________________
सवृत्तिके धर्मबिन्दौ १५६
अष्टमोऽध्यायः
न चैतस्य क्वचिदौत्सुक्यम् ॥४३॥५२४॥इति । न नैव च: समुच्चये एतस्य निर्वृतस्य जन्तोः क्वचिदर्थे औत्सुक्यं काङ्क्षारूपम् ॥४३।। ननु किमित्येतन्निषिध्यत इत्याह
दुःखं चैतत् स्वास्थ्यविनाशनेन।।४४॥५२५।।इति । दुःखं पुनरेतद् औत्सुक्यम्, कथमित्याह- स्वास्थ्यविनाशनेन स्वास्थ्यस्य सर्वसुखमूलस्यापनयनेन ॥४४॥ यदि नामौत्सुक्यात् स्वास्थ्यविनाशस्तथापि कथमस्य दुःखरूपतेत्याशङ्क्याह
दुःखशक्त्युद्रेकतोऽस्वास्थ्यसिद्धेः॥४५॥५२६।।इति । दुःखशक्ते: दुःखबीजरूपाया उद्रेकत: उद्भवात् सकाशाद् अस्वास्थ्यस्य स्वात्मन्येवास्वस्थतारूपस्य सिद्धेः संभवात्।।४५॥ अस्वास्थ्यसिद्धिरपि कथं गम्या इत्याह
हितप्रवृत्त्या ॥४६॥५२७।।इति हितप्रवृत्त्या, हितेषु दुःखशक्त्युद्रेकवशसंजातास्वास्थ्यनिवर्तकेषु वस्तुषु मन:प्रीतिप्रदप्रमदादिषु प्रवृत्त्या चेष्टनेना।४६।। अथ स्वास्थ्यस्वरूपमाह
स्वास्थ्यं तु निरुत्सुकतया प्रवृत्तेः।।४७॥५२८॥इति । स्वास्थ्यम् अस्वास्थ्यविलक्षणं पुनः निरुत्सुकतया औत्सुक्यपरिहारेण प्रवृत्तेः सर्वकृत्येषु।।४७॥ एवं च सति यत्सिद्धं तदाह
परमस्वास्थ्यहेतुत्वात् परमार्थत: स्वास्थ्यमेव ॥४८॥५२९।।इति । परमस्वास्थ्यहेतुत्वात् चित्तविप्लवपरिहारेण प्रकृष्टस्वावस्थाननिमित्तत्वात् परमार्थत: तत्त्ववृत्त्या स्वास्थ्यमेव 'निरुत्सुकतया प्रवृत्तेः' इति संबध्यते, सा च भगवति केवलिनि समस्ति इति सिद्धं यदुत न तस्य क्वचिदौत्सुक्यमिति ॥४८॥
ननुभवेऽपवर्गे चैकान्ततो निःस्पृहस्य कथं विहितेतरयोरर्थयोरस्य प्रवृत्ति-निवृत्ती स्वातामिति, उच्यते, द्रव्यत एव पूर्वसंस्कारवशात् कुलालचक्रभ्रमवत् स्याताम् । एतत् भावयन्नाह१.किमेतनि LIR.आत्मन्येवा'K.॥
१५६
Jain Education International
For Private & Personal use only
.
...
.
wwww.jainelibrary.org