Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
आप्तमीमांसा। ननु सामान्यमेव वाचोऽर्थो यदुत विशेषे वर्तते सामान्येऽर्थक्रियाभावादिति संसर्गबोधमतं तन्निराकरणार्थमाह--
अष्टशती-वाचः स्वभावोऽयं येन स्वार्थसामान्यं प्रतिपादयंती तदपरं निराकरोति । अन्यतरापाये ऽनुक्तानतिशायनात् । इदं तदानेयं तद्यावान् प्रतीयेत तदर्थः । कूर्मरोमादिवत् नच सामान्य विशेषपरिहारेण क्वचिदुपलभामहे । अनुपलभमानाश्च कथं स्वात्मानं परं वा तथाभिनिवेशेन विप्रलभामहे ? ।।१११॥
सामान्यवाग्विशेषे चेन्न शब्दार्था मृषा हि सा ।
अभिप्रेतविशेषाप्तेः स्यात्कारः सत्यलांछनः ॥ ११२ ॥ वृत्तिः-सामान्यसंबंधिनी वाक् विशेषे वर्तते-विशेषमाचष्टे तत्त्वार्थक्रियाभावात् चेदेवं भवतोऽभिप्रायः ? तर्हि शब्दस्यार्थोऽभिधेयः कुतः ? तादृग्भूता वाक् मृषा पलीका सा । यस्मान्न ह्यन्यस्य वाचकोऽन्यमाह । घटशब्दः पटार्थस्य न कदाचिदपि प्रतिपादकः । नाप्यपोहोऽस्यार्थः, अपोहो हि परव्यावृत्तिः सा च तुच्छा ततो भेदक्षाणिकैकांतपक्षे न वाच्यं नापि वाचको नानुमानं नाप्यागमः सर्वाभावोऽतः स्यात्कारः स्याद्वादः सत्यलांछनः सत्यभूतोऽभिप्रेतविशेषस्याप्तेनिमित्तमिष्टार्थप्राप्तिहेतोराश्रयणीयः सर्वदोषकलंकातीतत्वात् । तस्यैव स्वरूपमाह
अटशती-अस्तीति केवलमभावव्यवच्छेदादपोहमाहेति चेत् ? कः पुनरपोहः? परतो व्यावृत्तिरभावः । कथमेबं सत्यभावं प्रतिपादयति भावं न प्रतिपादयतीत्येवमनुक्तसमं न स्यात् । तद्विकल्पो मिथ्याभिनिवेशवशादिति चेन चैतत्तस्य प्रतिपादकं मिथ्याविकल्पहेतुत्वाद् व्यलीकवचनवत् । ततः स्याद्वाद एव सत्यलांछनो न वादातरमित्यनुशाययति ॥ ११२ ॥
विधेयमीप्सितार्थागं प्रतिषेध्याविरोधि यत् ।
तथैवादेयहेयत्वमिति स्याद्वादसंस्थितिः ॥ ११३ ॥ . वृत्तिः-विधेयमस्तीत्यादि प्रतिषेध्यस्य नास्तित्वादेरविरोधेनाविरुद्धं यत्तदीप्सितार्थस्याभिप्रेतकार्यस्यांगं कारणं । तथैवादेयं वस्तु हेयात्त्याज्यादविरुद्धं । इत्यनेन प्रकारेण स्याद्वादस्य संस्थितिः सर्वप्रमाणैरविरुद्धा सिद्धिरिति प्रमाणहेतुदृष्टांताभासाः परवादिपरिकल्पितप्रमाणहेतुदृष्टांता वेदितव्याः । कुतः ? तल्लक्षणाभावात् । वस्त्वपि तैर्यत्परिकल्पितं तदपि नास्ति लक्षणाभावात् । तस्माद्यदनेकांतात्मकं तत्सत्यं लक्षणयोगादिति ।
शास्त्रार्थोपसंहारकारिकामाह
अशाती-अस्तीत्यादि विधेयमभिप्रेत्य विधानात् नास्तित्वादिभिरविरुद्धं विधिप्रतिषेधयोरन्योन्याविविनाभावलक्षणत्वात् स्वार्थज्ञानवत् । तद्विधेयप्रतिषेध्यात्मविशेषात् स्याद्वादः प्रक्रियते सप्तभंगीसमाश्रयात् ॥ ११३ ॥ .....
इतीयमाप्तमीमांसा विहिता हितमिच्छता ।
सम्यमिथ्योपदेशार्थविशेषप्रतिपत्तये ॥११४ ॥ वृत्तिः-इत्यनेन प्रकारेणेयं प्रत्यक्षतश्च योऽयमुपदेशस्तस्यार्थः स्वरूपं तस्य विशेषो याथात्म्यं तस्य प्रतिपत्तिरवगमस्तस्यै सम्यगुपदेशोऽयं मिथ्यति सर्वज्ञेन ज्ञायते यस्मात् । ____ कृतकृत्यो निढूंढतत्त्वप्रीतज्ञ आचार्यः श्रीमत्समंतभद्रकेसरी प्रमाणनयतीक्ष्णनखरदंष्ट्राविदारितप्रवादिकुनयमदविह्वलकुंभिकुंभस्थलपाटनपटुरिदमाह

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182