Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 136
________________ सनातनजैनग्रंथमालायांअष्टशती-युक्तीतरकांतद्वयाभ्युपगमोऽपि मास्मभूत्-विरुद्धयोरेकत्र सर्वथाऽसंभवात् । तदवाच्यत्वे ऽपि पूर्ववत् ॥ ७७ ॥ वक्तयनाप्ते यद्धेतोः साध्यं तद्धेतुसाधितं । आप्ते वक्तरि तद्वाक्यात् साध्यमागमसाधितं ॥ ७८॥ वृत्तिः-यो यत्राविसंवादकः स तत्राप्तः । ततः परोऽनाप्तः अनाप्ते वक्तरि तत्त्वस्योपदेष्टरि हेतोरनु. मानाद्यत्साध्यं शक्याऽभिप्रेतं प्रसिद्धं तद्धेतुसाधितं-लिंगात्प्रतिपादितं । आप्ते वक्तरि वाक्यावचनाद्यत्साध्यं तदागमसाधितं-प्रवचनप्रतिपादितं प्रमाणभूतं प्रवचनं हि तत् । अनाप्ते पुनर्विसंवादकं तस्माद्धेतुमंतरेण न तत्सेत्स्यति ॥ ७८ ॥ अंतस्तत्त्वमेव तत्त्वीमति येषा मतं तन्निराकरणायाह-- -- - अष्टशती-यो यत्राविसंवादकः स तत्राप्तः । ततः परोऽनाप्तः । तत्त्वप्रतिपादनमसंवादः तदर्थज्ञानात् । तेनातींद्रिये जैमिनिः-अन्यो वा स्तुतिमात्रावलंबी नैवाप्तः तदर्थापरिज्ञानात्ताथागतवत् । न हि तादृशातींद्रियार्थज्ञानमस्ति दोषावरणक्षयातिशयाभावात् । श्रुतेः परमार्थवित्त्वं ततः श्रुतेरविसंवादनमित्यन्योऽन्यसंश्रितं स्वतः श्रुतेन वै प्रमाण्यमचेतनत्वात् घटवत् । सन्निकर्षादिभिरनैकांतिकत्वमयुक्तं तत्प्रामाण्यानभ्युपगमात् । अथापि कथंचित्प्रमाणत्वं स्यात् अविसंवादित्वात् श्रुतेरयुक्तमेव । तदभावात् तेनोपचारमात्रं च न स्यात् तदर्थबुद्धिप्रामाण्यासिद्धेः । आप्तवचनं तु प्रमाणव्यपदेशभाक तत्कारणकार्यत्वात् तदतींद्रियार्थदर्शनोपपत्तेस्तदर्थज्ञानोत्पदनाच्च । नैतत् श्रुतेः संभवति सर्वथाप्तानुक्तेः पिटकत्रयवत् । वक्तृदोषात्तादृशाप्रामाण्यं तदभावाच्छूतेः प्रामाण्यमिति चेत् कुतोऽयं विभागः सिद्धयेत् अभ्युपगमानभ्युपगमाभ्यां क्वचित्पौरुषेयत्वमन्यद्वा व्यवस्थापयतीति सुव्यवस्थितं तत्त्वं । एतेन कर्तृस्मरणाभावादयः प्रत्युक्ताः वेदेतरयोरविशेषात् । इतरत्र बौद्धो वक्तेति चेत् तत्र कमलोद्भवादिरिति कथं न समानं । सूद्रमपि गत्वा तदंगीकरणेतरमात्रे व्यवतिष्ठत् वेदाध्ययनवदितरस्यापि सर्वदाध्ययनपूर्वाध्ययनत्वप्रक्लुक्तौ न वक्त्रं वक्रीभवति । तदतिशयांतराणां च शक्यक्रियत्वादितरत्रापि मंत्रशक्तेर्दर्शनात् सिद्धेऽपि तदनादित्वे पौरुषेयत्वाभावे वा कथमविसंवादकत्वं प्रत्येतव्यं । म्लेच्छव्यवहारादेस्तादृशो बहुलमुपलंभात् कारणदोषनिवृत्तेः कार्यदोषाभावकल्पनायां पौरुषेयस्यैव वचनस्य दोषनिवृत्तिः कर्तुर्वीतदोषस्यापि संभवात् तदध्येतृव्याख्यातृश्रोतृणां रागादिमत्त्वान्नेतरस्येति निश्शंकं नश्चेतः । वक्तृगुणापेक्षं वचनस्याविसंवादकत्वं चक्षुर्ज्ञानवत् । तदोषानुविधानात् ततोऽनाप्तवचनानर्थज्ञानमंधरूपदर्शनात् । तत्र यदेव युक्तियुक्तं तदेव प्रतिपत्तुं प्रतिपादयितुं वा शक्यं, अग्निहिमस्य भेषजमित्यादिवत् नाग्निहोत्रादि वाक्यसाधनं । सिद्ध पुनराप्तवचनत्वे यथा हेतुवादस्तथा आज्ञावादोऽपि प्रमाणं । ननु चापौरुषेयत्ववदाप्तशासनमप्यशक्यव्यवस्थं ? उक्तमत्र सर्वथैकांतवादानां स्याद्वादप्रतिहतत्वात् इति । तत्राप्तिः साक्षात्करणादिगुणः संप्रदायाविच्छेदो वा अन्यथाऽधपरंपरयाऽप्रतिपत्तः ॥ ७८ । इत्याप्तमीमांसाभाष्ये षष्ठः परिच्छेदः समाप्तः ॥ अंतरंगार्थतेकांत बुद्धिवाक्यं मृषाखिलं । प्रमाणाभासमेवातस्तत्प्रमाणाहते कथं ॥ ७९ ॥ वृत्तिः-अंतरभ्यंतरमगं कारणं यस्य स चासावर्थश्च तस्य भावोंऽतरंगार्थता सैवैकांतो मिथ्यात्वं तस्मिन् । बुद्धिश्च बहिरर्थपरिच्छेदिका । वाक्यं चानुमाननिमित्तं परार्थ । द्वंद्वैकवद्भावः । तदखिलं निरवेश

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182