SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ अष्टमोऽध्यायः हेयेतरभावाधिगमप्रतिबन्धविधानान्मोहः ॥११॥४९२।।इति । ___ इह निश्चयनयेन हेयानां मिथ्यात्वादीनाम् इतरेषां च उपादेयानां सम्यग्दर्शनादीनां भावानां व्यवहारतस्तु विष-कण्टकादीनां सक्-चन्दनादीनां च अधिगमस्य अवबोधस्य प्रतिबन्धविधानात् स्खलनकरणात् मोहो दोषः।।११।। अथैतेषां भावसंनिपातत्वं समर्थयन्नाह सत्स्वेतेषु न यथावस्थितं सुखम्, स्वधातुवैषम्यात् ।।१२।।४९३।।इति । सत्स्वेतेषु रागादिषु न नैव यथावस्थितं पारमार्थिकं सुखं जीवस्य, अत्र हेतु:- स्वधातुवैषम्यात् दधति धारयन्ति जीवस्वरूपमिति धातवः सम्यग्दर्शनादयो गुणाः, स्वस्य आत्मनो धातवः, तेषां वैषम्यात् यथावस्थितवस्तुस्वस्वरूपपरिहारेणान्यथारूपतया भवनं तस्मात्, यथा हि वातादिदोषोपघाताद्धातुषु रसासृगादिषु वैषम्यापनेषु न देहिनो यथावस्थितं कामभोगजं मन:समाधिजं वा शर्म किञ्चन लभन्ते तथा अमी संसारिण: सत्त्वाः रागादिदोषवशात् सम्यग्दर्शनादिषु मलीमसरूपतां प्राप्तेषु न राग-द्वेष-मोहोपशमजं शर्म समासादयन्तीति ॥१२॥ अमुमेवार्थं व्यतिरेकत आह क्षीणेषु न दुःखम्, निमित्ताभावात् ॥१३॥४९४॥इति । क्षीणेषु रागादिषु न दुःखं भावसंनिपातजं समुत्पद्यते, कुत इति चेदुच्यते- निमित्ताभावात् निबन्धनविरहादिति ॥१३॥ तर्हि किं स्यादित्याह आत्यन्तिकभावरोगविगमात् परमेश्वरताऽऽप्तेस्तत्तथास्वभावत्वात् परमसुखभाव इति ॥१४॥४९५।। इति । आत्यन्तिकः पुनर्भावाभावेन भावरोगाणां रागादीनां यो विगम: समुच्छेदः, तस्मात् या परमेश्वरतायाः शक्र-चक्राधिपाद्यैश्वर्यातिशायिन्याः केवलज्ञानादिलक्षणाया आप्ति: प्राप्तिः तस्याः, परमसुखभाव इत्युत्तरेण योग:, कुत इत्याह- तत्तथास्वभावत्वात्, तस्य परमसुखलाभस्य तथास्वभावत्वात् परमेश्वरतारूपत्वात्, परमसुखभाव: संपद्यते, इति: वाक्यपरिसमाप्ताविति ॥१४॥ इत्थं तीर्थकरातीर्थकरयोः सामान्यमनुत्तरं धर्मफलमभिधाय साम्प्रतं तीर्थकृत्त्वलक्षणं तदभिधातुमाह देवेन्द्रहर्षजननम् ॥१५॥४९॥इति । १.समर्थयमान L.॥ समर्थमान J.||२.पातवः । तेषां मु. । अ'धातवः स्वधातवः' इति २ आइस्य लिखने तात्पर्य भाति ॥३:स्थितस्वस्वरूप' J० । 'स्थितस्वरूप सं०L.॥ | १५१ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy