________________
सनातनजनग्रंथमालायां
अष्टशती-बहिरर्थाभावाद् वक्त्रादित्रयं न बुद्धेः पृथक्कृतं ततोऽसिद्धतादिदोषः साधनस्येति तन्न रूपादेहिकस्य तद्व्यतिरिक्तविज्ञानसंतानकालस्य च स्वांशमात्रावलंबिनः प्रमाणस्य विभ्रमकल्पनायां साकल्येनासिद्धिः अंत याभ्युपगमविरोधात् । तौ हि ग्राहकापेक्षया बाह्यार्थी भ्रांतावेव कुतस्तत्र हेयोपादेयविवेकः ८६
बुद्धिशब्दप्रमाणत्वं बाह्यार्थे सति नासति ।
सत्यानृतव्यवस्थैवं युज्यतेाप्त्यनाप्तिषु ॥ ८७ ॥ वृत्तिः बुद्धिश्च शब्दश्च तयोः प्रामाण्यमर्थप्रतिपादकत्वं बाझार्थे सति भवत्यसत्यविद्यमाने च न भवति । सत्यमवितधमनृतं वितथं तयोर्व्यवस्था अर्थस्याप्यनाप्तिषु ग्रहणाग्रहणेषु सत्सु युज्यते नान्यथा । वचनस्य तदा सत्यता भवति यदा बाह्याथै तादृग्भूतं प्रापयति । अन्यथाऽसत्यं ॥ ८७ ।।
तस्य बाह्यार्थस्य कथं प्राप्तिर्भवतीति पृष्ट कश्चिदाह दैवादेव, कश्चित्पुनः पौरुषादेवैतत्पक्षद्वयं विघटयन्नाह___अष्टशती-स्वपरप्रतिपत्त्यर्थ साधनं बुद्धिशब्दात्मकं स्वसंवित्त्यैव परप्रतिपादनायोगात् । तस्य च सति बहिरर्थे प्रमाणत्वमर्थप्राप्तितः सिद्धयेत् । असति प्रमाणाभासत्वं-अर्थानाप्तित इति । तदेवं परमार्थसन् बहिरर्थः साधनदूषणप्रयोगात् । अन्यथा स्वप्नेतराविशेषात् किं किं न साधितं दूषितं चेति कुतः संतानांतरमन्यद्वा । तैमिरिकद्धयावचंद्रदर्शनवत् भांतः सर्वो व्यवहार इत्यत्रापि तत्त्वज्ञानं शरणं । अन्यथा बहिरर्थवदभिसंहितस्यापि निराकरणापत्तेस्तथा परमाण्वादिदूषणेऽपि प्रतिपत्तव्यं-अन्यथा तत्कृतमकृतं स्यादिति सर्वत्र योज्यं । तदिमे विज्ञानसंतानाः संति न संतीति तत्वाप्रतिपत्तेः दृष्टापह्नुतिरनिबंधनैव अदृश्ये नात्मना कथंचिददृश्यानामपि परमाणूनां बहिरपि समवस्थानविप्रतिषेधाभावात् अंतज्ञेयवत् । तत्र पूर्वादिदिग्भागभेदेन षडंशादिकल्पनया वृत्तिविकल्पेन वा परपक्षोपालंभे स्वपक्षाक्षेपात, कथंचिद्विरोधपरिहारस्य पुनरायाशयतामप्यशक्तेः तत्साक्षात्परंपरया वा विमत्यधिकरणभावापन्नं ज्ञानं स्वरूपव्यतिरिक्तार्थावलंबनं प्रााग्राहकाकारत्वात् संतानांतरसिद्धवत् । न हि व्यापारव्याहारनिर्भासोऽपि विप्लुतो नास्ति तदन्यत्रापि वासनाभेदो गम्यते न संतानांतरं ॥ ८७॥
इत्याप्तमीमांसाभाष्ये सप्तमः परिच्छेदः ।
दैवादेवार्थसिद्धिश्वेदेवं पौरुषतः कथं ।।
दैवतश्चेदनिर्मोक्षः पौरुषं निष्फलं भवेत् ।। ८८ ॥ वत्तिः-अर्थस्य कार्यस्य प्रशस्ताप्रशस्तशरीरेंद्रियादेस्तथा ज्ञानसुखादेरज्ञानदुःखादेर्वा सिद्धिनिष्पत्ति. यदि दैवादेव सर्वथा स्यात् तदैवं कर्माख्यं पौरुषान्मनोवाक्कायव्यापारलक्षणाच्छुभाशुभरागादिप्रायात्पुरुषकारात्तर्हि कथं स्यात् । अथ दैवांतरादेव दैवं स्यादित्यत्रोच्यते । दैवतश्चेद्यदि दैवादेव दैवं स्यात्तदानीमनिर्मोक्षोऽसिद्धिः स्यात् । दैवस्य कारणभूतस्य कार्यभूतस्य च सततं संततितो विच्छेदं प्रत्युपायासंभवात्। तदा दानशीलप्रव्रज्यार्थः कृष्याद्यर्थश्च पुरुषकारोऽप्यनर्थः स्यात् ॥ ८८ ॥
. अष्टशती-योग्यतापूर्वकर्मता वा दैवमुभयमदृष्टं, पौरुषं पुनरिह चेष्टितं दृष्ट ताभ्यामर्थसिद्धिः तदन्यतरापायेऽघटनात् । पौरुषमात्रे अर्थादर्शनात् दैवमात्रे वा समीहानर्थक्यप्रसंगात् ॥ ८ ॥
पौरुषादेव सिद्धिश्चेत् पौरुषं देवतः कथं ।
पौरुषाचेदमोघं स्यात् सर्वप्राणिषु पौरुषं ॥ ८९ ॥ वृत्तिः-अथ पौरुषादेव सिद्धिश्चेत् सर्वथा यदि पौरुषमात्रादेवार्थसिद्धिः स्यात् । तत्पौरुषं दैवाईव