Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
४८
सनातनजैनग्रंथमालायांकुतः: यतो निरपेक्षा नयाः मिथ्या परस्परमपेक्षा घटना तस्या निर्गताः पृथग्भूता धर्मा व्यलीकाः । सापेक्षाः परस्परसंबद्धास्ते नया वस्तु परमार्थतत्त्वं यतोऽर्थकृत् क्रमाक्रमाभ्यामर्थकारित्वादतो न चोद्यस्यावतारः ।
पुनरपि तमर्थं समर्थयन्नाह
अष्टशती-सुनयदुर्णययोर्यथास्माभिलक्षणं व्याख्यातं तथा न प्रबोध्यं न परिहारः । तथाहि-निरपेक्षत्वं प्रत्यनीकधर्मस्य निराकृतिः । सापेक्षत्वमुपेक्षा अन्यथा प्रमाणनयाविशेषप्रसंगात् । धर्मातरादानोपेक्षाहानिलक्षणत्वात् प्रमाणनयदुर्णयाणां प्रकारांतरासंभवाच्च । तदतत्स्वभावप्रतिपत्तेस्तत्प्रतिपत्तिरन्यनिराकृतिश्चेति विश्वोपसंहृतिः ॥ १०८॥
नियम्यतेऽर्थो वाक्येन विधिना धारणेन वा ।
तथाऽन्यथा च सोऽवश्यमविशेष्यत्वमन्यथा ॥ १०९ ॥ बृत्तिः-वाक्येन, अस्ति घटो नास्ति वेति विधिप्रतिषेधरूपेणार्थो नियम्यते नियंत्र्यते विशेषविषय नीयते तस्मात्सोऽर्थस्तथा च तदतदात्मक इत्यभ्युपगंतव्यः । यदि पुनरन्यथान्येन प्रकारेणैकांतरूपेणाभ्युपगम्यते तदानीमविशेष्यत्वमवस्तुत्वं स्यादेकधर्माक्रांतत्वेन वस्त्वस्ति यतः । वाक् द्विविषया न भवतीत्यस्य निराकरणायाह--
अष्टशती-यत्सत् तत्सर्वमनेकांतात्मकं वस्तुतत्त्वं सर्वथा तदर्थक्रियाकरित्वात् । स्वविषयाकारसंवित्तिवत् । न किंचिदेकांतं वस्तुतत्त्वं सर्वथा तदर्थक्रियासंभवात् गगनकुसुमादिवत् । नास्ति सदेकांतः सर्वव्यापारविरोधप्रसंगात् असदेकांतवदिति विधिना प्रतिषेधेन वा वस्तुतस्वं नियम्यते । अन्यथा तद्विशिष्टमर्थतत्त्वं न स्यात् इत्यनेन विधिप्रतिषेधयोर्गुणप्रधानभावेन सदसदादिवाक्येषु वृत्तिरिति लक्षयति ॥ १०९ ।।
तदतद्वस्तु वागेषा तदेवेत्यनुशासति ।
न सत्या स्यान्मृषावाक्यैः कथं तत्त्वार्थदेशना ॥ ११०॥ बत्तिः-एषा वागेतद्वचनं सर्वाभ्युपगतं तच्चातच्च तदतत् अस्तित्वनास्तित्वात्मकं वस्तुतत्त्वं तदेव तादृग्भूतमेव नैकांतात्मकमेवेत्येवमनुशासति कथयति प्रतिपादयति । यदि न सत्या सद्भता स्याद्भवेत्। एवं सति मृषा वाक्यानि असत्यरूपाणि वाक्यानि स्युः । तथा सति तत्त्वार्थस्य परमार्थस्य प्रमाणहेतुफलप्रतिपादकस्य येयं देशना कथनं परप्रतिपादनं कथं स्यात् ! किं तु न भवेदेव । तथा च विशीर्ण प्रमाणादिलक्षणं वर्म । तस्माद्यत्सत्तदनेकांतात्मकं हेतुज्ञानं प्रमाणवदिति वचनस्य प्रमाण्यमेषितव्यं ॥ ११०॥ पुनरपि वचोलक्षणमाह
अष्टशती-प्रत्यक्षादिप्रमाणविषयभूतं विरुद्धधर्माध्यासलक्षणं वाऽविरुद्धं वस्तु । तदेवेत्येकांतेन प्रतिपादयंती मिध्यैव भारती कथमनयार्थदेशनं ? इत्येकांतवाक्यार्थानुपपत्तिरालक्ष्यते ॥ ११०॥
वाक्स्वभावोऽन्यवागर्थप्रतिषेधनिरंकुशः।
आह च स्वार्थसामान्यं तादृग्वाच्यं खपुष्पवत् ॥ १११ ॥ - बत्तिः-वाचः स्वभाव आत्मीयं रूपमन्येषां वाच्यत्वेनाभिप्रेततराणां वाग्वचनं तस्या अर्थस्तस्य प्रतिषेधो निराकरणं तस्मिन् निरंकुशः समर्थो घटशब्दः पटादीनां निराकरणं करोति स्वार्थे च प्रतिपादयति अतोऽनेकांतः, यदि पुनः सर्वथा स्वस्य ज्ञानार्थस्य बाह्यार्थस्य सामान्यं परापररूपमपोहं चार्वाक आह आचष्ट इत्यभ्युपगमः स्यात् तादृग्वाच्यं विशेषरहितं सामान्यं खपुष्पवत् गगनकुसुमसमानमतो न किंचित्स्यात् ॥११॥

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182