Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
आप्तमीमांसा।
सिद्धसाध्यतापारहारद्वारेणामुमेवार्थ प्रकटयन्नाह
अष्टशती-स्वरूपव्यतिरिक्तेन शरीरेंद्रियादिकलापेन जीवशब्दोऽर्थवान् अतो न कृतः प्रत्यक्षतः स्यात् । इति विक्लवाल्लापमानं लोकरूढेः समाश्रयणात् । यत्रायं व्यवहारः जीवो गतस्तिष्ठतीति वा नात्र संज्ञा, अभिप्रेतमानं सूचयति ततोऽर्थक्रियायां नियमायोगात्, तत्करणप्रतिपत्तीनां तदभावनादरणीयत्वात्, साधनतदाभासयोरन्याथा विशेषासंभवात्, परंपरयापि परमार्थंकतानत्वं वाचः प्रतिपत्तव्यं । कचिद् व्यभि चारदर्शनादनाष्वासे चक्षुरादिबुद्धस्तदाभासोपलब्धः कुतो धूमादरग्न्यादिप्रतिपत्तिः ! कार्यकारणभावस्य व्यभिचारदर्शनात् । काष्टादिजन्मनोऽग्नेरिव मणिप्रभतेरपि भावात् । तद्विशेषपरीक्षायामितरत्रापि विशेषाभावात् । अभिसंधिवैचित्र्यादभिधानव्यभिचारोपलंभे तदितरकारणसामग्रीशक्तिवैचित्र्यं पश्यतां कथमाश्वासः । तस्मादयमक्षलिंगसंज्ञादोषाविशेषेऽपि कचित्परितुष्यन्नन्यतमप्रद्वेषेण ईश्वरायते परीक्षाक्लेशलेशाऽसहत्वात् । भावोपादानसंभवे हि समाख्यानामितरेतरोपादानप्रक्लूप्तिः। भावश्चात्र हर्षविषादाद्यनेकविकारविवर्तः प्रत्यात्मवेदनीयः प्रतिशरीरं भेदाभेदात्मको प्रत्याख्यानार्हः प्रतिक्षिपंतमात्मानं प्रतिबोधयतीति कृतं प्रयासेन । न हि मायादिसमाख्याः स्वार्थरहिताः विशेषार्थप्रतिपत्तिहेतुत्वात् प्रमाणसमाख्यावत् ॥ ८४ ॥
बुदिशब्दार्थसंज्ञास्तास्तिस्रो बुद्धयादिवाचिकाः ।
तुल्या बुद्धयादिवोधाश्च त्रयस्तत्मतिबिंबिकाः ॥५॥ बृत्ति:-बुद्धिश्च शब्दश्चार्थश्च बुद्धिशब्दार्थास्तेषां संज्ञा बुद्धिशब्दार्थसंज्ञास्तिस्रस्त्रिसंख्याः । बुद्धिरादिर्येषां ते बुद्ध यादयस्तेषां वाचिकाः प्रतिपादिका तुल्याः समाः । केन ? बुद्धयाद्यर्थप्रतिपादकत्वेन । बुद्धयादीनां बोधाश्च ज्ञानानि च बुद्धयःद्यर्थस्य प्रविविंबिका प्रतिनिधयस्त्रयस्तेऽपि तुल्या अर्थप्रतिपादकत्वेन ॥ किमुक्तं भवति-गौरिति जानीत इतीयं बुद्धेर्वाचिका संज्ञा । तस्याश्च श्रोतुः पुरुषस्य स्वार्थे बोधको बोधो भवति । गौरित्याहेतीयं शब्दस्य स्वस्यैव रूपस्य वाचिका संज्ञा। तस्याश्च श्रोतुः पुरुषस्य स्वार्थे शब्दस्य स्वस्मिन्नेव रूपे बोधको बोधो भवति । गामानय दोहार्थमितीयं संज्ञा बाह्यार्थस्य वाचिका भवति । तस्याश्च श्रोतुः स्वार्थे सास्नादिमति पिण्डे बोधको बोधो भवति । ततो बुद्धयाद्यर्थवाचकत्वेन संज्ञास्तिनः समा एव बुद्धयादीमा शब्दार्थानां त्रयोऽपि बोधका वेदका बोधा बुद्धयादिशब्दार्थप्रतिभासकाश्च समा एव तत्प्रतिभासकत्वेना।८५॥
पुनरप्याशंक्य तमेव बाह्यार्थे प्रतिपादपन्नाह--
अष्टशती-हेतुयभिचाराशंकां प्रत्यस्तमयति-तिसृणामपि स्वव्यतिरिक्तवस्तुसंबंधदर्शनात्तबुद्धीनां च तनि सनात्तद्विषयतोपपत्तेः ॥ ८५ ॥
वक्तृश्रोतृप्रम तृणां वाक्यबोधप्रमाः पृथक ।
भ्रांतावेव प्रमाभ्रांती बाह्यार्थी तादृशेतेरौ ॥ ८६ ॥ वृत्तिः-वक्ता च श्रोता च प्रमाता च वक्तृश्रोतृप्रमातारस्तेषां वक्तृश्रोतृप्रमातृणां वाचकश्रावकज्ञापकानां । यथासंख्यं वाक्यं च बोधश्च प्रमा च वाक्यबोधप्रमाः शब्दशाब्दप्रत्यक्षानुमानानि । पृथक . व्यवस्थित लक्षणानि । भ्रांताव यदि भ्रांतिस्वरूपे व्यवतिष्ठेरन् न तु वर्तेरन्निति वाक्यशेषः । ततः को दोषः स्यादित्याह-प्रमाभ्रांतो सर्वेषां प्रमाणानां बाह्यापेक्षायां द्वैविध्ये सति प्रमाणयोः प्रत्यक्षाप्रत्यक्षयोः प्रत्यक्षानुमानयोर्वा भ्रांती भ्रांतिस्वरूपतायां सत्यामपि । बाह्यार्थों बाह्यविशेषों दृश्यानुमेयाख्यौ । तादृशात्प्रस्तुताद्धांतस्वरूपादितरावन्यावभ्रांतस्वरूपौ क्रमाक्रमानेकांतात्मको संतो विभावनीयौ स्यातां । अथ वा प्रमाभ्रांती यौ भ्रांताभ्रांती बाह्याौँ भ्रांतावेव तत इदं भ्रांतामिदमभ्रांतमिति विचारोऽनर्थकः स्यात् ॥ ८६ ।।
बाह्यार्थे सति प्रमाणमप्रमाणं च युज्यते नान्यथाऽत आह

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182