Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 152
________________ सनातनजैनग्रंथमालायां'सहकारिसांनिध्य शक्तिः' इत्युद्योतकरवचनात् । सहकारिकारणं च द्रव्यं गुणः कर्मादि वा स्यात् ? न तावदात्मद्रव्यं सहकारि तत्सन्निधानस्य नयननभःसन्निकर्षेऽपि समानत्वात् । एतेन कालद्रव्यं दिग्द्रव्यं च सहकारि निराकृतं तत्सान्निध्यस्यापि सर्वसाधरणत्वात् । मनोद्रव्यं सहकारि इत्यपि न संगतं तत्सन्निधरपि समानत्वात् । कदाचित्तद्गतमनसः पुरुषस्याक्षार्थसन्निकर्षस्य संभवात् । एतेन आत्मा मनसा युज्यते, मन इंदियेण, इंद्रियमर्थेनेति चतुष्टयसन्निकर्षोऽर्थप्रमितौ साधकतम. इति सामिग्रीप्रमाणवादो दूषितः-तत्सामिग्यश्च नभसि सद्भावात् । कालादिनिमित्तकारणसामिग्रीवत् । यदि पुनस्तेजोद्रव्यं सहकारि तत्सन्निधानात् चाक्षुषादिज्ञानप्रभवादिति मतं तदापि न विशेषः घटादाविव गगनेऽपि लोचनसन्निकर्षस्यालोकसन्निधिप्रसिद्धेः संवेदनानुषंगस्य दुर्निवारत्वात् । अथादृष्टविशेषो गुणः सहकारी तत्सान्निध्यं संयुक्तसमवायेन, चक्षुषा संयुक्त पुरुषे त्वदृष्टविशेषस्य समवायात् इति मन्यध्वं तर्हि कदाचिन्नभास नायनंसवेदनोदयः कुतो न भवेत् । सर्वदा सर्वस्य तत्रादृष्टविशेषस्य सहकारिणोऽसनिधानात् इति चेत् ! कथमेवमीश्वरस्य नभसि चक्षुषा ज्ञानं श्रोत्रादिभिरिव घटते ? समाधिविशेषोपजनितधर्मविशेषानुगृहीतेन मनसा गगनाद्यशेषपदार्थसंवेदनोदये तु महेश्वरस्य बहिःकरणमनर्थकतामियात् । फलासंभवात् । बहिःकरणरहितस्य च नांतःकरणमुपपद्यत परनिवृत्तात्मवत् । ततः कथमंतःकरणेन धर्मादिग्रहणं मनसोऽसंभवे च न समाधिविशेषस्तदुपजनितधर्मविशेषो वा घटामटाट्यते तस्यात्मांतःकरणसंयोगनिबंधनात् । स्यान्मतं शिशिररश्मिशेखरस्य समाधिविशेषसंततिधर्मविशेषसंततिश्च सर्वार्थज्ञानसंततिहेतुरनाद्यपर्यवसाना, सततमेनोमलैरस्पृष्टत्वात् । तस्य संसारिसादिमुक्तिविलक्षणत्वात् सर्वथा मुक्ततयैव प्रसिद्धत्वात् इति तदप्यसमीचीनं एवमीश्वरस्यापि एनोमलविलयादेरेवार्थसंवेदनोद्भवप्रसक्तेः । सततमेनोमलाभावो हि यथा सततमर्थज्ञानसंतानहेतुरुररीक्रियते तथा कादचित्कैनोमलाभावः कदाचिदर्थप्रमितिनिमित्तयुक्तमुत्पश्यामः तस्यैव सन्निकर्षसहकारितोपपत्तेः । तत्सान्निध्यस्यैव च सन्निकर्षशक्तिरूपत्वसिद्धेः । तद्भावादेव च नयनसन्निकर्षेऽपि नभसि संवेदनानुत्पत्तिघटनात् । तत्र विशिष्टधर्मोऽपि न पापमलापायादपरः प्रतिपद्यते भावांतरस्वभावत्वादभावस्य, निःस्वभावस्य सकलप्रमाणगोचरातिक्रांतत्वेन व्यवस्थापयितुमशक्यत्वात् इति पुरुषगुणविशेषसद्भाव एव पापमलाभावो विभाव्यत। स चात्मविशुद्धिविशेषो ज्ञानावरणवीर्यातरायक्षयोपशमभेदः स्वार्थप्रमितौ शक्तिर्योग्यतेति च स्याद्वादवेदिभिरभिधीयते । प्रमातुरुपलब्धिलक्षणप्राप्ततापि नातोर्थातरभावमनुभवति पुंसः संवेदनावरणवीर्यांतरायलक्षणपापमलापगमविरहे कचिदुपलब्धिलक्षणप्राप्ततानुपलब्धेः, नयनोन्मीलनादिकर्मणो दृश्यादृश्ययोः साधारणत्वात् प्रद्योतादिकरणसाकल्यवत् । एतेन नयनोन्मीलनादिकर्मसन्निकर्षसहकारिविषयगतं चोपलभ्यत्वसामान्यमिति प्रत्याख्यातं तत्सन्निधाने सत्यपि क्वचित्कस्यचित् प्रमित्यनुपपत्तेः कालाकाशादिवत् । न हि तत्रोपलभ्यत्वसामान्यमसंभाव्यं योगिनोऽप्यनुपलब्धिप्रसंगात् । अस्मादृशापेक्षयोपलभ्यत्वसामान्यमन्यदेव योगश्विरापेक्षादुपलभ्यतासामान्यादितिचेत् ? तत्किमन्यत्? अन्यत्र योग्यताविशेषात् । प्रतिपुरुषं भेदमास्तिघ्नवानादिति(?) स एव प्रमातुः प्रमित्युपजनने साधकतमोऽनुमंतव्यः सन्निकर्षादौ सत्यपि कचित्संविदुपजननाभावविभावनात् । स च योग्यताविशेषः स्वार्थग्रहणशक्तिः । आत्मनो भावकरणं ज्ञानमेव फलरूपत्वात् स्वार्थज्ञानात्कथंचिदभिन्नत्वात् सर्वथापि ततो भेदे नात्मस्वभावत्वोपत्तेः । न चैवमुपगंतुं युक्तं ? आत्मन एवोभयनिमित्तवशात्तथापरिणामात् । आत्मनो हि जानात्यनेनेति करणसाधनात भेदोपवर्णनं कथं चिदभिन्नकर्तृकस्य करणस्य प्रसिद्धः अग्निरोष्ण्येन दहतींधनमिति यथा । स्वातंत्र्यविवक्षायां तु जानातीति ज्ञानमात्मैव, कर्तृसाधनत्वात्तदात्मज्ञानयोरभेदप्राधान्यात् आत्मन एव स्वार्थग्रहणपरिणाममापन्नस्य ज्ञानव्यपदेशसिद्धेः औष्ण्यपरिणाममापमस्याग्नेगष्ण्यव्यपदेशवत् । तेन ज्ञानात्मा ज्ञानात्मना ज्ञेयं जानाति इति व्यवहारस्य प्रतीतिसिद्धत्वात् । यथा च

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182