Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 137
________________ आप्तमीमांसा। मृषा मिथ्या। प्रमाणमिवावभासत इति प्रमाणाभासमेत्र । यद्यवं कथं मुख्यप्रमाणमंतरेण तत्प्रमाणाभास यस्मात्सति प्रमाणे प्रमाणाभासो नान्यथा ॥ ७९ ॥ अथ मतं सर्वं बाह्याभ्यन्तरं ज्ञानमेवैतस्य मतस्य निराकरणार्थमाह-- अष्टशती-तजन्मकार्यप्रभवादिवेद्यवेदकलक्षणमनेकांतिकमादर्य संवित्तिरेव खंडशः प्रतिभासमाना व्यवहाराय कल्प्यत इत्यभिनिवेशेऽपि प्रमाणं मृग्यं । क्षणिकत्वमनन्यवेद्यत्वं नानासंतानत्वमिति स्वतस्तावन्न सिद्धयति भ्रांतेः। तथात्मसंवेदनेऽपि व्यवसायवैकल्ये प्रमाणांतरापेक्षयानुपलभकल्पत्वात् । न हि तथा बुद्धयः संविदंते यथा व्यावयेते | नापि परतः संबंधप्रतिपत्तेरयोगात् स्वांशमात्रावलंबिना मिथ्याविकल्पेन प्रकृतितत्त्वव्यवस्थापने बाहरर्थेष्वप्यविरोधात् । कथंचिदत्र वेद्यलक्षणं यदि व्यवतिष्ठेत प्रकृतं कृतं स्यात् नान्यथा। न चानुक्तदोषं लक्षणमस्ति तत्संभवे नान्यत्र तदभावोऽभिधेयः तत्स्वपक्षपरपक्षयोः सिद्धयसिद्धयर्थ किंचित्कथंचित्कुतश्चित् आवतथं ज्ञानमादरणीयं अन्यथा शेषविभ्रमासिद्धेः । एतेन यद्ग्राह्यग्राहकाकारं तत्सर्वं भ्रांतं यथा स्वप्नेंद्रजालादिज्ञान तथा प्रत्यक्षादिकमिति प्रतिविहितं वेदितव्यं ॥ ७९ ॥ साध्यसाधनविज्ञप्तर्यदिविज्ञप्तिमात्रता। न साध्यं न च हेतुश्च प्रतिज्ञाहेतुदोषतः ॥८०॥ वत्तिः-साध्यत इति साध्यं शक्यमभिप्रेतमप्रसिद्ध पक्षधर्मः । साध्यतेऽनेनेति साधन प्रकृते नाविनाभावि तयोराकारो विज्ञप्तिर्विज्ञानं तस्या यदि विज्ञप्तिमात्रता ज्ञानमात्रत्वं । न साध्यं न च हेतः चकरान्नापि दृष्टान्तः । कुतः ? प्रतिज्ञादोषाद्धेतुदोषाच्च । निरंशत्वमभ्युपगम्य स भेदं साधयेत् ? अभ्युपगमहानिः प्रातज्ञाहेतुदोषः, अतः प्रतिज्ञादोषे हेतुदोषेऽकिंचित्कराख्यः । अथवा प्रतिज्ञैव हेतुः स दोषस्तस्मात् । यस्मान्न तदेव साध्यं साधनं निरंशत्वात्तस्य ॥ ८॥ अथान्तरंगार्थतकांते दोषदर्शनाद्वहिरंगार्थोऽभ्युपगम्यते तत्रापि दोषं दर्शयति-- . अष्टशती-सहोपलंभनियमादभेदो नीलतद्धियोईिचंद्रदर्शनवत् इत्यत्रार्थसंविदोः सहदर्शनमुपेत्यैकत्वकांतं साधयन् कथं अवधेयाभिलापः । स्वाभिलापाभावं वा स्ववाचा प्रदर्शयन् कथं स्वस्थः । पृथगनुपलंभाद्भेदाभावमात्रं साधयेत् तच्चासिद्ध संबंधासिद्धेरभावयोः खरशंगवत् । एतेन सहानुपलंभादभेदसाधनं प्रत्युक्तं भावाभावयोः संांधासिद्धेः । तादात्म्यतदुत्पत्त्योरर्थस्वभावनियमात् सिद्धेऽपि प्रतिषेधैकांते विज्ञप्तिमात्रं न सिद्धयेत् तदसाधनात्तत्सिद्धौ तदाश्रयं दूषणमनुषज्येत । तदेकोपलंभनियनोप्यसिद्धः साध्यसाधनयोरविशेषात् । एकज्ञानग्राह्यत्वं द्रव्यपर्यायपरमाणुभिरनैकांतिकं, अनन्यवेद्यत्वं असिद्ध एकक्षणवर्तिसंवित्तीनां साकल्येन सहोपलंभनियमात, व्यभिचारिहेतुः तथोत्पत्तेरेव संवेदनत्वात्, दृष्टांतोऽपि साध्यसाधनविकल: तथोपलंभाभदयोरर्थप्रतिनियमात् भांतौ तदसंभवात् । ननु चासहानुपलंभमात्रादभेदमात्रं कथंचिदर्थस्वभावानवबोधप्रसंगात् । सर्वविज्ञानस्वलक्षणक्षणक्षयविविक्तसंततिविभूमस्वभावानुमितेः । साकल्येनकत्वप्रसंगात एकार्थसंगतदृष्टयः परचित्तविदो वा नावश्यं तद्बुद्धिं तदर्थ वा संविदेतीति हेतोरसिद्धिः सहोपलंभनियमच स्यात भेदश्च स्यात् किं प्रतिषिध्येत स्वहेतुप्रतिनियमसंभवात् । तस्मादयं मिथ्यादृष्टिः परप्रत्यायनाय शास्त्रं विदधानः परमार्थतः संविदानो वा वचनं तत्त्वज्ञानं च प्रतिरुणीति न किंचिदेतत् असाधनांगवचनात अदोषोद्भावनाच्च निग्रहार्हत्व त् ॥ ८ ॥ बहिरंगार्थतैकांते प्रमाणाभासनिहवात् । सर्वेषां कार्यसिद्धिः स्याविरुद्धार्थाभिधायिनां ॥ ८१॥ वृत्तिः-बहिरंगार्थतैकांतो बाह्याथैकांतस्तस्मिन्नभ्युपगम्यमाने विरुद्धार्थाभिधायिनां प्रमाणांतरबाधिता

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182