SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ १५३ सूक्ष्माणाम् अनिपुणबुद्धिभिरगम्यानां भावानां जीवादीनां प्रतिपत्ति: अवबोधः ॥२०॥ तत: श्रद्धामृतास्वादनम् ।।२१।।५०२।।इति । सूक्ष्मभावेष्वेव या श्रद्धा रुचि: सैवामृतं त्रिदशभोजनं तस्यास्वादनं हृदयजिह्वया समुपजीवनमिति।।२१।। ततः सदनुष्ठानयोगः ॥२२॥५०३।।इति । सदनुष्ठानस्य साधु-गृहस्थधर्माभ्यासरूपस्य योगः सम्बन्धः॥२२।। तत: अष्टमोऽध्यायः परमापायहानिः॥२३॥५०४॥इति । परमा प्रकृष्टा अपायहानि: नारकादिकुगतिप्रवेशलभ्यानर्थसार्थोच्छेदः।।२३।। ततोऽपि उपक्रियमाणभव्यप्राणिनां यत् स्यात् तदाह सानुबन्धसुखभाव उत्तरोत्तरः प्रकामप्रभूतसत्त्वोपकाराय अवन्ध्यकारणं निर्वृतेः।।२४॥५०५।।इति । सानुबन्धसुखभावः उत्तरोत्तर: उत्तरेषु प्रधानेषूतर: प्रधानः प्रकामः प्रौढः प्रभूत: अतिबहुः यः सत्त्वोपकारः तस्मै संपद्यते, स च अवन्ध्यकारणम् अवन्ध्यो हेतु: निर्वृते: निर्वाणस्य ॥२४॥ निगमयन्नाह इति परं परार्थकरणम् ॥२५।।५०६।।इति । इति एवं यथा प्रागुक्तं परं परार्थकरणं तस्य भगवत इति ॥२५॥ साम्प्रतं पुनरप्युभयो: साधारणं धर्मफलमाह भवोपग्राहिकर्मविगमः ॥२६॥५०७।। इति । परिपालितपूर्वकोट्यादिप्रमाणसयोगकेवलिपर्याययोरन्ते भवोपग्राहिकर्मणां वेदनीया-ऽऽयुर्नाम-गोत्ररूपाणां विगमो नाशो जायते ॥२६॥ ततः निर्वाणगमनम् ॥२७॥५०८।। इति । निर्वान्ति देहिनोऽस्मिन्निति निर्वाणं सिद्धिक्षेत्रं जीवस्यैव स्वरूपावस्थानं वा तत्र गमनम् अवतारः ॥२७॥ तत्र च१.हजिलया L.॥ २. "नरकस्तु नारकः स्यान्निरयो दुर्गतिश्च सः ॥" इति अभिधानचिन्तामणौ ५।२।१३५९॥ "नरकस्य बाहुलकाद् दीर्घत्वे नारकः , नारं कायत्यत्र वा" इति । १५३ स्वोपज्ञवृत्तौ ।। २.लितदेशूनपूर्व' सं.॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy