Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 163
________________ प्रमाणपरीक्षा । परपर्यनुयोगपराणि हि वृहस्पतेः सूत्राणि इति वचनात् सर्वत्र स्वातंत्र्याभावादित्येतदपि यत्किंचन भाषणमेव । किमदुष्टकारणजन्यत्वन प्रामाण्यं साध्यते बाधारहितत्वेनेवेत्यादि पक्षाणां क्वचिन्निर्णयाभावे संदहाभावात् परपर्यनुयोगायोगात् । स्यादाकूतं पराभ्युपगमात् तन्निश्चयसिद्धेः संशयोत्पत्तेर्युक्तः प्रश्नः, तथाहि-मीमांसकाभ्युपगमात् तावददुष्टकारणजन्यत्वं बाधावर्जितत्वं च निर्णीतं निश्चितत्वापूर्मर्थत्वलोकसम्मतत्ववन् । तदुक्तं र्थिविज्ञानं निश्चितं बाधववर्जितं । अदुष्टकारणारब्धं प्रमाणं लोकसम्मतं ॥ १ ॥ इति तथा प्रवृत्तिसामर्थ्यमपि नैयायिकाभ्युपगमानिर्णीतं प्रमाणतोऽर्थप्रतिपत्तो प्रवृत्तिसामादर्थवत्प्रमाणं इति वचनात् । तथार्थक्रियाप्राप्तिनिमित्तत्वमविसंवादित्वलक्षणं सौगताभ्युपगमान्निर्णीतमेव प्रमाणमविसंवादिज्ञानं अर्थक्रियास्थितिः अविसंवादनं शब्दोऽप्यभिप्रायनिवेदनादिति वचनात् । तदिदानी चार्वाकमतानुसारेण संदिह्य पर्यनुयुज्यमानं न किंचिदुपालंभमर्हति इति तदेतदपि न व्यवस्थां प्रतिपद्यते पराभ्युपगमस्य पूमाणापूमाणपूर्वकत्वे संशयाप्रवृत्तेः तथाहि यदि परेषामभ्युपगमः प्रमाणपूर्वकः तदा कथं संदेहः ? प्रमाणपूर्वकस्य निर्णीतत्वात् । निर्णीतेः संशयविरोधात् । अथाप्रमाणपूर्वकः तथापि न संदेहः प्रर्वतते तस्य कचित्कदाचित्कथंचित् निर्णयपूर्वकत्वात् । तन्निर्णयस्यापि प्रमाणपूर्वकत्वात् । प्रमाणाभावे प्रमाण्यनिश्चयात् तन्निश्चयनिबंधनस्य च प्रमाणांतरस्याभ्यस्तविषयत्वे सर्वथा तदनुपपत्तेरित्यलं प्रसंगेन सर्वस्यष्टस्य संसिद्धेः प्रमाणप्रसिद्धेरबाधनात् अन्यथातिप्रसंगसमर्थनादिति । एतन सर्वथा शून्यं संविदद्वैतं पुरुषाद्वैतं शब्दाद्वैतं वा समाश्रित्य प्रमाणप्रमेयभागं निराकुर्वाणाः प्रत्याख्याताः स्वयमाश्रितस्य सर्वथा शून्यस्य संविदद्वैतादेर्वा कथंचिदिष्टत्वे प्रमाणसंसिद्धर्व्यवस्थापनात् । तस्याप्यनिष्टत्वे तद्वादित्वविरोधात् । प्रलापमात्रानुसरणापत्तेः परीक्षकत्वव्याघातात् इति । तदेवं प्रमाणतत्त्वनिर्णीतो प्रमेयतत्त्वसिद्धिर्निर्बाधा व्यवतिष्ठत एव । नन चैव प्रमाणसिद्धमपि किं स्वतः प्रमाण्यमात्मसात्कुर्वीति परतो वा ? न तावत्स्वतः सर्वत्र सर्वदा सर्वस्य तद्विप्रतिपत्त्यभावप्रसंगात् । नापि परतः-अनवस्थानुषंगान् परापरप्रमाणान्वेषणात् क्वचिदवस्थितेरयोगात। प्रथमपूमाणाद्वितीयस्य प्राम ण्यसाधने द्वितीयाच्च प्रथमस्य परस्पराश्रयाणापत्तेः प्रकारांतराभावादिति केचित्तेऽप्यसमीक्षितवचसः संलक्ष्यंते स्वयमभ्यस्तविषये पमाणस्य स्वतः प्रामाण्यसिद्धेः सकलविप्रतिपत्तीनामपि प्रतिपत्तुरभावात् अन्यथा तस्य प्रमेये निस्संशयं प्रवृत्त्ययोगात् । तथानभ्यस्तविषये परतः प्रमाणस्य प्रामाण्यनिश्चयात तन्निश्चयनिमित्तस्य च प्रमाणांतरस्याभ्यस्तविषयत्वे स्वतः प्रमाणत्वसिद्धेः अनवस्थापरस्थराश्रयणयोरनवकाशात् । तस्याप्यनभ्यस्तविषयत्व परतः प्रमाणादभ्यस्तविषयात् स्वतःसिद्धप्रामाण्यात प्रमाणत्वनिश्चयात् सूदरमपि गत्वा कस्यचिदभ्यस्तविषयस्य प्रमाणस्यावश्यंभावित्वात् अन्यथा प्रमाणतदाभासव्यवस्थानुपपत्तेः तदभावव्यवस्थानुपपत्तिवत् । कुतः पुनः प्रतिपत्तुः क्वचिद्विषयेऽभ्यासः क्वचिदनभ्यासः स्यात् ? इति चत् तत्प्रतिबंधकदशाविशेषविगमाभ्यां कचिदभ्यासानभ्यासौ स्यातां इति ब्रूमेह परिदृष्टकारणव्यभिचाराददृष्टस्य कारणस्प सिद्धेः तन्नः कर्म ज्ञानावरणवीयाँतरायाख्यं सिद्धं तस्प क्षयोपशमाकस्य चित् कचिदभ्यासज्ञानं तत्क्षयोपशमाभावे वा ऽनभ्यासज्ञानमिति सुव्यवस्थितं प्रमाणस्य प्रमाण्यं सुनिश्वितासंभवद्बाधकप्रमाणत्वात् स्वयमिष्टवस्तुवत् सर्वत्रेष्टसिद्धेस्तन्मात्रनिबंधनस्वादन्यथा सर्वस्य तत्त्वपरीक्षायामनधिकारादिति स्थितमेतत्-- प्रामाणादिष्टससिद्धिरन्यथातिप्रसंगतः । प्रामाण्य तु स्वतःसिद्धमभ्यासात्परतोऽन्यथा ॥ १ ॥ इति एवं प्रमाणलक्षणं व्यवसायात्मकं सम्यग्ज्ञानं परीक्षितं तत्प्रत्यक्षं परीक्षं वेति संक्षेपाद् द्वितयमेव व्यवतिष्ठते

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182