SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ १५२ अष्टमोऽध्यायः देवेन्द्राणां चर्मर-चन्द्र-शक्रादीनां हर्षस्य संतोषस्य जननं संपादनमिति।।१५।। तथा पूजानुग्रहाङ्गता।।१६||४९७॥इति । पूजया जन्मकालादारभ्याऽऽनिर्वाणप्राप्तेस्तत्तन्निमित्तेन निष्पादितया अमरगिरिशिखरमज्जनादिरूपया योऽनुग्रहो निर्वाणबीजलाभभूतो जगत्त्रयस्याप्युपकारः तस्याङ्गता कारणभाव:, भगवतो हि प्रतीत्य तत्तन्निबन्धनाया भक्तिभरनिर्भरामप्रभुप्रभृतिप्रभूतसत्त्वसंपादितायाः पूजायाः सकाशात् भूयसां भव्यानां मोक्षानुगुणो महानुपकारः संपद्यते इति ॥१६॥ तथा प्रातिहार्योपयोगः ॥१७॥४९८।। इति । प्रतिहारकर्म प्रातिहार्यम्, तच्च अशोकवृक्षादि, यदवाचि अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ॥२२३॥ [ ] तस्योपयोग: उपजीवनमिति।।१७।। ततः परं परार्थकरणम् ॥१८॥४९९॥ इति । परं प्रकृष्टं परार्थस्य परप्रयोजनस्य सर्वसत्त्वस्वभाषापरिणामिन्या पीयूषपानसमधिकानन्ददायिन्या सर्वतोऽपि योजनमानभूमिभागयायिन्या वाण्या अन्यैश्च तैस्तैश्चित्रैरुपायैः करणं निष्पादनमिति ॥१८॥ एतदेव 'अविच्छेदेन' इत्यादिना 'इति परं परार्थकरणम्' एतदन्तेन सूत्रकदम्बकेन स्फुटीकुर्वन्नाह अविच्छेदेन भूयसां मोहान्धकारापनयनं हृद्यैर्वचनभानुभिः।।१९।।५००।।इति । अविच्छेदेन यावज्जीवमपि भूयसाम् अनेकलक्षकोटिप्रमाणानां भव्यजन्तूनां मोहान्धकारस्य अज्ञानान्धतम[स]स्यापनयनम् अपसारः हृद्यैः हृदयङ्गमैः वचनभानुभिः वाक्यकिरणैः।।१९॥ मोहान्धकारे चापनीते यत् स्यात् प्राणिनां तदाह सूक्ष्मभावप्रतिपत्तिः ॥२०॥५०१॥ इति । १.चमरशक्रादीनां K. ॥ २L. विना- तःतन्त्रिब'J.। तत्तनिब'K. || १५२ Jain Education International For Private www.jainelibrary.org Personal use only
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy