________________
आप्तमीमांसा । विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विषां ।
अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ७४ ॥ बृत्तिः-अपेक्षानपेक्षकांतोभयं नास्ति विरोधात् । नाप्यवाच्यमवाच्यत्वेनापि वाच्यत्वात् ।। ७४ ॥ तयोरनेकांतं दर्शयचाह
अष्टशती-अनंतरकांतयोर्युगपद्विवक्षा माभूत् विप्रतिषेधात् सदसदैकांतक्त् । तथानभिधेयत्वैकांतेऽपीति कृतं. विस्तरेण ॥ ७४ ॥
धर्मधर्यविनाभावः सिद्धयत्यन्योन्यवीक्षया।
न स्वरूपं स्वतो लेतत् कारकज्ञापकांगवत् ॥ ७५॥ वृत्ति:-क्रमभावि पिंडादिकार्य सहभावी रूपादिर्गुणो विसदृशपरिणामलक्षणश्च विशेषो धर्मोऽत्र कथ्यते । कारणादिव्यपदेशं द्रव्यं धर्मी । स्वधर्मापेक्षया द्रव्यस्य धर्मिव्यपदेशः । स्वधर्म्यपेक्षया च रूपादेच धर्मध्यपदेशस्तयोर्योऽविनाभावोऽव्यभिचारोऽवश्यं सोऽन्योऽन्यापेक्षया सिद्धयति भासते उत्पद्यते वा । स्वरूषमसाधरणं रूपं तयोर्न. परतः । कुतः ! यस्मात्स्वत एव तसिध्यति । यथा कारकज्ञापकांगे कारकक्रियायाः भंग ज्ञापकक्रियाया अंगं निबंधनं तयोरिव तद्वतकर्तृकर्मकबोध्यबोधकवदित्यर्थः । अथवा अंगशब्दो विशेषार्थो दष्टव्यः, यथा कर्मकर्तृव्यपदेशाविनाभावो बोध्यबोधकव्यपदेशाविनाभावश्च सिध्यत्यन्योन्यापेक्षयैवमत्रापीत्यर्थः। उपेतयत्वं व्यवस्थाप्योपायतत्त्वव्यवस्थापनार्थमाह
अष्टशती-न केवलं सामान्यविशेषयोः स्वलक्षणमपेक्षितपरस्पराविताभावलक्षणं स्वतःसिद्धलक्षणं, भपि तु धर्मधर्मिणोरपि, कर्मकर्तृमोध्यबोधकवत् ॥ ७५ ॥
इत्याप्तमीमांसाभाष्ये पंचमः परिच्छेदः ।,
सिद्धं चेद्धेतुतः सर्व न प्रत्यक्षादितो गतिः ।
सिद्धं चेदागमात्सर्व विरुद्धार्थमतान्यपि ॥ ७६ ॥ वृत्तिः-यदि सर्वे हेतुतो निमित्तात्सिद्धमवगतं तर्हि प्रत्यक्षादितः प्रत्यक्षागमादेर्गतिरवगमो न स्यात् । दृश्यते चैंद्रियकस्याशनपानादेरर्थस्यातद्रियस्य मलयकाश्मीरादेरत्र क्रमेण प्रत्यक्षादाप्तोपदेशतश्च गतिरिति ।। अथागमादाप्तोपदेशात्सर्व चेष्यते ततो विरुद्धार्थानि यानि मतानि तान्यपि.सिद्धिमुपगच्छेयुरिति ॥ ७६ ॥
उभयैकात्म्यैकांतं निराकर्तुमाह-- .. अष्टशती-उपेयतत्त्वं व्यवस्थाप्य-उपायतत्त्वं व्यवस्थाप्यते
.. युक्तया यत्न घटामुपैति तदहं दृष्टापि न श्रद्दधे इत्यादेरेकांते तस्य बहुलं दर्शनात् प्रत्यक्षतदाभासयोरपि व्यवस्थितिः-अनुमानात् अन्यथा संकरव्यतिकरोपपत्तेः । कथंचित्साक्षात्कारणमंतरेण न क्वचिदनुमानं किं पुनः शास्त्रोपदेशाः । नचैत युक्तिनिरपेक्षाः, परस्परविरुद्धार्थतत्त्वसिद्धिप्रसंगात् । न.हि प्रत्यक्षानुमानाभ्यामंतरेणोपदेशं ज्योतिर्ज्ञानादिप्रतिपत्तिः ॥ ७६ ॥
विरोधानोभयकात्म्यं स्याद्वादन्यायविद्विषो ।
अवाच्यतैकांतेऽप्युक्ति वाच्यमिति युज्यते ॥ ७७.॥ वृत्तिः-उभयैकांतत्वं नास्ति विरोधात् । अवाच्यमपि न ॥ ७७ ॥ पुनरप्यनेकांतनिरूपणार्थमाह--