________________
आप्त मीमांसा।
प्रामाण्यात्कथमफलं स्यात् । तथाहि समाने हि समानानां केचिदर्थेषु युज्यंते कचिन्न प्रसिद्धमेतत् । अन्यथा दैवमंतरेण पौरुषादेव पौरुषस्य प्रवृत्तौ सत्यां सर्वप्राणिषु पौरुषममोघमेव सफलमेव स्यात् दैवहीनानामपि तद्भवति ॥ ९ ॥ उभयकांतेऽपि न युक्तंअष्टशती-ताद्ध पौरुषं विना देवसंपदा न स्यात् तदुक्तं
__तादृशी जायते बुद्धिर्व्यवसायश्च तादृशः ।
सहायास्तादृशाः संति यादृशी भवितव्यता ॥ १॥ इति तत्सर्वं पौरुषापादितमिति चेत् तद्व्यभिचारदर्शिनो न वै श्रदधीरन् ।। ८९ ॥
विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विषां ।
अवाच्यतैकांतेऽप्युक्तिनावाच्यमिति युज्यते ॥ ९० ॥ वृत्तिः-उभयदोषप्रसंगात् । अवाच्यत्वदोषाच्च ॥ ९ ॥ दैवात्केवलात्पौरुषाच केवलादर्थसिद्धिर्यदि न भवति कथं तर्हि स्यादत आहभष्टशती-दैवेतरयोः सहकांताभ्युपगमे व्याघातात् , अवाच्यतायां च स्ववचनविरोधात् स्याद्वादनीतिः।।९०॥
अचुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदेवतः ।
बुद्धिपूर्वव्यपेक्षायामिष्टानिष्टं स्वपौरुषात् ॥ ९१ ॥ वृत्तिः--बुद्धिर्विचारः पूर्व प्रथमं कारणं यस्याः सा तथा न बुद्धिपूर्वा अबुद्धिपूर्वा सा चासावपेक्षा च आलोचनं च सा तथा तस्यामतर्कितोपस्थितन्यायेनेत्यर्थः। इष्टमभिलषितं सुखादि अनिष्टमनभिलषितं दुःखादि । स्वदेवतः स्वपुण्यपापफलात्पूर्वजन्मनिबद्धकर्मणः । यद्यपि पौरुषमात्रं विद्यते तथापि मुख्याभावो विवक्षितो नात्यंताभावः । तथा बुद्धिपूर्वव्यपेक्षायां विचारपूर्वकत्वेनानुष्ठानादिष्टमनिष्टं च स्वपौरुषात्स्वकीयपुरुषकारात् । अत्रापि दैवमप्रधानत्वेन विवक्षितं नात्यंताभावत्वेन । परस्परापेक्षयैव कार्यसिद्धिर्यतो देव आत्मा तस्य कर्म दैवमिति ॥ ९१ ॥
ननु परदुःखे पापं तस्यैव सुखे पुण्यं स्वदुःखात्पुण्यं स्वसुखात्पापमित्येवं कैश्चिदभाणि न देवादिति तन्मतनिराकरणायाह___ अष्टशती-अतर्कितॊपस्थितमनुकूलं प्रतिकूलं वा दैवकृतं तद्विपरीतं हि पौरुषापादितं । अपेक्षाकृतत्वात्तव्यस्थायाः ॥९१॥
इत्याप्तमीमांसाभाष्ये अष्टमः परिच्छेदः ।
पापं धवं परे दुःखात् पुण्यं च सुखतो यदि ।
अचेतनाकषायौ च बध्येयातां निमित्ततः ॥ ९२॥ त्तिः-परेऽन्यस्मिन् प्राणिनि दुःखमात्राद्यदि पापं स्यात् । तस्मिन्नेव सुखमात्राच पुण्यं यदि स्यात् । तदानीमचेतनो विषशस्त्रादिरकषायो वीतरागः तावपि बध्येयातां कर्मबंधस्य कर्तारौ भवतः । निमित्तत्त्वात् । प्रत्ययमंतरेणापि भावप्रधानत्वानिर्देशस्य ॥ ९२ ॥
तथा। विवक्षायमित्यपि पाठः।
६