Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 18
________________ सनातनजैनग्रंथमालायां । इत्यसाधारणं प्रोक्तं विशेषणमशेषतः । परसंकल्पिताप्तानां व्यवच्छेदप्रसिद्धये ॥३॥ परैवैशेषिकादिभिः संकल्पिताः परसंकल्पितास्ते च ते आप्ताश्च परसंकल्पिताप्ता महेश्वरादयः तेषामशेषतो व्यवच्छेदप्रसिद्ध्यर्थ यथोक्तमसाधारणं विशेषणमाचार्यैः प्रोक्तमिति वाक्यार्थः । न हीदमीश्वरकपिलसुगतादिषु संभवति बाधकप्रमाणसद्भावात् । भगवत्यहत्येव तत्सद्भावसाधनाचासाधारणविशेषणमिति वक्ष्यामः । ननु चेश्वरादीनामप्याप्तत्वे किं दूषणं येन तद्व्यवच्छेदार्थमसाधा रणं विशेषणं प्रोच्यते किं वान्ययोगव्यवच्छेदान्महात्मनि परमेष्ठिनि निश्चिते प्रतिष्ठितं स्यादित्यारेकायामिदमाह-- अन्ययोगव्यवच्छेदानिश्चिते हि महात्मनि । तस्योपदेशसामर्थ्यादनुष्ठानं प्रतिष्ठितं ॥४॥ ___ भवेदिति क्रियाध्याहारः । ननु चात्रान्येषामन्ययोगव्यवच्छेदाभावेऽपि भगवतः परमेष्टिनस्तत्वोपदेशादनुष्ठानं प्रतिष्ठामियत्येव तेषामविरुद्धभाषित्वादिति चेत् न । परस्परविरुद्धसमयप्रणयनात् तत्त्वनिश्चयायोगात् तदन्यतमस्याप्युपदेशप्रामाण्यानिश्चयादनुष्ठानप्रतिष्ठानुपपत्तेः । ननु मोक्षोपायानुष्ठानोपदेशमाने नेश्वरादयो विप्रपद्यते ततोऽहंदुपदेशादिवेश्वराद्युपदेशादपि नानुष्ठानप्रतिष्ठानुपपना यतस्तव्यवच्छेदेन परमेष्ठी निश्चीयत इति कश्चित् । सोऽपि न विशेषज्ञः सम्यग्मिथ्योपदेशविशेषाभावप्रसंगात् । स्यान्मतं । वैशेषिकैरभिमतस्याप्तस्य निःश्रेयसोपायानुष्ठानोपदेशस्तावत्समीचीन एव बाधकप्रमाणाभावात् । श्रद्धाविशेषोपगृहीतं हि सम्यग्ज्ञानं वैराग्यनिमित्तं परां काष्ठामापनमंत्यनिःश्रेयसहेतुरित्युपदेशः । तत्र श्रद्धाविशेषस्तावदुपादेयेषूपादेयतया हेयेषु हेयतयैव श्रद्धानं । सम्यग्ज्ञानं पुनर्यथावस्थितार्थाधिगमलक्षणं, तद्धेतुकं च वैराग्यं रागद्वेषप्रक्षयः एतदनुष्ठानं च तद्भावनाभ्यासस्तस्यैतस्य निःश्रेयसोपायानुष्ठानस्योपदेशो न प्रत्यक्षेण बाध्यते । जीवन्मुक्तेस्तत एव प्रत्यक्षतः कश्चित् (केषांचित्) स्वयं संवेदनात् । परैः संहर्षायासविमुक्तेरनुमीयमानत्वात् । जीवन्नेव हि विद्वान् संहर्षायासाभ्यां विमुच्यत इत्युपदेशाच्च नानुमानागमाभ्यां बाध्यते जीवन्मुक्तिवत् । परममुक्तेरप्यत एवानुष्ठानात् संभावनोपपत्तेः । नचान्यत्प्रमाणं बाधकं तदुपदेशस्य तद्विपरीतार्थव्यवस्थापकत्वाभावादिति । तदपि न विचारक्षम । श्रद्धादिविशेषविषयाणां पदार्थानां यथावस्थितार्थत्वासंभवात् । द्रव्यादयो हि षट्पदार्थास्तावदुपादेयाः सदात्मानः प्रागभावादयश्चासदात्मानस्ते च यथा वैशेषिकैावर्ण्यते तथा न यथार्थतया व्यवतिष्ठते तद्ग्राहकप्रमाणाभावात् । द्रव्यं हि गुणादिभ्यो भिन्नमेकं, गुणश्चेतरेभ्यो भिन्न एकः, कर्म चैकमितरेभ्यो भिन्नं, सामान्यं चकं, विशेषश्चैक: पदार्थः समवायवत् यद्यभ्युपगम्यते तदा द्रव्यादयः षट्पदार्थाः सिद्ध्येयुः । न च द्रव्यपदस्यैकोऽर्थः परैरिष्यते गुणपदस्य कर्मपदस्य सामान्यपदस्य विशेषपदस्य च, यथा समवायपदस्यैकः समवायोऽर्थः इति कथं षट्पदार्थव्यवस्थितिः । स्यान्मतं । पृथिव्यप्तेजावाय्वाकाशकालादगात्ममनांसि नव द्रव्याणि द्रव्यपदस्यार्थ इति कथमेको द्रव्यपदार्थः ? सामान्यसंज्ञाभिधानादिति चेत् न । सामान्यसंज्ञायाः सामान्यवद्विषयत्वात् । तदर्थस्य सामाम्यपदार्थत्वे ततो विशेषेष्वप्रवृत्तिप्रसंगात् । * द्रव्यपदार्थस्यैकस्यासिद्धेश्च । पृथिव्यादिषु हि द्रव्यामिति संज्ञा द्रव्यत्वसामान्यसंबंधनिमित्ता। तत्र द्रव्यत्वमेकं न द्रव्यं किंचिदेकमस्ति । द्रव्यलक्षणमेकमिति प्रेत् तत्किमिदानी द्रव्यपदार्थोऽस्तु न चैतद्युक्तं लक्ष्यस्य द्रव्यस्याभावे तल्लक्षणानुपपत्तेः । पृथिव्यादीनि * सामान्यरूप-द्रव्यपदार्थ

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182