________________
आप्तमीमांसा ।
४३.
तिशयेन विमोक्षः स्यादिति संबंध: । अथवा प्रागुक्तान्मोक्षप्रकारादन्येन प्रकारेणापि सह जन्मनो योगः स्यात् । तथा च सति न बन्धो नापि मोक्षस्तस्य विचाराक्षमत्वात् ॥ ९६ ॥
अष्टशती - यदि बंधोऽयमविज्ञानात् नेदानीं कश्चिन्मुच्येत सर्वस्यैव क्वचिदज्ञानोपपत्तेर्ज्ञेयानंत्यात् । यदि पुनर्ज्ञाननिर्ह्रासादूब्रह्मप्राप्तिः - अज्ञानात्सुतरां प्रसज्येत । दुःख निवृत्तेरिव सुखप्राप्तिः ॥ ९६ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषां ।
अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ९७ ॥
वृत्तिः- उभयैकांतावक्तव्यमपि दुष्टं विरोधात् ॥
कथं तर्हि तौ स्यातामत आह
अष्टशती - नहि सर्वात्मनैकस्यैकदा ज्ञानस्तोकान्मोक्षो वहुतराज्ञानाद्वेध इत्येकांतयेोरविरोधः स्याद्वादन्यायविद्विषां सिद्ध्यति येन तदुभयैकात्म्यं स्यात् ॥ ९७ ॥
अज्ञानान्महतो बंधो नाज्ञानाद्वीतमोहतः ।
वानस्तोकाच्च मोक्षः स्यादमोहा-मोहितोऽन्यथा ॥ ९८ ॥
वृत्तिः - ज्ञानात्पुनरपि किंविशिष्टात् मोहतो मिध्यात्वरूपाद्वधो भवति विनष्टमिथ्यात्वरूपादज्ञानाga बंधो भवति ज्ञानस्तोकादपि मोक्षः स्याद्यद्यमोहाद्भवेत् यदि पुनर्मोहितः स्यात्तस्य मोक्षाभाव एव ॥ ९८ ॥ अथ कदाचिन्मनुषे न देवान्नापि पौरुषान्न ज्ञानान्नाप्यज्ञानात् किं तु ईश्वरप्रेरणादित्यस्य मतस्य निरा-करणायाह-अथवा कामादीनां कमर्णश्च वैचित्र्यमनादित्वं च दर्शयितुमाह
अष्टशती-मोहनीयकर्मप्रकृतिलक्षणादज्ञानाद् युक्तः कर्मबंधः ततोऽन्यतोऽपि बंधाभ्युपगमेऽतिप्रसंगात् । तथैव बुद्धेरपकर्षात् मोहनीयपरिक्षयलक्षणान्मोक्षमिति । विपर्ययेऽपि विपर्यासादित्यधिगंतव्यं ॥ ९८ ॥ कामादिप्रभवश्चित्रः कर्मबंधानुरूपतः ।
तच्च कर्म स्वहेतुभ्यो जीवास्ते शुद्धयशुद्धितः ॥ ९९ ॥
वृत्तिः - कामादीनां रागादीनां प्रभव उत्पादः कार्यरूपश्चित्रों नानाप्रकारः । कर्मबन्धानुरूपतःज्ञानावरणदिकर्मणः कारणाद्भवति तच्च कर्म ज्ञानावरणादिकं स्वहेतुभ्यो भवति । कुत एतत् ? अनादिर्बंधबंधहेतुसंतानो बीजांकुरवत् न पुनरीश्वरादेस्तस्यावस्तुत्वात् विरागाक्षमत्वेन । न तर्हि केषांचिन्मुक्तिरन्येषां संसारश्च ... कर्मबंधनिमित्तविशेषादिति चेदाह - ते भगवतोऽर्हतो जीवा द्विप्रकाराः संसारिणः संति । कुतः शुद्धयशुद्धितो भव्याभव्यशक्तेः । अत एव न सर्वेषां मोक्षः । एतेनान्यदपि मतांतरं निराकृतं वेदितव्यं ॥९९॥ शुद्धयशुद्धिस्वरूपप्रतिपादनायाह
अष्टशती - संसारोऽयं नैकस्वभावेश्वरकृतः तत्कार्यसुखदुखादिवैचित्र्यात् । न हि कारणस्यैकरूपत्वे कार्यनानात्वं युक्तं शालिबीजवत् । अपरिणामिनः सर्वथार्थक्रियासंभवात् तल्लक्षणत्वाच्च वस्तुनः सद्भावमेव / तावन्न संभावयामः । तत्र कालदेशावस्थास्वभावभिन्नानां तनुकरणभुवनादीनां किलायं कर्तेति महच्चित्रां एतेनेश्वरेच्छा प्रत्युक्ता । नचैतेनास्याः संबंधः तत्कृतोपकारानपेक्षणात् ततो व्यपदेशोंऽपि माभूत् अभिसंधेरनित्यत्वेऽपि समानः प्रसंग: । सकृदुत्पत्त्यादिप्रसंगाद्विचित्रत्वानुपपत्तेरिति । तयोरकेरूपत्वेऽपि कर्म - चित्र्यात्कामादिप्रभववैचित्र्यमिति चेत् ? युक्तमेतत् । किंतु नैश्वरेच्छाभ्यां किंचित्तावतार्थपरिसमाप्तेः । एतेन विरम्य प्रवृत्तिसन्निवेशविशेषादिभ्यः पृथिव्यादेर्बुद्धिमत्कारणपूर्वकत्व ज्ञानेनेश्वरप्रमाणं प्रत्युक्तं । प्राक्काय
१ । मोहिनः इत्यपि पाठः २ । पत्रापि मोहिन इति पाठः ।