SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ १४८ अष्टमोऽध्यायः सुगममेव, परं तच्छेषम् इति धर्मफलशेषम् ॥१॥ एतदेव दर्शयति तेच्च सुखपरम्परया प्रकृष्टभावशुद्धः सामान्यचरमजन्म तथा तीर्थकृत्त्वं च ॥२॥४८॥इति । तच्च तत् पुनर्धर्मशेषफलमुदग्रं परम्परया उत्तरोत्तरक्रमेण प्रकृष्टभावशुद्धः सकाशात्, किमित्याह- सामान्यचरमजन्म, सामान्य तीर्थकरा-ऽतीर्थकरयो: समानं चरमजन्म अपश्चिमदेहलाभलक्षणम् तथेति पक्षान्तरोपक्षेपे तीर्थकृत्त्वं तीर्थकरभावलक्षणम्, च: समुच्चये ॥२॥ तत्राक्लिष्टमनुत्तरं विषयसौख्यम्, हीनभावविगमः, उदग्रतरसम्पत्, प्रभूतोपकारकरणम्, आशयविशुद्धिः,धर्मप्रधानता, अवन्ध्यक्रियत्वम् ॥३॥४८४॥इति । तत्र सामान्यतश्चरमजन्मनि अक्लिष्टं परिणामसुन्दरम् अनुत्तरं शेषभोगसौख्येभ्यः प्रधानं विषयसौख्यं शब्दादिसेवालक्षणम्, हीनभावविगम: जाति-कुल-विभव-वयो-ऽवस्थादिन्यूनतारूपहीनत्वविरहः, उदग्रतरा प्राग्भवेभ्योऽत्यन्तोच्चा सम्पत् द्विपद-चतुष्पदादिसमृद्धिः, तस्यां च प्रभूतस्य अतिभूयिष्ठस्य उपकारस्य स्वपरगतस्य करणं विधानम्, अत एव आशयस्य चित्तस्य विशुद्धिः अमालिन्यरूपा, धर्मप्रधानता धर्मैकसारत्वम्, अतिनिपुणविवेकवशोपलब्धयथावस्थितसमस्तवस्तुतत्त्वतया अवन्ध्या अनिष्फला क्रिया धर्मार्थाद्याराधनरूपा यस्य तद्भावस्तत्त्वम् ।।३।। तथाविशुद्धयमानाप्रतिपातिचरणावाप्तिः, तत्सात्म्यभावः, भव्यप्रमोदहेतुता, ध्यानसुखयोगः, अतिशयर्द्धिप्राप्तिः।।४।।४८५।।इति विशुद्धचमानस्य संक्लिश्यमानविलक्षणतया अप्रतिपातिनः कदाचिदप्यभ्रंशभाजः चरणस्य चारित्रस्य अवाप्ति: लाभः, ततश्च तेन विशुद्ध्यमानाप्रतिपातिना चरणेन सात्म्यं समानात्मता तत्सात्म्यम्, तेन सहकीभाव इत्यर्थः, तेन भावो भवनं परिणतिरिति, भव्यप्रमोदहेतुता ध्यानसुखयोगः भव्यजनसंतोषकारित्वं ध्यानसुखस्य शेषसुखातिशायिनः चित्तनिरोधलक्षणस्य योगः, अतिशयर्द्धिप्राप्तिः अतिशयःः आमौषध्यादिरूपाया: प्राप्तिः ॥॥ ततश्च कालेन ___ अपूर्वकरणम्, क्षपकश्रेणिः, मोहसागरोत्तारः, केवलाभिव्यक्तिः , परमसुखलाभः ।।५।४८६॥इति । १.प्रतिषु पाठा:-तच्च सुखपरंपरया Ko RK.L | तच्च सुखं परंपरया ॥ तच्च परंपरया Kसं०१ ॥ २.तरा सम्पत् Kमू०१ : तरसम्पत् Kसं०१ ॥ ३. क्रियात्वम् १ विना ॥४.भव्यप्रमोदहेतुता भव्यजनसंतोषकारित्वं प्यानसुखस्य LJI भव्यप्रमोदहेतुता भव्यजनसंतोषकारित्वं प्यानसुखयोग: ध्यानसुखस्य मु०॥ Jain Education International Far Private Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy