लोकान्तक्षेत्राप्तिः सिद्धिक्षेत्रावस्थानरूपा आप्तिः अर्थान्तरेण सह संबन्धः ॥५७॥ एतदपि भावयति —
विनिवृत्तेच्छाप्रपञ्चः अष्टमोऽध्यायः
औत्सुक्यवृद्धिर्हि लक्षणमस्याः, हानिश्च समयान्तरे ।। ५८ ।। ५३९ ।। इति ।
औत्सुक्यस्य वृद्धिः प्रकर्षः, हिः यस्मात्, लक्षणं स्वरूपमस्याः अर्थान्तरप्राप्तेः, हानिश्च औत्सुक्यस्यैव भ्रंशः समयान्तरे प्राप्तिसमयादग्रेतनसमय लक्षणे ॥५८॥ ननु किमिदमौत्सुक्यलक्षणं सिद्धे नास्ति ? अत आह
न चैतत् तस्य भगवतः, आकालं तथावस्थिते: ।। ५९ ।। ५४० ।। इति ।
न च नैव एतद् अर्थान्तरप्राप्तिलक्षणमनन्तरोक्तं तस्य सिद्धस्य भगवतः, आकालं सर्वमप्यागामिनं कालं यावत् तथावस्थिते: प्रथमसमयादारभ्य तथा तेनैव प्रथमसमयसंपन्नेनैकेन निष्ठितार्थत्वलक्षणेन स्वरूपेणावस्थानात् ॥५९॥ एतदपि कुत इत्याह
कर्मक्षयाविशेषात् ॥६०॥५४१ ।। इति ।
कर्मक्षयस्य कार्त्स्न्येन सिर्द्धत्वप्रथमक्षण एव संजातस्य सर्वक्षणेषु अविशेषात् अभेदात् ॥६०॥। एवं सति यत्सिद्धं तदाह—
१. पूर्वं 'निवृत्ती' इति लिखितम्, पश्चात्तु संशोध्य 'निर्वृती' इति कृतं JKL. मध्ये इति अस्पष्टं कथञ्चिद् भाति ॥ २. रूपा या आप्तिः J ॥। ३. सिद्धप्रथम K
Jain Education International
For Private & Personal Use Only
१५८
www.jainelibrary.org