Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 145
________________ आप्तमीमांसा | न हि मिथ्याज्ञानस्य संवादनैकांतः । तथा न लैंगिकं सर्वथैवाविसंवादकत्वात् । तस्मात्सूक्तं तत्त्वज्ञानमेव प्रमाणं । कारणस्य सामिग्रीभेदात्प्रतिभासभेदेऽपि इति । प्रमाणमेव वा तत्त्वज्ञानं । ततः स्वलक्षणदर्शनानंतरभाविनस्तत्त्वव्यवसायस्य प्रमाणतोपत्तेः प्रत्यक्षमनुमानमिति प्रमाणे एवेत्यधारणं प्रत्याचष्टे अनधिगतार्थधिगमाभावात्, तदप्रमाणत्वे लैंगिकस्यापि माभूद्विशेषाभावात् । अनधिगतस्वलक्षणाव्यवसायात् अनुमितेरतिशयकल्पनायां प्रकृतस्यापि न वै प्रामाण्यं प्रतिषेध्यं — अनिर्णीत निर्णयात्मकत्वात् क्षणभंगानुमानवत् । ध्वनेरखंडशः श्रत्रणाधिगमोऽपि प्राथमकल्पिकस्तत्त्वनिर्णीतिरेव । तदत्यये दृष्टेरपि विसंवादकत्वेन प्रामाण्यानुपपत्तेरदर्शनातिशायनात् । तद्दर्शनाभावेऽपि तस्वनिश्चये तदन्यसमारोपव्यच्छेदलक्षणप्रमा णलक्षणांगीकरणात् । कचित्कुतश्चिद्धूमकेतुलैंगिकवन्निर्णीतार्थमात्रस्मृतेरधिगतार्थाधिगमात् प्रामाण्यं माभूत्। प्रमितिविशेषाभावात्, प्रकृतीनर्णयस्य प्रामाण्ये हि न किंचिदतिप्रसज्यते निर्णीतेऽपि कथंचिदतिशायनात् । प्रत्यभिज्ञानं प्रमाणं व्यवसायातिशयोपपत्तेः तत्मामर्थ्याधीनत्वात् प्रमाणत्वसिद्धेः, अन्यथा हि विसंवादः स्यात् लिंगलिंगिसबंधज्ञानं प्रमाणमनिश्चितनिश्चयादनुमानवत् । सत्त्वक्षणिकत्वयोर्धूमतत्कारणयोर्वा साकल्येन व्याप्तिप्रतिपत्तौ न प्रत्यक्षत्वमुत्सहते सन्निहितार्थानुकारित्वात् अपरीक्षाक्षमत्वाच्च । नानुमानमनवस्थानुषंगात् । सूदूरमपि गत्वा तदुभयव्यतिरिक्तं व्यवस्थानिमित्तमभ्युपगंतव्यं । उपमानादिकं प्रमाणांतरभावमिच्छतां तत्त्वनिर्णयप्रत्यवमर्शप्रतिबंधाधिगमप्रमाणत्वप्रतिषेधः प्रायशो वक्तुर्जडिमानमाविष्करोति इति प्रत्यक्षं परोक्षमित्येद्वितयं प्रमाणं अर्थापत्त्यादेरनुमानव्यतिरेकेऽपि परोक्षेऽतर्भावात् । तत्र सकलज्ञानावरणपरिक्षयविभितं केवलज्ञानं युगपत्सर्वार्थविषयं । तथाचोक्तं ' सर्वद्रव्यपर्यायेषु केवलस्य' इति । तज्ज्ञानदर्शनयोः क्रमवृत्तौ हि सर्वज्ञत्वं कादाचित्कं स्यात् । कुतस्तत्सिद्धिरिति चेत् ? सामान्यविशेषविषययोर्विगतावरणयोरयुगपत्प्रतिभासायेोगात् प्रतिबंधांतराभावात् । शेषं सर्व क्रमवृत्ति प्रकारांतरासंभवात् । चक्षुरादिज्ञानपंचकस्यापि परस्परव्यवधानेऽपि विच्छेदानुपलक्षणं क्षणक्षयवत् । यौगपद्ये हि संतानभेदात्परस्परपरामर्शाभावः संतानांतरवत् । मानसप्रत्यक्षेऽपि चक्षुरादिज्ञानानंतरप्रत्ययोद्भवेन कश्चिद्विशेषः क्रमवृत्तो व्यवधानप्रतिभासविकल्पप्रतिपत्तेरसंभवात् । यौगपद्ये हि स्पर्शादिप्रत्यवमर्शविरोधः पुरुषांतरवद्विषयस्यानेकांतात्मकत्वात् । मतिज्ञानादि स्याद्वादनयलाक्षतं प्रतिपत्तव्यं ॥ १०१ ॥ उपेक्षा फलमाद्यस्य शेषस्यादानहानधीः । पूर्व वाऽज्ञाननाशो वा सर्वस्यास्य स्वगोचरे ।। १०२ ॥ ४५ वृत्तिः- [ : - आद्यस्य प्रमाणस्य केवलज्ञानस्य फलमुपेक्षा रागमोहाभावः । शेषस्य प्रमाणस्य छनस्थीयज्ञा. नस्य, आदानं ग्रहणं हानं त्यागस्तयोर्धीर्बुद्धिः तत्फलं । पूर्वे वा उपेक्षा वेत्यर्थः । सामान्यापेक्षायां नपुंसकलिगता । पूर्वा वेति पाठांतरं । वा अज्ञाननाशः फलं ज्ञानतेत्यर्थः । सर्वस्यास्य मत्यादिभेदभिन्नस्य हिताहितभेदभिन्ने स्वगोचरे स्वविषये वर्तमानस्यौत्सर्गिकं फलमज्ञाननाश इत्युक्तं ॥ १०२ ॥ प्रस्तुतस्याद्वादाख्यपरार्थसाधनसमर्थनार्थमाह अष्टशती - सिद्धप्रयोजनत्वात् केवलिनां सर्वत्रोपेक्षा । करुणावतः परदुःखजिहासोः कथमुपेक्षा तदभावे कथं वाप्तिः ? इति चेत् स्वदुःखनिवर्तनवदकरुणयापि वृत्तेरन्यदुःखनिराचिकर्षाियां । दयालोरे'वात्मदुःखनिवर्तनादसमाधिरिति चेत् ? न वै प्रदीपः कृपालुतया आत्मानं परं वा तमसा निवर्तयति इति । कल्पयित्वापि कृपालुतां तत्करणस्य स्वभावसामर्थ्य मृग्यं । एवं हि परंपरापरिश्रमं परिहरेत् । मत्यादेः साक्षात्फलं स्वार्थव्यामोहविच्छेदः तदभावे दर्शनस्यापि सन्निकर्षाविशेषात् । क्षणपरिणामापलंभवदविसंवादकत्वासंभवात् । परंपरया हानोपादानसंवित्तिः । तथाहि - करणस्य क्रियायाश्च कथंचिदकत्वं प्रदीपतमोविगमवत् । नानात्वं च परश्वादिवत् । तस्माद्ग्राह्यसंविदाकारयोः प्रमाणफलव्यवस्थायामपि विसंवादनिराक

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182