Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 168
________________ सनातनजैनग्रंथमालायांअथास्य दृष्टांतेन अन्वयस्यापि साध्यधर्मिणि सर्वत्रान्वयसिद्धर्विपक्षे बाधकप्रमाणसद्भावाच्च निर्दोषतामुमन्यते तत एव प्रत्यक्षत्वस्य हेतोर्निदोषतास्तु सर्वथा विशेषाभावात् केवलव्यतिरेकिणोऽपि हेतोरविनाभावनिर्णयात् साध्यसाधनसामर्थ्यान्न काश्चदुपालंभस्ततो निरवद्योऽयं हेतुः प्रत्यक्षस्य विशदज्ञानात्मकत्वं साधयत्येव । नचैतदसंभवि साध्यमात्मानं प्रतिनियतस्य ज्ञानस्य प्रत्यक्षशब्दवाच्यस्यार्थसाक्षात्कारिणः सर्वस्य कास्न्येन एकदेशेन वा वैशद्यसिद्धेबर्बाधकाभावात् । अक्ष्णोति व्याप्नोति जानातीत्यक्षो हि-आत्मानमेव क्षीणावरणं क्षीणोपशांतावरणं वा प्रतिनियतस्य ज्ञानस्य प्रत्यक्षशब्दवाच्यस्य कथंचिदपि वैशा संभाव्यमिति सूक्तं विशदज्ञानात्मकं प्रत्यक्षं । तत्रिविधं-इंद्रियानिद्रियातींद्रियप्रत्यक्षविकल्पनात् । तत्रंद्रियप्रत्यक्षं सांव्यवहारिकं देशतोविशदत्वात् । तद्वदनिद्रियप्रत्यक्षं तस्यांतर्मुखाकारस्य कथं चिद्वैशद्यासिद्धेः । अतींद्रियप्रत्यक्षं तु द्विविधं विकलप्रत्यक्षं सकलप्रत्यक्षं चेति । विकलप्रत्यक्षमपि द्विविधं-अवधिज्ञानं मनःपर्ययज्ञानं चेति सकलप्रत्यक्ष तु केवलज्ञानं तदेतत्त्रितयमपि मुख्यं प्रत्यक्षं मनोऽक्षानपेक्षत्वात् अतीतव्यवभिचारित्वात् साकारवस्तुप्राहित्वात् सर्वथा स्वविषयषु वैशद्याच्च । तथा चोक्तं तत्त्वार्थवार्तिककारैः । इंद्रियानिद्रियानपेक्षमतीतव्यभिचारं साकारग्रहणं प्रत्यक्षमिति तत्रोंद्रयानिद्रियानपेक्षमिति वचनात् सांव्यवहारिकस्येंद्रियप्रत्यक्षस्यानिद्रियस्य च देशतो विशदस्य व्यवच्छेदसिद्धेः । अतीतव्यभिचारमिति वचनात् विभंगज्ञानस्यावधिप्रत्यक्षाभासस्य निवृत्तः । साकारग्रहणमिति प्रतिपादनात् निराकारग्रहणस्य दर्शनस्य प्रत्यक्षत्वव्यावर्तनान् । सूक्तं मुख्यं प्रत्यक्षत्रयं ननु स्वसंदेनप्रत्यक्षं चतुर्थं स्यादिति न मंतव्यं तस्य सकलज्ञानसाधरणस्वरूपत्वात् । यथैव हींद्रियप्रत्यक्षस्य स्वरूपसंवेदनमिंद्रियप्रत्यक्षमेव अन्यथा तस्य स्वपरस्वरूपसंवेदकत्वविरोधात् संवेदनद्वयप्रसंगाच्च । तथानींद्रियप्रत्यक्षस्य मानसस्य स्वरूपसंवेदनमानिद्रियप्रत्यक्षमेव तत एव तद्वदतींद्रियप्रत्यक्षत्रितयमेवेति न ततोऽर्थातरं स्वसंवेदनप्रत्यक्षं । एतेन श्रुतज्ञानस्य स्वरूपसंवेदनमनिद्रियप्रत्यक्षमुक्तं प्रतिपत्तव्यं तस्यानिद्रियनिमित्तत्वात् विभ्रमज्ञानस्वरूपसंवेदनवत् । तथा च सकलं ज्ञानं स्वरूपसंवेदनापेक्षया प्रमाणं सिद्धं भावप्रमेयापेक्षायां प्रमाणाभासनिन्हवः । किं पुनारंद्रियप्रत्यक्षं ? इंद्रियप्रधान्यादिंद्रियवलाधानादुपजायमानं मतिज्ञानं तदिद्रियानिद्रियानिमित्तं । इति वचनात् । तच्चतुर्विध-अवग्रहेहावायधारणाविकल्पात् । तत्र विषयविषयिसन्निपातानं. तरमाद्यग्रहणमवग्रहः । तद्गृहीतवस्तुविशेषाकांक्षणमीहा। भवितव्यताप्रत्ययरूपात्तदीहितकि. शेषनिश्चयोऽवायः। सावधारणं ज्ञ नं कालांतराविस्मरणकारणं धारणाज्ञानं । तदेतच्चतुष्टयमपि अक्षव्यापारापेक्षं अक्षव्यापाराभावे तदनुद्भवनात् । मनोऽपेक्षं च प्रतिहतमनसस्तदनुत्पत्तेः । तत एवेंद्रियप्रत्यक्षं देशतो विशदमविसंवादकं प्रतिपत्तव्यं स्पर्शनादीन्द्रियनिमित्तस्य बहुबहुविधक्षिप्रानिसृतानुक्तध्रुवेषु तदितरेष्वर्थेषु वर्तमानस्य प्रतींद्रियमष्टचत्वारिंशद्भेदस्य व्यंजनावग्रहभेदैरष्टचत्वारिंशता सहिंतस्य संख्याष्टाशीत्युत्तरद्विशती प्रतिपत्तव्या । तथा अनिद्रियप्रत्यक्षं बह्वादिद्वादशप्रकारार्थविषयमवग्रहादिविकल्पमष्टचवारिंशत्संख्यं प्रतिपत्तव्यं । यत्पुनरतींद्रियप्रत्यक्षविकल्पमवधिज्ञानं तत् षड्डिधं अनुगामि-अननुगामिवर्धमान-हीयमान-अवस्थित-अनवस्थितविकल्पात् । सप्रतिपाताप्रतिपातयोरत्रैवांतर्भावात् । संक्षेपतस्तु त्रिविधं देशावधि-परमावधि-सर्वावधिभेदात् । तत्र देशावधिञ्चानं षड्विकल्पमपि संभवति परमावधिज्ञानं तु संयमविशेषैकार्थसमवायिभवांतरापेक्षयाननुगामि प्रतिपातं च प्रत्येयं । तद्भवापेक्षया च तदनुगाम्येव नाननुगामि । वर्धमानमेव न हीयमानं । अवस्थितमेव नानवस्थितं । अप्रतिपातमेव नप्रतिपातं तथाविधविशुद्धिनिबंधनत्वात् । एतेन सर्वावधिज्ञानं व्याख्यातं । केवलं तद्वर्धमानमपि न भवति परमप्रकर्षप्राप्तत्वात् सकलावधिज्ञानावरणवीर्यातरायक्षयोपशमवशात्प्रसूतत्वात् । अतिसंक्षेपतस्तु द्विविधमवधिज्ञानं भवप्रत्यय

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182