SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ १५५ Jain Education International ||३४|| एवं च सति यत् सिद्धं तदाह नाजन्मनो जरा ||३५||५१६ ।। इति । न नैव अजन्मनः उत्पादविकलस्य जरा वयोहानिलक्षणा संपद्यते ||३५|| एवं च न मरणभयशक्तिः || ३६ ||५१७|| इति । नेति प्रतिषेधे मरणभयस्य प्रतीतरूपस्य सबन्धिनी शक्तिः बीजरूपेति ॥ ३६ ॥ तथान चान्य उपद्रवः ॥ ३७॥५१८।। इति ॥ न च नैव अन्यः तृष्णा-बुभुक्षादिः उपद्रवो व्यसनम् ||३७||तर्हि किं तत्र स्यादित्याशङ्क्याहविशुद्धस्वरूपलाभः ॥ ३८ ॥ ५१९ ।। इति । विशुद्धं निर्मलीमसं यत् स्वस्रूपं तस्य लाभः प्राप्तिः||३८|| तथा आत्यन्तिकी व्याबाधानिवृत्तिः ||३९|| ५२०|| इति । अत्यन्तं भवा आत्यन्तिकी व्याबाधानिवृत्तिः शारीर मानसव्यथाविरहः ||३९|| तामेव विशिनष्टिसा निरुपमं सुखम् ||४०||५२१ ॥ इति । सा आत्यन्तिकी व्याबाधानिवृत्ति: निरुपमम् उपमानातीतं सुखम् ||४०|| अत्र हेतु:सर्वत्राप्रवृत्तेः ॥ ४१ ॥ ५२२॥ इति । सर्वत्र हेये उपादेये च वस्तुनि अप्रवृत्तेः अव्यापरणात्॥ ४१॥ इयमपि कथमित्याहसमाप्तकार्यत्वात् ॥४२॥५२३।। इति । समाप्तानि निष्ठितानि कार्याणि यस्य स तथा तद्भावस्तत्त्वं तस्मात्॥ ४२ ॥ अत्रैवाभ्युच्चयमाह १. पमसुखम् ११. J. L।। २. अव्यापारणात् K. ॥ For Private & Personal Use Only अष्टमोऽध्यायः १५५ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy