________________
सवृत्तिके
धर्मबिन्दी
१५७
Jain Education International
भावसारे हि प्रवृत्त्यप्रवृत्ती सर्वत्र प्रधानो व्यवहारः ॥ ४९।।५३०॥ इति ।
भावसारे मानसविकल्पपुरःसरे, हिशब्दः पूर्वोक्तभावनार्थः, प्रवृत्त्यप्रवृत्ती सर्वत्रे विहितेतरयोरर्थयोर्विषये, किमित्याह — प्रधानो भावरूपः व्यवहारो लोकाचाररूपः, इदमुक्तं भवति यैव मनःप्रणिधानपूर्विका क्वचिदर्थे प्रवृत्तिर्निवृत्तिर्वा तामेव तात्त्विकीं तत्त्ववेदिनो वदन्ति, न पुनरन्याम्, यतोऽनाभोगादिभिः परिपूर्णश्रामण्यक्रियावन्तोऽपि अभव्यादयो न तात्त्विकश्रामण्यक्रियावत्तया समये व्यवहृताः, तथा संमूर्च्छनजमत्स्यादयः सप्तमनरकपृथ्वीप्रायोग्यायुर्बन्धनिमित्तमहारम्भादिपापस्थानवर्त्तिनोऽपि तथाविधभावविकलत्वान्न तदायुर्बन्धं प्रति प्रत्यलीभवन्ति एवं सयोगकेवलिनोऽपि | अष्टमोऽध्यायः सर्वत्र निःस्पृहमनसः पूर्वसंस्काराद्विहितेतरयोरर्थयोः प्रवृत्ति - निवृत्ती कुर्वन्तोऽपि न भावतस्तद्वन्तो व्यवह्रियन्ते ॥ ४९ ॥ अत्रैवाभ्युच्चयमाहप्रतीतिसिद्धश्चायं सद्योगसचेतसाम् ||५० ||५३१ ।। इति ।
प्रतीतिसिद्धः स्वानुभवसंवेदितः चः समुच्चये, अयं पूर्वोक्तोऽर्थः सद्योगेन शुद्धध्यानलक्षणेन ये सचेतसः सचित्ताः तेषाम्, संपन्नध्यानरूपामलमानसाः महामुनयः स्वयमेवामुमर्थं प्रतिपद्यन्ते, न पुनरत्र परोपदेशमाकाङ्क्षन्ते इति ॥५०॥ अथ प्रस्तुतमेवाहसुस्वास्थ्यं च परमानन्दः || ५१ ॥ ५३२॥ इति ।
निरुत्सुकप्रवृत्तिसाध्यस्वास्थ्याद् यदधिकं स्वास्थ्यं तत् सुस्वास्थ्यमुच्यते, तदेव परमानन्दो मोक्षसुखलक्षणः ॥ ५१ ॥ कुत इत्याहतदन्यनिरपेक्षत्वात् ॥ ५२ ॥ ५३३ ॥ इति ।
तस्माद् आत्मनः सकाशादन्यस्तदन्यः स्वव्यतिरिक्तः तन्निरपेक्षत्वात् ॥५२॥ नन्वन्यापेक्षा किं दुःखरूपा यदेवमुच्यते इत्याहअपेक्षाया दुःखरूपत्वात् ।। ५३ ।।५३४।। इति ।
प्रतीतार्थमेव ॥ ५३ ॥ एतदेव भावयति
अर्थान्तरप्राप्त्या हि तन्निवृत्तिर्दुः खत्वेनानिवृत्तिरेव ॥ ५४।।५३५॥इति ।
अर्थान्तरस्य इन्द्रियार्थरूपस्य प्राप्त्या लाभेन हि: यस्मात् तन्निवृत्तिः किमित्याह- दुःखत्वेनार्थान्तरप्राप्तेरनिवृत्तिरेव दुःखस्येति ॥५४॥||
१. सर्वत्र हितेतरयो° ] ॥। २. मोक्षलक्षणः LJ.I
For Private & Personal Use Only
१५७
www.jainelibrary.org