Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 156
________________ ५६ सनातनजैनग्रंथमालायांदुरुपपादमेव तेषां वैयर्यप्रसगांत् । ज्ञान हि ज्ञेयप्रसिद्धयर्थं प्रेक्षावतामन्विष्यते प्रकाश्यप्रसिद्धयर्थं प्रदीपादिवत् । न पुनः स्वरूपप्रसिद्धयर्थं प्रदीपवदेवेति । बहिराविषयत्वे सकलसंवेदनानां कथमिव वैयर्थ्य न स्यात् ? निर्विषयस्वप्नादिसंवेदनानामपि सार्थकत्वप्रसंगात् स्वरूपप्रकाशनस्य प्रयोजनस्य सर्वत्र भावात् । किं च सुगतसंवेदनस्यापि स्वरूपमात्रपर्यवसितायां कथमिव सुगतः सर्वदर्शीष्यते पृथग्जनवत् । पृथग्जनो वा कथं न सर्वदर्शी सुगतवदनुमन्येत ? स्वरूपमात्रपर्यवसितायाः तत्संवेदनेऽपि सद्भावात् । यदि पुनर्वास्तवत्वं सकलवेदित्वं ताथागतस्योररीक्रियते संवृत्त्या तस्य व्यवहारिभिः संव्यवहरणात् तदव्यहरणे तद्वचनस्य सत्यताव्यवहारानुपपत्तेः सकलज्ञानरहितपुरुषोपदेशाद्विप्रलंभनशंकनप्रसंगात् । तदुक्तं ज्ञानवान् मृग्यते कश्चित्तदुक्तप्रतिपत्तये । अज्ञोपदेशकरणे विप्रलंभनशांकभिः ॥ १॥ इति प्रतिपद्येत तथापि सुगतेतरव्यवहारसिद्धिः. सुगतवदितरजनस्यापि संवृत्त्या सकलवदित्वकल्पनानुषंगात् । सकलपदार्थेभ्यः सुगतस्य संवेदनोदयात् सकलार्थज्ञता युक्ता कल्पयितुं न पुनरितरजनस्य प्रतिनियतपदार्थादेव तद्वेदनोत्पत्तेरिति चेत् ? न सुगतज्ञानस्यापि सकलपदार्थजन्यत्वासिद्धेः । समसमयवर्तिपदार्थजन्यत्वासंभवात् । यदि पुनरनाद्यतीतपदार्थेभ्यो भविष्यदनंतार्थेभ्यः सांप्रतिकार्थभ्यश्च सकलेभ्यः सुगतसंवेदनस्योत्पत्तिः अखिलाविद्यातृष्णाविनाशादुपपद्यत एव अस्मदादिसंवेदनाद्विशिष्टत्वात्तस्येति मतं ? तदा किमेकेन स्वभावेन कालत्रयवर्तिपदार्थैः सुगतविज्ञानमुत्पद्यते नानास्वभावैर्वा ? यद्येकेन स्वभावेन, एकेनार्थेन सुगतज्ञानमुपजन्यते तेनैव सकलपदार्थैः तदा सकलपदार्थानामेकरूपतापत्तिः । सुगतविज्ञानस्य वा तदेकपदार्थजन्यत्वसिद्धिरिति नेतरजनसंवेदनात्तस्य विशेषः सिद्ध्येत् । अथान्येन स्वभावेनैकार्थः सुगतज्ञानमुपजनयति पदार्थांतराणि तु स्वभावांतरैस्तदुपजनयंति इति मतिर्भवतां तर्हि सुगतज्ञानमनंतस्वभावमेकमायातं । तद्वत्सकलं वस्तु कथमनंतात्मकतां न स्वीकुर्यादिति चिंतनीयं । एकस्यानेकस्वभावत्वविरोधान्नैकमनेकात्मकमिति चेत् ? कथभिदानी सुगतविज्ञानमेकपदार्थजन्यं नानारूपतां विभर्ति ? । यदि पुनरतजन्यरूपव्यावृत्त्या तज्जन्यरूपपरिकल्पनान्न तत्त्वतः सुगतसंवेदनमनेकरूपताक्रांतमित्याकूतं ? तदा न परमार्थतः सुद्धोदनितनयविज्ञानमखिलपदार्थजन्यं, इति कुतः पृथग्जनसंवेदनादस्य विशेषः समवतिष्ठते ? । ततः सुगतविज्ञानदृश्यतामितरजनविज्ञानविषयतां च एकस्य नीलादिस्वलक्षणस्यानेकाकारामपि स्वयमुररीकुर्वता नीलस्वलक्षणकादिरूपतापि दृश्यादृश्यत्वलक्षणा स्वीकर्तव्या, तथा च नीलादौ दर्शनमन्यव्यवसायात्मकं संस्कारस्मरणकारणं तद्विपरीदर्शनादवबोद्धव्यं, इति न प्रत्यक्षप्रसिद्धं निर्व्यवसायात्मकत्वमध्यक्षज्ञानस्य । नाप्यनुमानप्रसिद्ध गोदर्शनसमयेऽश्वकल्पनावत् गोदर्शनस्यापि व्यवसायात्मकत्वोपपत्तेः । पुनर्विकल्पयतः तदनुस्मरणस्यान्यथानुपपत्तेः । तथा हि यन्निर्व्यवसायात्मकं ज्ञानं तन्नोत्तरकालमनुस्मरणजननसमर्थं यथा पराभिमतं स्वर्गप्रापणशक्त्यादिदर्शनं तथा चाश्वविकल्पकाले गोदर्शनमिति तदनुस्मरणजननसमर्थे न स्यात् भवति च पुनर्विकल्पयतस्तदनुस्मरणं तस्माद्व्यवसायात्मकमिति निश्चयः । तदेवं व्यवसायात्मकत्वे साध्ये सम्यग्ज्ञानं साधनं न व्यभिचरति कस्य चिदपि सम्यग्ज्ञानस्याव्यवसायात्मकत्वप्रमाणबाधितत्वादिति स्थितं । __ ये त्वाहु:-स्वार्थव्यवसायात्मकत्वे साध्ये सम्यग्ज्ञानस्य हेतोर्न प्रयोजकत्वं सर्वस्य सम्यग्ज्ञानस्यार्थव्यवसाययमंतरणैव सम्यग्ज्ञानत्वसिद्धः । तथा हि-विवादाध्यासितं सम्यग्ज्ञानं नार्थव्यवसायात्मकं ज्ञानत्वात्, स्वव्यसायात्मकत्वात् । यद्ज्ञानं स्वव्यसायात्मकं वा तन्नार्थव्यवसायात्मकं यथा स्वप्नादिज्ञान तथा च विपदावन्नं ज्ञानं जिनपतिमतानुसारिभः, अभ्यनुज्ञातं तस्मान्नार्थव्यवसायात्मकमिति तेपि न प्रातीति

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182