________________
सवृत्तिके धर्मबिन्दी १५४
पुनर्जन्माद्यभावः ||२८||५०९ ॥ इति ।
पुनः द्वितीयतृतीयादिवास्या जन्मादीनां जन्म-जरा-मरणप्रभृतीनामनर्थानाम् अभाव: आत्यन्तिकोच्छेदः॥२८॥ अत्र हेतुः— बीजाभावतोऽयम् ।। २९ ।। ५१० ।। इति । बीजस्य अनन्तरमेव वक्ष्यमाणस्याभावात् अयं पुनर्जन्माद्यभाव इति ||२९|| बीजमेव व्याचष्टेकर्मविपाकस्तत् ||३०||५११ ॥ इति ।
Jain Education International
कर्मणां ज्ञानावरणादीनां विपाक: उदयः तत् पुनर्जन्मादिबीजमिति ॥ ३०॥ न च वक्तव्यमेषोऽपि निर्वाणगतो जीवः सकर्मा भविष्यति इत्याहअकर्मा चासौ ||३१|| ५१२ ।। इति ।
अकर्मा च कर्मविकलच असौ निर्वाणशरणो जीवः ॥ ३१ ॥ भवतु नाम अकर्मा, तथापि पुनर्जन्माद्यस्य भविष्यतीत्याहतद्वत एव तद्ग्रहः ।। ३२ ।।५१३ ।। इति ।
तद्वत एव कर्मवत एव तद्ग्रहः पुनर्जन्मादिलाभः॥३२॥ ननु क्रियमाणत्वेन कर्मण आदिमत्त्वप्रसङ्गेन कथं सर्वकालं कर्मवत एव तद्ग्रह इत्याशङ्कयाहतदनादित्वेन तथाभावसिद्धेः ||३३||५१४ । । इति ।
तस्य कर्मणः कृतकत्वेऽप्यनादित्वेन द्वितीयाध्यायप्रपञ्चितयुक्त्या तथाभावस्य तद्वत एव तद्ग्रहरूपस्य सिद्धेः निष्पत्तेरिति ॥३३॥ ननु ज्ञानिनो धर्मतीर्थस्य कत्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥२२४॥ [ ] इति वचनप्रामाण्यात् कथं नाकर्मणोऽपि जन्मादिग्रह इत्याशङ्क्याह
सर्वविप्रमुक्तस्य तु तथास्वभावत्वान्निष्ठितार्थत्वान्न तद्ग्रहणे निमित्तम् ||३४|| ५१५।। इति ।
सर्वेण कर्मणा विप्रमुक्तस्य पुनस्तथास्वभावत्वात् तत्प्रकाररूपत्वात् किमित्याह — निष्ठितार्थत्वात् निष्पन्ननिः शेषप्रयोजनत्वाद्धेतोः नैव तद्ग्रहणे जन्मादिग्रहणे निमित्तं हेतु: समस्तीति, अयमभिप्रायः — यो हि सर्वैः कर्मभिः सर्वथापि विप्रमुक्तो भवति न तस्य जन्मादिग्रहणे किञ्चिन्निमित्तं समस्ति, निष्ठितार्थत्वेन जन्मादिग्राहकस्वभावाभावात्, यश्च तीर्थनिकारलक्षणो हेतुः कैश्चित् परिकल्प्यते सोऽप्यनुपपन्नः कषायविकारजन्यत्वात् तस्येति
For Private & Personal Use Only
| अष्टमोऽध्यायः
१५४
www.jainelibrary.org