________________
४२
सनातनजनंग्रथमाळायोअष्टशती-परत्र सुखदुःखोत्पादनात् पुण्यपापबंधै क्रते कथमचेतना न बध्यरन् ? वीतरागो वा ! सन्निमित्तत्वात् ॥ ९२ ॥
पुण्यं ध्रुवं स्वतो दुःखात्पापं च सुखतो यदि ।
वीतरागो मुनिर्विद्वांस्ताभ्यां युंज्यानिमित्ततः ॥ ९३ ॥ वृत्तिः--स्वस्मिन् दुःखात् ध्रुवं निश्चितं पुण्यं यदि स्यात्तस्मिन्नेवात्मनि सुखा तो पापं च यदि स्यात् । ततः किं स्यात् ? ताभ्यां वीतरागो मुनियुंज्याद्बद्धो भवेत् । कुतः ? निमित्तत्वात् ॥ ९३ ॥
अथाभयकांतस्तद्भयादिष्यते तत्रापि दोष एव विरोधात् । नाप्यवाच्यत्वं वचनविरोधात्
अष्टशती-आत्मसुखदुःखाभ्यां पापेतरैकांतकृतांते पुनरकषायस्यापि ध्रवमेव बंधःस्यात् ततो न कश्चिन्मोक्तुमर्हति तदुभयाभावसंभावात् ॥ ९३ ॥
विरोधानोभयकात्म्यं स्याद्वादन्यायविद्विषां ।
अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ९४ ॥ वृत्तिः -सुगमं ॥ ९४ ॥ कथं तद्यत आहअष्टशती प्रस्तुतेकांतद्वयसिद्धांते व्याहतेःअनभिधेयतायां-अनभिधेयाभिधानविरोधातू कथं चिदेवेति युक्तं ।
विशुद्धिसंक्लेशांगं चेत् स्वपरस्थं सुखासुखं ।
पुण्यपापास्रवौ युक्तौ न चेद्वयर्थस्तवाहेतः ॥ ९५ ॥ वृत्तिः-स्व आत्मा परोऽन्यस्तयोस्तिष्ठतीति स्वपरस्थं सुखं चासुखं च सुखासुखं जीवप्रदेशाहादनानाह्वादनं । विशुद्धिः प्रमोदादिशुभपरिणामः । यद्यपि निरवशेषरागादिविरहलक्षणायां विशुद्धौ विशुद्धिशब्दो वर्तते तथापि कुशलशब्दवत् शुभपरिणामादौ वर्तमानो विशुद्धिशब्दो गृह्यते । संक्लेशः-आर्तरौद्रध्याने तयोरंग कारणं विशुद्धिसंक्लेशांग-चेद्यदि स्वपरस्थं सुखासुखं विशुद्धिसंक्केशालंबनं यदि भवति तदा पुण्यं च पापं च तयोरास्रवौ युक्तौ । न चेदेवं यद्येवं न स्यात् । पुण्यास्रवः पापानवश्व व्यर्थो निष्फलः । अर्हतो वीतरा-गस्य तवेव वा शुष्ककुड्यनिपतितचूर्णमुष्टिवत् बंधाभावात् । एतेन मस्करिपूरणमतं निराकृतं भवति । सिद्धेषु सक्लेशकारणाभावात् ॥ ९५ ॥
अथ पुण्यपापानवकारणमज्ञानमिष्यते चेत्तन्मतनिराकरणायाह
अष्टशाती-आत्मनः परस्य वा सुखदुःखयोर्विशुद्धिसंक्लेशांगयोरेव पुण्यपापास्रवहेतुत्वं नचान्यथा अतिप्रसंगात् । आरौिद्रभ्यानपरिणामः संक्लेशः तदभावो विशुद्धिः-आत्मनः स्वात्मन्यवस्थानं ॥ ९५ ॥
इत्याप्तमीमांसाभाष्ये नवमः परिच्छेदः ।
अज्ञानाच्चेद्धवो बंधो शेयानंत्यान्न केवली ।
शानस्तोकाद्विमोक्षधेदज्ञानाहुतोऽन्यथा ॥ ९६ ॥ बत्तिः-यद्यज्ञानाज्जाड्यस्वरूपाबंधो ध्रुवो न केवली मुक्तः । कुतः ज्ञेयानंत्यात्प्रमेयस्यानंत्यं यतः । अथ कदाचित् ज्ञानस्तोकाद्बोधनिर्हासान्मोक्षोऽभ्युपगम्यते चेद्वहुतो विपुलादज्ञानादन्यथाऽन्येन प्रकारेणा