Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 144
________________ सनातनजैनग्रंथमालायांकरणोत्पत्तरात्मनो धर्माधर्मयोश्च स्वयमचेतनत्वात् विचित्रोपभोगयोग्यतनुकरणादिसंपादनकाशलासंभवात। तन्निमित्तमात्मांतरं मृत्पिडादिकुलालवदिति चेन्न तस्यापि वितनुकरणस्य तत्कृतेतरसंभवातातादृशोऽपि निमित्तभावे कर्मणामचेतनत्वेऽपि तन्निमित्तत्वमविप्रतिषिद्धं सर्वथा दृष्टांतव्यतिक्रमात् । स्थित्वा प्रवर्तमानार्थक्रियादिचेतनाधिष्ठानादिति नियमे पुनरीश्वरादेरपि माभूत् । नायं प्रसंगो बुद्धिमत्त्वादितिचेत् .? तत एव तर्हि प्रहीणतनुकरणादयः प्राणिनो माभूवन् । कर्मणां वैचित्र्यादिति चेत् तेषामीश्वरज्ञाननिमित्तत्वे समानः प्रसंगः। तदनिमितत्वे तनुकरणादेरपि तन्निमित्तत्वं माभूद्विशेषाभावात् । अर्थक्रियादेरपि ताभ्यामनैकांतिकत्वं । ततः कर्मबंधविशेषवशात् चित्राः कामादयः ततः कर्मवैचित्र्यं । नहि भावस्वभावोपलंभ: करणीयः अन्यत्रापि तत्प्रसंगनिवृत्तेः । न तर्हि केषांचिन्मुक्तिरितरेषां संसारश्च । कर्मबंधनिमित्तविशेषादिति चेन्न तेषां शुद्धाशुद्धितः प्रतिमुक्तीतरसंभवात्-आत्मनां ॥ ९९ ॥ शुद्धयशुद्धी पुनः शक्ती ते पाक्यापाक्यशक्तिवत् । साधनादी तयोर्व्यक्ती स्वभावोऽतर्कगोचरः ॥ १०० ॥ वृत्तिः-शुद्धयशुद्धी ये शक्ती भव्याभव्यत्वरूपे ते अनादितत्त्वार्थश्रद्धानाश्रद्धानयोग्यके कटुकेतरमुद्गपाक्यापाक्यशक्तिवत् तयोर्भव्यत्वाभव्यत्वशक्त्योर्व्यक्ती तत्त्वार्थश्रद्धानप्रियधर्मत्वादिपरिणत्यपरिणती साद्यनादी । कुतोऽयं शक्तिभेदोऽतर्कगोचरः स्वभावो यतः ॥ १० ॥ एवं तावत्प्रमाणपरतन्त्रप्रमेयविचारः कृतः । अधुना प्रमाणत्वनिरूपणार्थमाह अष्टशती-भव्येतरस्वभावो तेषां सामर्थ्यासामर्थ्य माषादिपाक्यापरशक्तिवत् । शक्तः प्रादुर्भावापेक्षया सादित्वमेवमभिसंधिनानात्वं शुद्धयशुद्धिशक्तयोरिति भेदमाचार्यः प्राह । ततोऽन्यत्रापि साद्यनादी प्रकृतशक्तयोर्व्यक्ती । कुतः शक्तिप्रतिनियम इति चेत् ? न हि भावस्वभावाः पर्यनुयोक्तव्याः ॥ १० ॥ तत्त्वज्ञानं प्रमाणं ते युगपत्सर्वभासनं । क्रममावि च यज्शानं स्याद्वादनयसंस्कृतं ॥ १०१ ॥ वृत्तिः-तत्वज्ञानं परार्थबोधः पुनरपि कथंभूतं युगपत्सर्वार्थमवभासत इति युगपत्सर्वभासनं अक्रमण परिच्छेदात्मकमित्यर्थः तत्प्रमाणमेव । क्रमभावि च तज्ज्ञानं छद्मस्थीयं चक्षुरादिकं चकारादक्रमभावि च दीर्घशष्कुल्यादिभक्षणे संभवात् । सर्वथा सदसदेकानेकनित्यानित्यादिसकलैकांतप्रत्यनीकानेकांततत्त्वविषयः स्याद्वादो जातियुक्तिनिबंधनो वितर्को नयस्ताभ्यां संस्कृतं प्रमाणगोचरं नीतं तदपि प्रमाणं स्याद्वादनयसंस्कृतं यतस्ते तव ।। १०१॥ प्रमाणफलं दर्शयन्नाह:__ अष्टशती-बुद्धेरनेकांतात् येनाकारेण तत्वपरिच्छेदः तदपेक्षया प्रामाण्यं । ततः प्रत्यक्षतदाभासयोरपि प्रायशः संकीर्णा प्रामाण्येतरस्थितिरुन्नेतव्या । प्रसिद्धानुपहतेंद्रियदृष्टेरपि चंद्रार्कादिषु देशप्रत्यासत्याद्य भूताकारावभासनात् । तथोपहताक्षादेरपि संख्यादिविसंवादेऽपि चंद्रादिष्वभावतत्त्वोपलभात् । तत्प्रकर्षापेक्षया व्यवदेशव्यवस्था गंधद्रव्यादिवत् । तथानुमानादेरपि कथंचिन्मिथ्याप्रतिभासेऽपि तत्त्वप्रतिपत्यैव प्रामाण्यं । एकांतकल्पनायां तु नांतर्बहिस्तत्त्वसंवेदनं स्वयमद्वयादेईयादिप्रतिभासमानात् रूपादि स्वलक्षणानां च तथैवादर्शनात् यथा व्यावय॒ते । तद्विशेषोपलंभाभ्युपगमेऽपि तद्व्यवसायवैकल्ये कचिद्धर्माधर्मसंवेदनवत् परीक्षत्वोपपत्तेः । विकल्पानामतत्त्वविषयत्वात् कुतस्तत्त्वप्रतिपत्तिः ? मणिप्रदीपप्रभादृष्टांतोऽपि स्वपक्षघाती माणप्रभादर्शनस्यापि संवादकत्वेन प्रामाण्यप्राप्त्या प्रमाणांतीवविघटनात् । न हि प्रयक्षं स्वविषये विसंवादनात् शक्तिकादर्शनवद्रजतभ्रांतौ । नापि लैंगिकं लिंगलिंगिसंबधाप्रतिपत्तेः-अन्यथा दृष्टांतेतरयोरेकत्वात् किं केन कृतं स्यात् । कादाचित्कार्थप्राप्तरोरेकादेरपि संभवात् ।

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182