________________
सवृत्तिके | धर्मबिन्दौ
१५०
अष्टमोऽध्यायः
व्यक्तिः , केवलस्य केवलज्ञान-केवलदर्शनलक्षणस्य जीवगुणस्य ज्ञानावरणादिघातिकर्मोपरतावभिव्यक्तिः आविर्भावः, तत: परमसुखलाभः, परमस्य प्रकृष्टस्य देवादिसुखातिशायिनः सुखस्य लाभ: प्राप्तिः, उक्तं चयच्च कामसुखं लोके यच्च दिव्यं महासुखम् । वीतरागसुखस्येदमनन्तांशो न वर्तते ॥२२२॥ [ ] इति ॥५॥ अत्रैव हेतुमाह
सदारोग्याप्तेः ॥६॥४८७।। इति । सदारोग्यस्य भावारोग्यरूपस्य आप्ते: लाभात् ॥६॥ इयमपि कुत इत्याह
भावसंनिपातक्षयात् ॥७॥४८८॥इति । भावसंनिपातस्य पारमार्थिकरोगविशेषस्य क्षयाद् उच्छेदात् ।।७। संनिपातमेव व्याचष्टे
राग-द्वेष-मोहा हि दोषाः, तथा तथाऽऽत्मदूषणात् ॥८॥४८९।।इति । राग-द्वेष-मोहा वक्ष्यमाणलक्षणा: हिः स्फुटं दोषा भावसंनिपातरूपा, अत्र हेतुमाह- तथा तथा तेन तेन प्रकारेण अभिष्वङ्गकरणादिना आत्मनो जीवस्य दूषणाद् विकारप्रापणात् ।।८।। तत्त्व-भेद-पर्यायैर्व्याख्येति न्यायाद् रागादीनेव तत्त्वत आह
अविषयेऽभिष्वङ्गकरणाद् रागः ॥९॥४९०॥इति । अविषये प्रकृतिविशरारुतया मतिमतामभिष्वानर्हे स्त्र्यादौ वस्तुनि अभिष्वङ्गकरणात् चित्तप्रतिबन्धसंपादनात्, किमित्याह- रागो दोषः
Mहिः स्फुटं दोषा भात न्यायाद् रागादीन॥९॥४९०।।इति
॥९॥
तत्रैवाग्निज्वालाकल्पमात्सर्यापादनाद् द्वेषः ॥१०॥४९१।।इति । तत्रैव क्वचिदर्थेऽभिष्वक सति अग्निज्वालाकल्पस्य सम्यक्त्वादिगुणसर्वस्वदाहकतया मात्सर्यस्य परसम्पत्त्यसहिष्णुभावलक्षणस्य आपादनाद् विधानात् देषो दोषः ॥१०॥ १."यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशी कलाम् ('तृष्णाक्षयसुखस्यैतत् कलां नार्हति षोडशीम्' इति प्रत्यन्तरे) ॥" इति महाभारते शान्तिपर्वणि १२।१६८।३६,१२६१७१५१,१२।२६८।६।। २.परं प्रत्यसहिष्णु ॥
१५०
Jain Education Intern donal
For Private & Personal use only
www.jainelibrary.org