Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 146
________________ सनातनजैनग्रंथमालाययंरणे तदज्ञस्येव विषदृष्टिः प्रमाणत्वं न प्रतिपत्तमहति । तावतैव प्रमाणत्वे क्षणिकत्वाद्यनुमान-अधिगता - धिगमलक्षणत्वान्न वै प्रमाणं ॥ १०२॥ वाक्येष्वनेकांतद्योती गम्यं प्रति विशेषकः । स्यानिपातोऽर्थयोगित्वात्तव केवलिनामपि ॥ १०३ ॥ वृत्तिः-पदानां परस्परापेक्षाणां निरपेक्षाः समुदाया वाक्यानि तेषु वाक्येष्यनेकांतं द्योतयति प्रकटयतीति अनेकांतद्योती । स्याच्छब्दो निरातोऽव्ययं । गम्यमभिधेयमस्ति घट इत्यादिवाक्येऽस्तित्वादि तत्प्रति विशेषकः समर्थकः । अथवा गम्यं हेयादेयभेदभिन्न वस्तु यथा यदवस्थितं तथैव तस्य विशेषकः । अर्थस्य तत्तदात्मकस्य योगित्वं घटनं तस्मादन्येषां पुनर्धर्माणां गुणीभूतत्वात् । तव भवत एतदुक्तं केवलिनां श्रुतकेवलिनां च अपिशब्दात्तच्छिष्यप्रशिष्याणां च नान्येषां तथाभूतस्य वस्तुभावात् ॥ १०३ ॥ ___ पुनरपि तदेव समर्थयति___ अष्टशती-पदानां परस्परापेक्षणां निरपेक्षः समुदायो न तर्हि तदानीमिदं भवति-यथा यत्सत्तत्सर्वं परिणामि यथा घटः संश्च शब्दः, तस्मात्परिणामत्यिाकांक्षणात् । प्रतिपत्तुर्धर्मोऽयं वाक्येष्वध्यारोप्यते सचेप्रतिपत्ता तावतार्थ प्रत्येति किमिति शेषमाकांक्षति । प्रकरणादिना वाक्यकल्पनाप्यर्थप्रातपत्तौ न वा प्राथमकल्पिकवाक्यलक्षणपरिहारः सत्यभामादिपदवत् । सदसन्नित्यानित्यादिसर्वथैकांतप्रतिक्षेपलक्षणो नैकांतः । क्वचित्प्रयुज्यमानः स्याच्छब्दः तद्विशेषणतया प्रकृतार्थतत्त्वमनवयवेन सूचयति। प्रायशो निपातानां तत्स्वभावत्वात् एवकारादिवत् । न हि केवलज्ञानवदखिलमक्रममवगाहते वाचः क्रमवृत्तित्वात् तबुद्धेरपि . तथाभावात् ॥ १०३ ॥ स्याद्वादः सर्वथैकांतत्यागात्किवृत्तचिद्विधिः। सप्तभंगनयापेक्षो हेयादेयविशेषकः ॥ १०४ ॥ वृत्तिः-स्याद्वादोऽर्थप्रकरणादीनां घटादिशब्दार्थविशेषस्थापनहेतूनामनुकूलः । कुतः सर्वथैकांतत्यागात्तेषामर्थप्रकरणादीनां प्रतिकूलस्यैकांतस्य त्यागात् । अथ कथं प्रकारः स्याद्वादः किंवृत्तचिद्विधिः किमो. वृत्तं किं निष्पनं वृत्तं किंवृत्तं च तच्चिच्च किंवृत्तचित् तदेव विधिः प्रकारो यस्य कथंचित् कुतश्चिदित्यादि । सप्तभंगाश्च ते नयाश्च तानपेक्षत इति स्यादस्ति स्यान्नास्त्यादि । हेयादेययोर्विशेषकः गुणमुख्यकल्पनया ॥१०४॥ स्याद्वादकेवलज्ञानयोः कथंचित्सामान्य दर्शयन्नाह अष्टशती-कथंचिदित्यादि किं वृत्तचिद्विधिः स्याद्वाठपर्यायः सोऽयमनेकांतमभिप्रेत्य सप्तभंगनयापेक्षः स्वभावपरभावाम्यां सदसदादिव्यवस्था प्रतिपादयति । सप्तभंगी प्रोक्ता द्रव्यार्थिकपर्यायार्थिकप्रविभागवशानैगमादयः शब्दार्थनया बहुविकल्पा मूलनयद्वयशुद्धयशुद्धिभ्यां ॥ १०४ ।। स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षाच गवस्त्वन्यतमं भवेत् ॥ १०५॥ पत्ति:-सर्वाणि च तानि तत्त्वानि च जीवाजीवादीनि तानि प्रकाशत इति सर्वतत्त्वप्रकाशने के ते द्वे स्याद्वादश्च केवलज्ञानं च ते द्वे प्रमाणे । तयोर्मध्येऽन्यतमं परैः परिकल्पितमवस्तु भवेद्यतः कथं तयोभैदः साक्षात्प्रत्यक्षादसाक्षादप्रत्यक्षात् ।। १०५॥ प्रमाणं चर्चितमथ को नयो नामेत्याह अष्टशती-स्याद्वादकेवलज्ञाने इति निर्देशात् तयोरभ्यर्हितत्वान्नियमं दर्शयति परस्परहेतुकत्वादभ्यहिते वा पूनिपातेऽव्यभिचारं सूचयति । कथं पुनः स्याद्वादः सर्वतत्त्वप्रकाशनो यावता "मतिश्रुतयोनिक्धो

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182