________________
आप्तमीमांसा। सत्यमव नैतत्प्रामणं भावात् [ ? ] पुनरपि दषणमाह--
अष्ट शती-कार्यकारणादेरभेदैकांते धारणाकर्षणादयः परमाणूनां संघातेऽपि माभूवन् विभागवत् । नाहितोऽपि विशेषः तेषां विभागकांतं निराकरोति । तत एवान्यत्रापि नेष्यते पृथिव्यादि भूतचतुष्टयस्थितिरेवं विभ्रममात्रं प्राप्नोति । इष्टत्वाददोष इति चेत् न प्रत्यक्षादिविरोधात् ।। ६४ ॥
कार्यभ्रांतरणुभ्रांतिः कार्यलिंग हि कारणं ।
उभयाभावतस्तत्स्थं गुणजातीतरच न ॥ ६८ ॥ वृत्तिः-अणूनां यदेतत्कार्य स्थूलघटपटादिकं तस्य यदि भ्रांतिविभ्रमस्तदानीं कार्यधांतेरणूनामपि भ्रांतिः । यतः कार्यलिंगं कारणं कार्यद्वारेण कारणस्यावगमो नान्यथा, अतोऽन्यतराभावे उभयोरप्यभावोऽवि नाभावनियमात् । उभयाभावाच तयोः स्थितं गुणो रूपादिः, जातिः सामान्यं इतरच क्रिया एतत्ससुदितं न स्यात् । न चैतदिष्टं सर्वप्रमाणप्रसिद्धत्वात् ