Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 130
________________ सनातनजैनग्रंथमालायांन सामान्यात्मनोंदति न व्येति व्यक्तमन्वयात् । व्ये युदेति विशेषात्ते सहैकत्रोदया द सत् ॥ ५७ ॥ वृत्तिः- थमनेकांते त्रयमेकस्मिन् संभवति? इति चेदत आह । सामान्यात्मना द्रव्यरूपेण नोदेति नोत्पद्यते न व्येति न विनश्यति कुतोऽन्वयात् सर्वपर्यायेष्वनुगतेकाकारेण वर्तनात व्यक्तं रफुटमेतत् । विशे षात्पर्यायरूपेणोत्पद्यते विनश्यति च । तवार्हतः । सह युगपदेककस्मिन् वस्तुनि । उदयादि सत्-उत्पादविनाशस्थितयः सत्यो विरोधाभावात् ॥ ५७ ॥ कथं य एवोत्पादः स एव विनाशो यावेव विनाशोत्पादौ तावेव स्थितिः ? इत्यत आह अष्टशती-चलाचलात्मकं वस्तु कृतकाकृतकात्मकत्वात् । न हि चेतनस्य अन्यस्य का सर्वथोत्पत्तिः सदादिसामान्यस्वभावेन सत एवातिशयांतरोपलंभात् घटवत् । कथंचिदुत्पादविगमात्मकत्वादिति योज्यं ॥१७॥ कार्योत्पादः क्षयो हेतोनियमाल्लक्षणात्पृथक् । न तौ जात्याद्यवस्थानादनपेक्षाः खपुष्पवत् ॥ ५८॥ वृत्तिः-योऽयं कार्यस्योत्पादः स एव हेतोरुपादानकारणस्य क्षयो विनाशो नियमान्निश्चयात् । लक्षणात्पुनः पृथग-भिन्नौ स्वरूपभेदात् । जात्यादेरवस्थानात् सत्वप्रमेयत्वादिना न तो भिन्नौ। कुतः ? तेन रूपे गैकत्वात् । अनपेक्षाः परस्परापेक्षामंतरेण ते स्थित्युत्पत्तिविनाशाः खपुष्पसमानाः । तस्मादेते कथंचित् परस्परमभिन्नाः कथंचिद्भिन्नाश्च भवंति ॥ १८ ॥ ।। लौकिकदृष्टांतेन स्पष्टयन्नाह-- अष्टशती-कार्यकारणयोरुत्पादविनाशौ कथंचिद्भिनौ भिन्नलक्षणसंबंधित्वात् सुखदुःखवत् । स्यादभिन्नौ तदभेदस्थितजातिसंख्याद्यात्मकत्वात् पुरुषवत् । उत्पादविगमध्रौव्यलक्षणं स्याद्भिन्नं-अस्खलन्नानाप्रतीतिरूपादिवत् । उत्पादः केवलो नास्ति स्थितिविगमरहितत्वात् वियत्कुसुमवत् । तथा स्थितिविनाशौ प्रतिपत्तव्यौ ।। ५८॥ घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयं । शोकप्रमोहमाध्यस्थ्यं जनो याति सहतुकम् ॥ ५९॥ :: वृत्तिः-अयं जनस्त्रितयार्थी यो घटार्थी स तस्मिन् भग्ने शोकं याति । यश्च मौल्यर्थी स तस्मिन्नुत्पन्ने हर्षे याति । यश्च सुर्वणार्थी स माध्यस्थ्यं याति सुवर्णसद्भावात् । नचैतदहेतुकं किंतु सहेतुकमेव । तदेक सुवर्णद्रव्यं घटस्वरूपेण विनश्यति, तदेव मैलिस्वरूपेणोत्पद्यते, सुवर्णस्वरूपेणानुगतेकाकारस्वरूपेण तिष्ठति। एवं सर्व वस्तु ।। ५९॥ अष्टशती-प्रतीतिभेदमित्थं समर्थयते-घटं भक्त्वा मौलिनिर्वतने घटमौलिसुवार्थी तन्नाशोत्पादस्थितिषु विषादहषौंदासीन्यस्थितिमयं जनः प्रतिपद्यत इति । निर्हेतुकत्वे तदनुपपत्तेः ॥ ५९॥ पुनरपि लोकोत्तरदृष्टांतेन पोषयति-- पयोवृतो न दध्यत्ति न पयोति दधिवतः । अगोरसवतो नोभे तस्मात्तत्त्वं त्रयात्मकं ॥ ६॥ वृति:--यस्य पयो-दुग्धमेवाहं भुज इति व्रतं नियमः, नासौ दभ्यत्ति-दधि भुक्ते । यस्य च दन्यह भुख इति व्रतं नासौ पयोऽत्ति-दुग्धं भुक्ते । यस्य चागोरसमह मुंज इति व्रतं नासावुभयमत्ति । कुतः 'गोरसरूपेण तयारेकत्वात् । दुग्धव्रतस्य दधिरूपेणाभावात् । दधिव्रतस्य पपोखपणाभावात् । अगारेसनतस्य

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182