Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 143
________________ आप्तमीमांसा । ४३. तिशयेन विमोक्षः स्यादिति संबंध: । अथवा प्रागुक्तान्मोक्षप्रकारादन्येन प्रकारेणापि सह जन्मनो योगः स्यात् । तथा च सति न बन्धो नापि मोक्षस्तस्य विचाराक्षमत्वात् ॥ ९६ ॥ अष्टशती - यदि बंधोऽयमविज्ञानात् नेदानीं कश्चिन्मुच्येत सर्वस्यैव क्वचिदज्ञानोपपत्तेर्ज्ञेयानंत्यात् । यदि पुनर्ज्ञाननिर्ह्रासादूब्रह्मप्राप्तिः - अज्ञानात्सुतरां प्रसज्येत । दुःख निवृत्तेरिव सुखप्राप्तिः ॥ ९६ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ९७ ॥ वृत्तिः- उभयैकांतावक्तव्यमपि दुष्टं विरोधात् ॥ कथं तर्हि तौ स्यातामत आह अष्टशती - नहि सर्वात्मनैकस्यैकदा ज्ञानस्तोकान्मोक्षो वहुतराज्ञानाद्वेध इत्येकांतयेोरविरोधः स्याद्वादन्यायविद्विषां सिद्ध्यति येन तदुभयैकात्म्यं स्यात् ॥ ९७ ॥ अज्ञानान्महतो बंधो नाज्ञानाद्वीतमोहतः । वानस्तोकाच्च मोक्षः स्यादमोहा-मोहितोऽन्यथा ॥ ९८ ॥ वृत्तिः - ज्ञानात्पुनरपि किंविशिष्टात् मोहतो मिध्यात्वरूपाद्वधो भवति विनष्टमिथ्यात्वरूपादज्ञानाga बंधो भवति ज्ञानस्तोकादपि मोक्षः स्याद्यद्यमोहाद्भवेत् यदि पुनर्मोहितः स्यात्तस्य मोक्षाभाव एव ॥ ९८ ॥ अथ कदाचिन्मनुषे न देवान्नापि पौरुषान्न ज्ञानान्नाप्यज्ञानात् किं तु ईश्वरप्रेरणादित्यस्य मतस्य निरा-करणायाह-अथवा कामादीनां कमर्णश्च वैचित्र्यमनादित्वं च दर्शयितुमाह अष्टशती-मोहनीयकर्मप्रकृतिलक्षणादज्ञानाद् युक्तः कर्मबंधः ततोऽन्यतोऽपि बंधाभ्युपगमेऽतिप्रसंगात् । तथैव बुद्धेरपकर्षात् मोहनीयपरिक्षयलक्षणान्मोक्षमिति । विपर्ययेऽपि विपर्यासादित्यधिगंतव्यं ॥ ९८ ॥ कामादिप्रभवश्चित्रः कर्मबंधानुरूपतः । तच्च कर्म स्वहेतुभ्यो जीवास्ते शुद्धयशुद्धितः ॥ ९९ ॥ वृत्तिः - कामादीनां रागादीनां प्रभव उत्पादः कार्यरूपश्चित्रों नानाप्रकारः । कर्मबन्धानुरूपतःज्ञानावरणदिकर्मणः कारणाद्भवति तच्च कर्म ज्ञानावरणादिकं स्वहेतुभ्यो भवति । कुत एतत् ? अनादिर्बंधबंधहेतुसंतानो बीजांकुरवत् न पुनरीश्वरादेस्तस्यावस्तुत्वात् विरागाक्षमत्वेन । न तर्हि केषांचिन्मुक्तिरन्येषां संसारश्च ... कर्मबंधनिमित्तविशेषादिति चेदाह - ते भगवतोऽर्हतो जीवा द्विप्रकाराः संसारिणः संति । कुतः शुद्धयशुद्धितो भव्याभव्यशक्तेः । अत एव न सर्वेषां मोक्षः । एतेनान्यदपि मतांतरं निराकृतं वेदितव्यं ॥९९॥ शुद्धयशुद्धिस्वरूपप्रतिपादनायाह अष्टशती - संसारोऽयं नैकस्वभावेश्वरकृतः तत्कार्यसुखदुखादिवैचित्र्यात् । न हि कारणस्यैकरूपत्वे कार्यनानात्वं युक्तं शालिबीजवत् । अपरिणामिनः सर्वथार्थक्रियासंभवात् तल्लक्षणत्वाच्च वस्तुनः सद्भावमेव / तावन्न संभावयामः । तत्र कालदेशावस्थास्वभावभिन्नानां तनुकरणभुवनादीनां किलायं कर्तेति महच्चित्रां एतेनेश्वरेच्छा प्रत्युक्ता । नचैतेनास्याः संबंधः तत्कृतोपकारानपेक्षणात् ततो व्यपदेशोंऽपि माभूत् अभिसंधेरनित्यत्वेऽपि समानः प्रसंग: । सकृदुत्पत्त्यादिप्रसंगाद्विचित्रत्वानुपपत्तेरिति । तयोरकेरूपत्वेऽपि कर्म - चित्र्यात्कामादिप्रभववैचित्र्यमिति चेत् ? युक्तमेतत् । किंतु नैश्वरेच्छाभ्यां किंचित्तावतार्थपरिसमाप्तेः । एतेन विरम्य प्रवृत्तिसन्निवेशविशेषादिभ्यः पृथिव्यादेर्बुद्धिमत्कारणपूर्वकत्व ज्ञानेनेश्वरप्रमाणं प्रत्युक्तं । प्राक्काय १ । मोहिनः इत्यपि पाठः २ । पत्रापि मोहिन इति पाठः ।

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182