Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 135
________________ आप्तमीमांसा । विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ७४ ॥ बृत्तिः-अपेक्षानपेक्षकांतोभयं नास्ति विरोधात् । नाप्यवाच्यमवाच्यत्वेनापि वाच्यत्वात् ।। ७४ ॥ तयोरनेकांतं दर्शयचाह अष्टशती-अनंतरकांतयोर्युगपद्विवक्षा माभूत् विप्रतिषेधात् सदसदैकांतक्त् । तथानभिधेयत्वैकांतेऽपीति कृतं. विस्तरेण ॥ ७४ ॥ धर्मधर्यविनाभावः सिद्धयत्यन्योन्यवीक्षया। न स्वरूपं स्वतो लेतत् कारकज्ञापकांगवत् ॥ ७५॥ वृत्ति:-क्रमभावि पिंडादिकार्य सहभावी रूपादिर्गुणो विसदृशपरिणामलक्षणश्च विशेषो धर्मोऽत्र कथ्यते । कारणादिव्यपदेशं द्रव्यं धर्मी । स्वधर्मापेक्षया द्रव्यस्य धर्मिव्यपदेशः । स्वधर्म्यपेक्षया च रूपादेच धर्मध्यपदेशस्तयोर्योऽविनाभावोऽव्यभिचारोऽवश्यं सोऽन्योऽन्यापेक्षया सिद्धयति भासते उत्पद्यते वा । स्वरूषमसाधरणं रूपं तयोर्न. परतः । कुतः ! यस्मात्स्वत एव तसिध्यति । यथा कारकज्ञापकांगे कारकक्रियायाः भंग ज्ञापकक्रियाया अंगं निबंधनं तयोरिव तद्वतकर्तृकर्मकबोध्यबोधकवदित्यर्थः । अथवा अंगशब्दो विशेषार्थो दष्टव्यः, यथा कर्मकर्तृव्यपदेशाविनाभावो बोध्यबोधकव्यपदेशाविनाभावश्च सिध्यत्यन्योन्यापेक्षयैवमत्रापीत्यर्थः। उपेतयत्वं व्यवस्थाप्योपायतत्त्वव्यवस्थापनार्थमाह अष्टशती-न केवलं सामान्यविशेषयोः स्वलक्षणमपेक्षितपरस्पराविताभावलक्षणं स्वतःसिद्धलक्षणं, भपि तु धर्मधर्मिणोरपि, कर्मकर्तृमोध्यबोधकवत् ॥ ७५ ॥ इत्याप्तमीमांसाभाष्ये पंचमः परिच्छेदः ।, सिद्धं चेद्धेतुतः सर्व न प्रत्यक्षादितो गतिः । सिद्धं चेदागमात्सर्व विरुद्धार्थमतान्यपि ॥ ७६ ॥ वृत्तिः-यदि सर्वे हेतुतो निमित्तात्सिद्धमवगतं तर्हि प्रत्यक्षादितः प्रत्यक्षागमादेर्गतिरवगमो न स्यात् । दृश्यते चैंद्रियकस्याशनपानादेरर्थस्यातद्रियस्य मलयकाश्मीरादेरत्र क्रमेण प्रत्यक्षादाप्तोपदेशतश्च गतिरिति ।। अथागमादाप्तोपदेशात्सर्व चेष्यते ततो विरुद्धार्थानि यानि मतानि तान्यपि.सिद्धिमुपगच्छेयुरिति ॥ ७६ ॥ उभयैकात्म्यैकांतं निराकर्तुमाह-- .. अष्टशती-उपेयतत्त्वं व्यवस्थाप्य-उपायतत्त्वं व्यवस्थाप्यते .. युक्तया यत्न घटामुपैति तदहं दृष्टापि न श्रद्दधे इत्यादेरेकांते तस्य बहुलं दर्शनात् प्रत्यक्षतदाभासयोरपि व्यवस्थितिः-अनुमानात् अन्यथा संकरव्यतिकरोपपत्तेः । कथंचित्साक्षात्कारणमंतरेण न क्वचिदनुमानं किं पुनः शास्त्रोपदेशाः । नचैत युक्तिनिरपेक्षाः, परस्परविरुद्धार्थतत्त्वसिद्धिप्रसंगात् । न.हि प्रत्यक्षानुमानाभ्यामंतरेणोपदेशं ज्योतिर्ज्ञानादिप्रतिपत्तिः ॥ ७६ ॥ विरोधानोभयकात्म्यं स्याद्वादन्यायविद्विषो । अवाच्यतैकांतेऽप्युक्ति वाच्यमिति युज्यते ॥ ७७.॥ वृत्तिः-उभयैकांतत्वं नास्ति विरोधात् । अवाच्यमपि न ॥ ७७ ॥ पुनरप्यनेकांतनिरूपणार्थमाह--

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182