Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 151
________________ सनातनजैनग्रंथमाला स्याद्वादपतिश्रीविद्यानंदस्वामिविरचिता 'प्रमाणपरीक्षा। जयंति निर्जिताशेषसर्वथैकांतीतयः ।। सत्यवाक्याधिपाः शश्वविद्यानंदा जिनेश्वराः ॥१॥ अथ प्रमाण-परीक्षा-तत्र प्रमाणलक्षणं परीक्ष्यते___'सम्यग्ज्ञानं प्रमाणं प्रमाणत्वान्यथानुपपत्तेः । सन्निकर्षादिरज्ञानमपि प्रमाणं स्वार्थप्रमितौ साधकतमत्वात् । इति नाशंकनीयं । तस्य स्वप्रमितौ साधकतमत्वासंभावात् । न ह्यचेतनोऽर्थः स्वप्रमितौ करणं पटादिवत् । सोऽर्थप्रमितौ करणमित्यष्यनालोचितवचनं नैयायिकानां स्वप्रमितावसाधकतमस्यार्थप्रमितौ साधकतमत्वानुपपत्तेः । तथाहि-न सन्निकर्षादिरर्थप्रमितौ साधकतमः स्वप्रमितावसाधकतमत्वात्पटवत् । प्रदीपादिभिर्व्यभिचारः साधनस्य ? इति न मंतव्यं । तेषामर्थपरिच्छत्तावकरणत्वात् । तत्र नयनमनसोरेव करणतया स्क्यमभिमतत्वात् । प्रदीपादीनां तत्सहकारितयोपचास्तः करणव्यवहारानुसरणात् । न चोपचारतोऽर्थप्रकाशन एव प्रदीपादिः करणं न पुनः स्वप्रकाशन इति मन्यमानो निर्मलमना मनीषिभिः, अनुमन्यते । नयानादेः-अर्थसंवेदनमिव प्रदीपादिसंवेदनमप्युपजनयतः प्रदीपादीनां सहकारित्वाविशेषात् । तेषामर्थप्रकाशनवत् स्वप्रकाशनेऽपि करणतोपचारव्यवस्थितेः । नयनादिना-अनेकांत इत्यपि न मननीयं तस्याप्युपकरणरूपस्याचेतनस्वभावस्यार्थप्रतिपत्तौ करणतोपचारात् । परमार्थतो भावेंद्रियस्यैव-अर्थग्रहणशक्तिलक्षणस्य साधकतमतया करणताध्यवसनात् । न चैतदसिद्धं विशुद्धधिषणजनमनसि युक्तियुक्ततया परिवर्तमानत्वात् । तथाहि 'यदसन्निधाने कारकांतरसन्निधानेऽपि यन्नोपपद्यते तत् तत्करणकं । यथा कुठारासन्निधाने काष्टछेदनमनुत्पद्यमानं कुठारकरणकं । नोत्पद्यते च भावेंद्रियासमवधानेऽर्थसंवेदनमुपकरणसद्भावेऽपि, इति तद्भावेंद्रियकरणकं । बहिःकरणसन्निकर्षाधीनतायां हि पदार्थसंवेदनस्य, नयनसन्निकर्षात् कलश इव नभसि नायनसंवेदनोदयः कुतो न भवेत् । न हि नयननभसोरन्यतरकर्मजः संयोगो न विद्यते एवेति वक्तुं युक्तं सकलमूर्तिमद्व्यसंयोगानभसि सर्वगतत्वसाधनविरोधात् । न च नयनममूर्तिमदेव ? तस्य परैौतिकतयोपगतत्वात् । पौद्गलिकतयास्माभिरुपकरणस्याभिमतत्वात् । ननु नभसि नयनसन्निकर्षस्य योग्यताविरहान संवेदननिमित्तता ? इत्यपि न साधीयः तद्योग्यताया एव साधकतमत्वानुषंगात् । का चेयं सन्निकर्षस्य योग्यता नाम ! विशिष्टा शक्तिरिति चेत् ! सा तहिं सहकारिसन्निधिलक्षणा अनुमंतव्या ।

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182