SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दुसूत्रपाठः सवृत्तिके | ७४(१३२) । स आत्यन्तिको दुःखविगम इति ७५(१३३)। धर्मबिन्दौ एवं संवेगकृद्धर्म आख्येयो मुनिना परः । यथाबोधं हि शुश्रूषो वितेन महात्मना ॥१०॥ प्रथम अबोधेऽपि फलं प्रोक्तं श्रोतॄणां मुनिसत्तमैः । कथकस्य विधानेन नियमाच्छुद्धचेतसः ॥११॥ परिशिष्टम् नोपकारो जगत्यस्मिंस्तादृशो विद्यते क्वचित् । यादृशी दु:खविच्छेदाद्देहिनां धर्मदेशना ॥१२॥ इति धर्मबिन्दौ देशनाविधिर्द्वितीयोऽध्यायः समाप्तः । ॥अथ तृतीयोऽध्यायः॥ १६४ सद्धर्मश्रवणादेवं नरो विगतकल्मषः । ज्ञाततत्त्वो महासत्त्वः परं संवेगमागतः ॥१३।। धर्मोपादेयतां ज्ञात्वा संजातेच्छोऽत्र भावतः । दृढं स्वशक्तिमालोच्य ग्रहणे संप्रवर्तते ॥१४॥ योग्यो ह्येवंविधः प्रोक्तो जिनैः परहितोद्यतैः । फलसाधनभावेन नातोऽन्यः परमार्थतः ॥१५॥ इति सद्धर्मग्रहणार्ह उक्तः , साम्प्रतं तत्प्रदानविधिमनुवर्णयिष्यामः १(१३४) । धर्मग्रहणं हि सत्प्रतिपत्तिमद्विमलभावकरणम् २(१३५) । तच्च प्रायो जिनवचनतो विधिना ३(१३६) । इति प्रदानफलवत्ता ४(१३७) । सति सम्यग्दर्शने न्याय्यमणुव्रतादीनां ग्रहणम् , नान्यथा ५(१३८)। जिनवचनश्रवणादेः कर्मक्षयोपशमादितः सम्यग्दर्शनम् ६(१३९) । प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत् ७(१४०) । उत्तमधर्मप्रतिपत्त्यसहिष्णोस्तत्कथनपूर्वमुपस्थितस्य विधिनाऽणुव्रतादिदानम् ८(१४१) । सहिष्णो: प्रयोगेऽन्तराय: ९(१४२) । अनुमतिश्चेतरत्र १०(१४३) । अकथन उभयाफल आज्ञाभङ्गः ११(१४४) । भगवद्वचनप्रामाण्यादुपं स्थितदाने दोषाभाव: १२(१४५) । गृहपतिपुत्रमो क्षज्ञातात् १३(१४६) योगवन्दननिमित्तदिगाकारशुद्धिर्विधिः १४(१४७) । उचितोपचारश्च १५(१४८) । स्थूलप्राणातिपातादिभ्यो विरतिरणुव्रतानि पञ्च १६(१४९) । दिग्व्रतभोगोपभोगमानानर्थदण्डविरतयस्त्रीणि गुणव्रतानि १७(१५०) । सामायिकदेशावका शपौषधोपवासातिथिसंविभागाश्चत्वारि शिक्षापदानि १८(१५१) । एतदारोपणं १.इति धर्मबिन्दौ द्वितीयोऽध्यायः समाप्त: १ ॥ २.समाप्त: D.नास्ति ।। ३.संजातास्थोऽत्र १ ॥ ४.योग्योऽप्येवं J१L || ५.साधकमा १ ॥ ६.सद्धार्ह उक्तः । साम्प्रतं तत्प्रदानविधिः । धर्मग्रहणं सत्प्रति १॥७. वचनप्रानेतं(?)विधिता १॥८: श्रवणग्रहणादेः १॥९.उभयफलाज्ञाभंग: J१॥१०:पस्थितस्य दाने १L॥ ११: मोक्षस्थानात् १॥१२: विरतिस्त्रीणि १॥१३: काशपोषधों'J.K.L. || | १६४ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy