Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 133
________________ आप्तमीमांसा। सत्यमव नैतत्प्रामणं भावात् [ ? ] पुनरपि दषणमाह-- अष्ट शती-कार्यकारणादेरभेदैकांते धारणाकर्षणादयः परमाणूनां संघातेऽपि माभूवन् विभागवत् । नाहितोऽपि विशेषः तेषां विभागकांतं निराकरोति । तत एवान्यत्रापि नेष्यते पृथिव्यादि भूतचतुष्टयस्थितिरेवं विभ्रममात्रं प्राप्नोति । इष्टत्वाददोष इति चेत् न प्रत्यक्षादिविरोधात् ।। ६४ ॥ कार्यभ्रांतरणुभ्रांतिः कार्यलिंग हि कारणं । उभयाभावतस्तत्स्थं गुणजातीतरच न ॥ ६८ ॥ वृत्तिः-अणूनां यदेतत्कार्य स्थूलघटपटादिकं तस्य यदि भ्रांतिविभ्रमस्तदानीं कार्यधांतेरणूनामपि भ्रांतिः । यतः कार्यलिंगं कारणं कार्यद्वारेण कारणस्यावगमो नान्यथा, अतोऽन्यतराभावे उभयोरप्यभावोऽवि नाभावनियमात् । उभयाभावाच तयोः स्थितं गुणो रूपादिः, जातिः सामान्यं इतरच क्रिया एतत्ससुदितं न स्यात् । न चैतदिष्टं सर्वप्रमाणप्रसिद्धत्वात् ॥ ६६ ॥ - अष्टशती-चक्षुरादिबुद्धौ स्थूलैकाकारः प्रतिभासमानः परमाणुभेदैकांतवाद प्रतिहंति तद्विपरीतानुपलब्धिर्वा तत्रैतत्स्यात् । भ्रांतैकत्वादिप्रतिपत्तिरिति तन्न परमाणूनां चक्षुरादिबुद्धौ स्वरूपमनर्पयतां कार्यलिंगाभावात् । तत्त्वभावाभ्युपगमानुपपत्तस्तद्वयाभावात् वृत्तयो जातिगुणक्रिया न स्युः, व्योमकुसुमसौरभवत् ॥ ६८॥ एकत्वेऽन्यतराभावः शेषाभावोजविनाभुवः । द्वित्वसंख्याविरोधश्च संवृतिश्चेन्मृषैव सा ॥६९॥ वृत्तिः-कार्यकारणयोरेकत्वे द्वयोर्मध्येऽन्यतराभावस्तस्य चाभावे द्वितीयस्य चाभावः । कुतः ? अविनाभावनियमात् । न ह्येकमंतरेणापरं भवति । द्वित्वमिति च या संख्या तस्याश्च विरोधोऽघटना । अथ मत संवृत्या सर्व युक्तं ? सा संवृतिम॒षैव । व्यलीकैव ततो न किंचित् स्यात् बंध्यासुतपरिकल्पितरूपव्यावर्णनवत् ॥ ६९ ॥ उभयैकांतवादिनं प्रत्याह अष्टशती-आश्रयाश्रयिणोरेकत्वे तदन्यतराभावस्ततः शेषाभावस्तत्स्वभावाविनाभावित्वात् बंध्यासुत रूपसंस्थानवत् । तथा च सति द्वित्वसंख्यापि न स्यात् । तत्र संवृतिकल्पना शून्यतां नातिवर्तते परमार्थविपर्ययाद् व्यलीकवचनार्थवत् ।। ६९ ॥ विरोधानोभयेकात्म्यं स्याद्वादन्यायविद्विषां। अवाच्यतैकांतेऽप्युक्तिनावाच्यमिति युज्यते ॥ ७० ॥ - वृत्तिः-अवयवावविव्यतिरेकाव्यतिरेकैकांतौ न यौगपद्येन संभविनौ विरोधात्-स्ववचनविरोधात् । अनभिलाप्यकांतोऽपि न संभवति । स्याद्वादाभ्युपगमें तु न दोषः कथंचित् तथाभावोपलब्धेः ॥ ७० ॥ तथैव स्पष्टयति-- __ अष्टसती-अवयेवतरादीनां व्यतिरेकाऽव्यतिरेकैकांतौ न वै योगपद्येन संभविनौ विरोधात् । तथानभिलाप्यतैकांते स्ववचनविरोधः तदभिलाप्यत्वात् । स्याद्वादाभ्युपगमे तु न दोषः कथंचित्तथाभावोपलब्धेः ॥ ७० ॥ द्रन्यपर्याययोरैक्यं तयोरव्यतिरेकतः । परिणामविशेषाच्च शक्तिमच्छक्तिभावतः ॥ ७१ ।।

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182