________________
सवृत्तिके धर्मबिन्दौ
१४७
अष्टमोऽध्याय:
'अथ अष्टमोऽध्यायः व्याख्यातः सप्तमोऽध्यायः । अधुनाऽष्टम आरभ्यते, तस्य चेदमादिसूत्रम्
किं चेह बहुनोक्तेन तीर्थकृत्त्वं जगद्धितम् । परिशद्धादवाप्नोति धर्माभ्यासान्नरोत्तमः ।।४।।इति । किञ्च इत्यभ्युच्चये, इह धर्मफलचिन्तायां बहुना प्रचुरेणोक्तेन धर्मफलेन? यत: तीर्थकृत्त्वं तीर्थ कर]पदलक्षणं जगद्धितं जगज्जन्तुजातहिताधानकर परिशुद्धाद्अमलीमसाद् अवाप्नोति लभते धर्माभ्यासात् प्रतीतरूपात् नरोत्तमः स्वभावत एव सामान्यापरपुरुषप्रधानः, तथाहि-तीर्थकरपदप्रायोग्यजन्तूनां सामान्यतोऽपि लक्षणमिदं शास्त्रेषू ष्यते यथा
एते आकालं परार्थव्यसनिन: उपसर्जनीकृतस्वार्थाः उचितक्रियावन्त: अदीनभावा: सफलारम्भिण: अदृढानुशयाः कृतज्ञतापतय: अनुपहतचित्ताः देवगुरुबहुमानिनः तथा गम्भीराशया: [ललित.] इति ॥१॥ ननु यदि तीर्थकृत्त्वं धमदिवाप्नोति तथापि कथं तदेव प्रकृष्टं धर्मफलमिति ज्ञातुं शक्यमित्याह
नातः परं जगत्यस्मिन् विद्यते स्थानमुत्तमम् । तीर्थकृत्त्वं यथा सम्यक् स्वपरार्थप्रसाधकम् ॥४४॥ इति । न नैव अत: तीर्थकृत्त्वात् परम् अन्यत् जगत्यस्मिन् उपलभ्यमाने चराचरस्वभावे विद्यते समस्ति स्थानं पदम् उत्तम प्रकृष्टं तीर्थकृत्त्वम् उक्तरूपं यथा येन प्रकारेण सम्यग् यथावत् स्वपरार्थप्रसाधकं स्वपखयोजननिष्पादकम् ॥२॥ एतदेव भावयति
पञ्चस्वपि महाकल्याणेषु त्रैलोक्यशङ्करम् । तथैव स्वार्थसंसिद्धया परं निर्वाणकारणम् ॥४५॥ इति ।
पञ्चस्वपि, न पुनरेकस्मिन्नेव क्वचित्, महाकल्याणेषु गर्भाधान-जन्मदिनादिषु त्रैलोक्यशङ्करं जगत्रयसुखकारि, तीर्थकृत्त्वमित्यनुवर्तते, इत्थं परार्थसाधकत्वमुक्त्वा स्वार्थसाधकत्वमाह-तथैव त्रैलोक्यसुखकरणप्रकारेण स्वार्थसंसिद्धया क्षायिकसम्यग्दर्शन-ज्ञान-चारित्रनिष्पत्त्या परं प्रधान निर्वाणकारणं मुक्तिहेतुरिति ॥२॥
इत्युक्तप्राय धर्मफलम्, इदानीं तच्छेषमेव उदग्रमनुवर्णयिष्यामः ॥११॥४८२।।इति । १.करपदयोग्य'Kा करनायोग्य L. २.सुखकरणप्रका' Kमू.। 'सुखकरणका Kसं.।।
१४७
Jain Education International
For Private & Personal use only
!
www.jainelibrary.org