Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
आप्तमीमांसा।
४७
द्रव्येष्वसर्वपर्यायेषु"। जीवादयः सप्तपदार्थास्तत्त्वं तत्प्रतिपादनाविशेषात् । तथा हि भेदः साभादसाभाच्चेति साक्षात्कृतेरेव सर्वद्रव्यपर्यायान् परिछिनत्ति नान्यत इति यावत् ॥ १०५ ॥
सधर्मणैव साध्यस्य साधादविरोधतः ।
स्याद्वादप्रविभक्तार्थविशेषव्यंजको नयः ॥ १०६ ॥ वृत्तिः- समानो गुणो यस्य स सधर्मा तेन सधर्मणैव एवकाराद्विपक्षीनराकरणं साध्यस्यानित्यत्वादेः शक्याभिप्रेताप्रसिद्धस्य । सधर्मणो भावः साधयं तस्मात्साधात् । स्याद्वादः श्रुतज्ञानं तेन प्रविभक्तो विषयीकृतोऽर्थस्तस्य विशेषो नित्यत्वादिस्तद्व्यंजकः प्रकटको द्योतको नयो युक्तितोऽर्थपरिग्रहः । इत्यनेनान्वयव्यतिरेकपक्षधर्मा उक्ताः । अविरोधादित्यनेनान्यथानुपपत्त्येकलक्षणो हेतुः प्रदर्शितः । किमुक्तं भवतिअंतर्व्याप्तिमंतरेण त्रिलक्षणो हेतुर्न गमक इति । अथ को नयप्रमाणयोर्विशेषः ? अनेकांतप्रतिपत्तिः प्रमाणं, एकधर्मप्रतिपत्तिर्नयः ॥
तद्विषयस्य द्रव्यस्य स्वरूपप्रतिपादनार्थमाह
अष्टशती-सपक्षणव साध्यस्य साधादित्यनेन हेतोस्त्रैलक्षण्यमविरोधात इत्यन्यथानुपपत्तिं च दर्शयता केवलस्य त्रिलक्षणस्यासाधनत्वमुक्तं तत्पुत्रत्वादिवत् । एकलक्षणस्य तु गमकत्वं "नित्यत्वैकांतपक्षेऽपि विक्रिया नापपद्यत इति" बहुलमन्यथानुपपत्तेरेव समाश्रयणात् । यत्राक्रिया न संभवति तन्न वस्तु यथा विनाशकांतः तथा च नित्यत्वेऽपि क्रमयौपद्याभ्यामक्रिया न संभवति नापरं प्रकारांतरं-इति त्रिलक्षणयोगेऽपि प्रधानमेकलणं तत्रैव साधनसामर्थ्य परिनिष्ठितेः । तदेव प्रतिबंधः पूर्ववद्वीतसंयोग्यादिसकलहेतुप्रतिष्ठापकं । ततः स्याद्वादेत्यादिनानुमितमनेकांतात्मकमर्थतत्त्वमादशर्यति । तस्य विशेषो नित्यत्वादिः पृथक् पृथक्त्वस्य प्रतिपादको नयः । तथा चोक्तं
अर्थस्यानेकरूपस्य धीः प्रमाणं तदंशधीः
नयः धर्मातरापेक्षी दुर्णयस्तन्निराकृतिः ॥ १। तदनेकांतप्रतिपत्तिः प्रमाणं । एकधर्मप्रतिपत्तिर्नयः । तत्प्रत्यनीकप्रतिक्षेपो दुर्णयः केवलं विपक्षविरोधदर्शनेन स्वपक्षाभिनिवेशनात् ॥ १०६॥
नयोपनयकांतानां त्रिकालानां समुच्चयः ।
अविभ्राट् भावसंबंधो द्रन्यमेकमनेकधा ॥ १०७ ॥ बृत्तिः-नया नैगमादयः सप्त उपनयास्त दोपभेदार्थपर्यायास्त एवैकांताः प्रधानधर्मास्तद्ग्राह्यत्वात्तव्यपदेशः । त्रयः काला विषयो येषां ते तथाभूतास्तेषां समुच्चय एकस्मिन्नवस्थानम् । अविभ्राट् अपृथक् भावसंबंधः सत्तासंबंधो यस्य स तथाभूतस्तद्रव्यमेकमभेदापेक्षया पुनरनेकप्रकारं ॥ १०७ ॥
तदर्थ चोद्य परिहारायाह
अष्टशती-उक्तलक्षणो द्रव्यपर्यायस्थानः संग्रहादिर्नयः । तच्छाखाप्रशाखात्मोपनयः । तदेकांतातात्मनां विपक्षापक्षालक्षणानां त्रिकाललक्षणानां त्रिकालविषयाणां समितिर्द्रव्यं । ततस्तेषामपोद्धारात् गुणगुण्यादिवत् ॥ १०७ ॥
मिथ्यासमूहो मिथ्या चेन मिथ्यकांतताऽस्ति नः ।
निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेर्थकृत् ॥ १०८॥ वृत्तिः-नित्यानित्यास्तित्वादीनां मिथ्याधर्माणां योऽयं समूहः समुदायः स मिथ्याऽसत्यरूप इति चेदेवं भवतोऽभिप्रायः । मिथ्येत्येकांतः संग्रहस्तस्य भावो मिथ्र्यकांतता सा नोऽस्माकं नास्ति न विद्यते ।

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182