Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
सनातनजैनग्रंथमालायायदप्यभ्यधायि सांख्यैः-ज्ञानमचेतनं प्रधानपरिणामत्वान् महाभूतवदिति तदपि न श्रेयः पक्षस्य स्वसंवेदनप्रत्यक्षबाधितत्वात् । प्रतिवादिनः कालात्ययापदिष्टत्वाच्च साधनस्य । तथानुमानबाधितः पक्षः परं प्रति चेतनं ज्ञानं स्वसंवेद्यत्वात् पुरुषवत् । यत्तु न चेतनं न तत्स्वसंवेद्यं यथा कलशादीति व्यतिरेकनिश्चयात् नेदमनुमानमगमकं । ज्ञानस्य स्वसंवेद्यत्वमसिद्ध ? इति चेत्न तस्यास्वसंवेद्यत्वे अर्थसंवेदनविरोधादित्युक्तप्रायं । एतेन न स्वसंवेद्यं विज्ञानं कायाकारपरिणतभूतपरिणामत्वात् पित्तादिवदिति वदंश्चार्वाकः प्रतिक्षिप्तः । न चेदं साधनं सिद्धं भूतविशेषपरिणामत्वासिद्धेः संवदनस्य बायेंद्रियप्रत्यक्षत्वप्रसंगात् गधादिवत् । सूक्ष्मभूतविशेषपरिणामत्वात् न बायेंद्रियप्रत्यक्षं ज्ञानमिति चेत् स तर्हि सूक्ष्मविशेषः स्पर्शादिभिः परिवर्जितः स्वयमस्पादिमान् संवेदनोपादानहेतुः सर्वदा बाडेंद्रियाविषयः कथमात्मैव नामांतरेण निगदितो न भवेत् । तस्य ततोऽन्यत्वे भूतचतुष्टयावलक्षणत्वात् तत्त्वांतरापत्तिरदृष्टपरिकल्पना च प्रसज्येत तथात्मनः प्रमाणसिद्धत्वात तत्परिणामस्यैव ज्ञानस्य घटनात् । तत इदं व्यवतिष्टते स्वव्यवसायात्मकं सम्यग्ज्ञानं चेतनात्मपरिणामत्वे सत्यर्थपरिच्छेदकत्वात यत्तु न स्वव्यवसायात्मकं न तत्तथा यथा घट: तथा च सम्यग्ज्ञानं तस्मात्स्वव्यवसायात्मकं इति सम्यग्ज्ञानलक्षणं प्रमाणसिद्ध ।
ननु प्रमाणतत्त्वस्य प्रमेयतत्त्ववदुपप्लुतत्वात न तत्त्वतः किंचित्प्रमाणं संभवति इति कस्य लक्षणमाभिधीयते लक्ष्यानुवादपूर्वकत्वालक्षणाभिधानस्य । प्रसिद्ध लक्ष्यमनूद्य लक्षणं विधीयत इति लक्ष्यलक्षणभाववादिभिरभ्युपगमात् इति केचिदमंसत तेषां तत्त्वोपप्लबमात्रमिष्टं साधयितुं तदा साधनमभ्युपगंतव्यं । तच्च प्रमाणमेव भवति तथा चेदमभिधीयते-तत्त्वोपप्लववादिनोऽप्यस्ति प्रमाणं, इष्टसाधनान्यथानुपपत्तेः । प्रमाणाभावेऽपीष्टसिद्धौ सर्वं सर्वस्य यथेष्टं सिद्ध्येत इत्यनुपप्लुततत्त्वसिद्धिरपि किं न स्यात् सर्वथा विशेषाभावात् ।
