Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
७८
सनातन जैन ग्रंथमालायां
न्न सर्वेषां । तथा चेश्वरकृतैः कार्यैः कार्यत्वादिति हेतुर्व्यभिचारित्वान्न सर्वकार्याणामीश्वरनिमित्तत्वं साधयेत् । नच सकलप्रकारवर्णादिवाचकप्रपंचं जिज्ञासमानः कश्चित्प्रतिपाद्य एव न संभवतीति वक्तुं युक्तं सर्वज्ञवचन स्याप्रतिग्राहकत्वप्रसंगात् । तत्संभवे च सर्गे सर्गे सकलवर्णादीनां प्रणेतेश्वरोऽनुवादक एव स्यात् न पुनरुत्पादकः सर्वदैवेति सिद्धं ततोऽनेक एव सर्वज्ञोऽस्तु किमेकेश्वरस्य कल्पनया यथा चैको नवमिति वदति तदेवान्यः पुराणमित्यनेकसर्वज्ञकल्पनायां व्याघातात् वस्तुव्यवस्थानासंभवस्तथैकस्यापीश्वरस्यानेकसर्ग कालप्रवृत्तावनेकोपदेशाभ्यनुज्ञानात् । तत्र पूर्वस्मिन् सर्गे नवमित्युपदेशीश्वरेण तदेवोत्तरस्मिन् सर्गे पुराणमित्युपदिश्यते न पुनरेकदैव नवं पुराणं चैकमिति व्याघातासंभवे कथमनेकस्यापि सर्वज्ञस्य कालभेदेन नवमिति पुराणमित्युपदेशतस्तत्त्ववचनव्याघातः ? इत्यलमनाद्येकेश्वरकल्पनया तत्साधनोपायासंभवात् ।
सोपायसिद्धस्तु सर्वज्ञोऽनेकः प्रमाणसिद्ध: निरतकालोच्छन्नस्य परमागमस्य प्रबंधेनाभिव्यंजकोऽनुवादक इति प्रयत्नानंतरमभिव्यक्तेः कथं चित्प्रयत्नानंतरीयकत्वं कथंचित्पौरुषेयत्वं साधयेत् - तथाहि
परमागमसंतानमनादिनिधनक्रमं नोत्पादयेत्स्वयं कश्चित्सर्वज्ञोऽसर्ववेदिवत् ॥ १ ॥
यथैकः सकलार्थज्ञः स्वमहिम्ना प्रकाशयेत् तथान्योऽपि तमेवं चानादिः सर्वज्ञसंततिः ॥२॥ सिद्धा तत्प्रोक्तशब्दोत्थं श्रुतज्ञानमशेषतः प्रमाणं प्रतिपत्तव्यमदुष्टोपायजत्वतः ॥ ३ ॥ ततो बाह्यं पुनर्द्वधा पौरुषेयपदक्रमात् जातमार्षादनार्षाच्च समासव्यासतोन्वितात् ॥ ४ ॥ तत्रार्षमृषिभिः प्रोक्ताददुष्टैर्वचनक्रमात् समुद्भूतं श्रुतज्ञानं प्रमाणं बाधकात्ययात् ॥ ५ ॥
ना तु द्विधोद्दिष्टं समयांतरसंगतं लौकिकं चेति तन्मिथ्या प्रवादिवचनोद्भवं ॥ ६ ॥ दुष्टकारणजन्यत्वादप्रमाणं कथं च न सम्यग्दृष्टेस्तदेतत्स्यात् प्रमाणं सुनयार्पणात् ॥ ७ ॥ नन्वदुष्टकारणजन्यत्वेन श्रुतज्ञानस्य प्रमाणत्वसाधने चोदनाज्ञानस्य प्रामाण्यं स्यात् पुरुषदोषरहितायाश्चोदनायाः सर्वथाप्यपौरुषेयजनितत्वात् ।
तदुक्तं
चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः । कारणैर्जन्यमानत्वाल्लिंगाप्तोक्त्यक्षबुद्धिवत् ॥ १ ॥
तदेतदुक्तं
गुणवत्कारणजन्यत्वस्यादुष्टकारणजन्यत्वशब्देनाभिप्रेतत्वात् लिंगाप्तोक्त्यक्षबुद्धिषु तथैव तस्य प्रतिपत्तेः । न हि लिंगस्यापैौरुषेयत्वमदुष्टं साध्याविनाभावनियमनिश्चयाख्येन गुणेन गुणवत्त्वस्यादुष्टत्वस्य प्रतीतेः । तथाप्रोक्तेरविसंवादकत्वगुणेन गुणवत्त्वस्य तथाक्षाणां चक्षुरादीनां नैर्मल्यादिगुणेन गुणवत्त्वस्येति । ननु चादुष्टत्वं दोषरहितत्वं कारणस्य तच्च कचिदोषविरुद्धस्य गुणस्य सद्भावात् । तथा मन्वादिस्मृतिवचने क्वचिद्दोषकारणभावात् । यथा चोदनायां तदुक्तं—
शब्दे दोषोद्भवस्तावद्वक्त्रधीनमिति स्थितं तदभावः कचित्तावद्गुणवद्वक्तृकत्वतः ॥ १ ॥ तद्गुणैरपकृष्टानां शब्दे संक्रांत्य संभवात् यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः ॥ २ ॥
तदप्यसारं सर्वत्र गुणाभावस्यैव दोषवत्त्वात्, गुणसद्भावस्यैव चादोषप्रतीतेरभावस्य भावांतरस्वभावत्वसिद्धेः, अन्यथा प्रमाणविषयत्वविरोधात्। गुणवक्तृकत्वस्य हि दोषरहितस्य वक्तृकत्वस्य संप्रत्ययः कथमन्यथा गुणदोषयोः सहानवस्थानं युज्येत ? रागद्वेषमोहादिवक्तुर्दोषावितथाभिधानहेतवः । तद्विरुद्धाश्च वैराग्यक्षमातत्त्वावबोधास्तदभावात्मकाः सत्याभिधानहेतवो गुणा इति परीक्षकजनमनसि वर्तते नच मन्वादयः स्मृतिशास्त्राणां प्रणेतारो गुणवंतस्तेषां तादृशगुणाभावात् । निर्दोषवेदपराधीनवचनत्वात्तेषां गुणवत्त्वमित्यप्यसंभावनीयं वेदस्य गुणवत्त्वासिद्धेः पुरुषस्य गुणाश्रयस्याभावात् । यथैव हि दोषवान् वेदान्निवर्तमानो

Page Navigation
1 ... 176 177 178 179 180 181 182