________________
सवृत्तिके
धर्मबिन्दौ
अष्टमोऽध्यायः
अपूर्वाणां स्थितिघात-रसघात-गुणश्रेणि-गुणसंक्रमा-ऽपूर्वस्थितिबन्धलक्षणानां पञ्चानामर्थानां प्राच्यगुणस्थानेष्वप्राप्तानां करणं यत्र तदपूर्वकरणम् अष्टमगुणस्थानकम्, ततश्च क्षपकस्य घातिकर्मप्रकृतिक्षयकारिणो यते: श्रेणि: मोहनीयादिप्रकृतिक्षयक्रमरूपा संपद्यते, क्षपकश्रेणिक्रमश्चायम्- इह परिपक्वसम्यग्दर्शनादिगुणो जीवश्चरमदेहवर्ती अविरत-देशविरत-प्रमत्ताप्रमत्त-संयतान्यतरगुणस्थानकस्थः प्रवृद्धतीव्रशुद्धध्यानाधीनमानस: क्षपकश्रेणिमारुरुक्षुरपूर्वगुणस्थानकमवाप्य प्रथमत: चतुरोऽनन्तानुबन्धिनः क्रोधादीन् युगपत् क्षपयितुमारभते, ततः सावशेषेष्वेतेषु मिथ्यात्वं क्षपयितुमुपक्रमते, ततस्तदवशेषे मिथ्यात्वे च क्षीणे सम्यग्मिथ्यात्वं सम्यक्त्वं च क्रमेणोच्छिनत्ति, तदनन्तरमेवाबद्धायुष्कोऽनिवृत्तिकरणं नाम सकलमोहापोहैकसहं नवमगुणस्थानकमध्यारोहति, तत्र च तथैव प्रतिक्षणं विशुद्धयमानः कियत्स्वपि संख्यातेषु भागेषु गतेष्वष्टौ कषायान् अप्रत्याख्यानावरण-प्रत्याख्यानावरणसंज्ञितान् क्रोधादीनेव क्षपयितुमारभते, क्षीयमाणेषु च तेष्वेताः षोडश प्रकृतीरध्यवसायविशेषात् निद्रानिद्रा प्रचलाप्रचला २ स्त्यानगृद्धि३ नरकगति४ नरकानुपूर्वी५ तिर्यगति६ तिर्यगानुपूर्वी७ एकेन्द्रिय८ द्वीन्द्रिय९ त्रीन्द्रिय १० चतुरिन्द्रियजातिनाम ११ आतपनाम १२ उद्योतनाम १३ स्थावरनाम १४ साधारणनाम १५ सूक्ष्मनाम १६ लक्षणा: क्षपयति, ततोऽष्टकषायावशेषक्षये यदि पुरुष: प्रतिपत्ता ततो नपुंसकवेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं ततः पुन: पुरुषवेदं क्षपयति, यदि पुनर्नपुंसकं स्त्री वा तदा पुरुषवेदस्थाने स्ववेदमितरवेदद्वयं च यथाजघन्यप्रथमतया क्षपयति, ततः क्रमेण क्रोधादीन् संज्वलनान् त्रीन् बादरलोभं चात्रैव क्षपयित्वा सूक्ष्मसंपरायगुणस्थाने च सूक्ष्मम्, सर्वथा विनिवृत्तसकलमोहविकारां क्षीणमोहगुणस्थानावस्थां संश्रेयते, तत्र च समुद्रप्रतरणश्रान्तपुरुषवत् संग्रामाङ्गणनिर्गतपुरुषवद्वा मोहनिग्रहनिश्चलनिबद्धाध्यवसायतया परिश्रान्तः सन्नन्तर्मुहूर्त विश्रम्य तद्गुणस्थानकद्विचरमसमये निद्राप्रचले चरमसमये च ज्ञानावरणान्तरायप्रकृतिदशकं दर्शनावरणावशिष्टं प्रकृतिचतुष्कं च युगपदेव क्षपयति । बद्धायु: पुनः सप्तकक्षयानन्तरं विश्रम्य यथानिबद्धं चायुरनुभूय भवान्तरे क्षपकश्रेणिं समर्थयत इति । यश्चात्रापूर्वकरणोपन्यासानन्तरं क्षपकश्रेणेरुपन्यास: स सैद्धान्तिकपक्षापेक्षया, यतो दर्शनमोहसप्तकस्यापूर्वकरणस्थ एव क्षयं करोतीति तन्मतम्, न तु यथा कार्मग्रन्थिकाभिप्रायेण अविरतसम्यग्दृष्ट्याद्यन्यतरगुणस्थानकचतुष्टयस्थ इति ।
ततो मोहसागरोत्तारः, मोहो मिथ्यात्वमोहादिः स एव सागरः स्वयंभूरमणादिपारावार: मोहसागरः, तस्मादुत्तारः परपारप्राप्तिः, ततः केवलाभि१.त्रीनत: बादर'K.।। २.संश्रयति KII
Jan Education Internal
For Private
Personal Use Only
www.jainelibrary.org