_स्यादाकृतं न स्वेष्टं विधिप्राधान्येन साध्यते येन तत्त्वोपप्लवं साधयतः प्रमाणसिद्धिः प्रसज्येत । किं ताहि ? पराभ्युपगतप्रमाणादितत्त्वनिराकरणसामर्थ्यात परीक्षकजनयतस्तत्त्वोपप्लवमनुसरति गत्यंतराभावात । तथाहि-प्रमाणत्वं कस्य चित्किमदुष्टकारणजन्यत्वेन बाधारहितत्वेन वा प्रवृत्तिसामर्थ्येन वा अर्थक्रियाप्राप्तिनिमित्तत्वेन वा व्यवतिष्टते ? न तावददुष्टजन्यत्वेन तस्य प्रत्यक्षतो गृहीतुमशक्तेः करणकुशलादेरपि प्रमाणकारणत्वात् । तस्य चातींद्रियत्वोपगमात् । न चानुमानमदुष्टं कारणमुन्नेतुं समर्थ तदविनाभाविलिंगाभावात् । सत्यज्ञानं लिंगमिति चेत् न परस्पराश्रयणात् । सति ज्ञानस्य सत्यत्वे तत्कारणस्यादुष्टत्वनिश्चयात । तस्मिन्सति ज्ञानस्य सत्यत्वसिद्धेः । यदि पुनर्बाधारहितत्वेन संवेदनस्य प्रामाण्यं साध्यते तदा किं कदाचित्कचिद्बाधकानुत्पत्त्या तसिद्धिराहोस्वित् सर्वत्र सर्वदा सर्वस्य प्रतिपत्तुर्वाधकानुत्पतेरिति पक्षद्वयमवतरति । प्रथमपक्षे मरीचिकाचके सलिलसंवेदनमपि पमाणमासज्यते दूरस्थितस्य तसंवेदनकाले कस्य चित्प्रतिपत्तु वकानुत्पत्तेः । द्वितीयपक्षे तु सकलदेशकालपुरुषाणां बोधकानुत्पत्ति:कथमसर्वविदोऽवबोद्धुं शक्येत तत्तत्प्रतिपत्तुः सर्ववेदित्वप्रसंगात् । यदि पुनः प्रवृत्तिसामर्थ्येन ज्ञानस्य प्रामाण्यमुन्नीयते तदा प्रमाणेनार्थमुपलब्धवतस्तदर्थे प्रवृत्तिर्यदीष्यते तद्देशोपसर्पणलक्षणा तस्याः सामर्थ्य च फलेनाभिसंबंधः सजातीयज्ञानोत्पत्तिर्वा तदेतराश्रयदोषो दुरुत्तरः स्यात् । सति संवेदनप्रमाणत्वनिश्चये तेनार्थप्रतिपत्तौ प्रवृत्तेः । तत्सामर्थ्यस्य च घटनान प्रवृत्तिसामर्थ्यस्य निश्चये च तेनार्थसंवेदनस्य प्रमाणत्वनिर्णीते: प्रकारांतरासंभवात् । अथार्थक्रियानिमित्तत्वेन संवेदनं प्रमाणतामास्कंदति तदा कुतस्तस्य तन्निश्चयः स्यात् ? । प्रतिपत्तुरर्थक्रियाज्ञानादिति चेत् कुतस्तस्य प्रमाणत्वासद्धिः ? । परमार्थक्रियाज्ञानांतराच्चेत् कथमनवस्था न भवेत् ! । अथाद्यसवेदनादेवार्थक्रियाज्ञानस्य माण्यं मन्यते तदा परस्पराश्रयदोषः । सत्यर्थक्रियाज्ञानस्य प्रमाणत्वनिश्चये तद्वलादाद्यसंवेदनस्यार्थक्रियाप्राप्तिनिमित्तत्वेन प्रामाण्यनिश्चयस्तत्प्रामाण्यनिश्चयाच्च अर्थक्रियासंवेदनस्य प्रमाणतासिद्धिः कारणांतराभावात् । ततो न प्रमाणत्वं विचार्यमाणं वा व्यवतिष्ठते तदवस्थानाभावे च न प्रमेयत्वसिद्धिः इति तदेतत्सकलं प्रलापमात्रं पराभिमतप्रमाणतत्त्वनिराकरणस्य स्वयमिष्टस्य प्रमाणमंतरेण सिद्ध्ययोगात तस्य स्वयामष्टत्वे साधनानुपपत्ते परपर्यनुयोगमात्रस्य करणाददोषोऽयं ।

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182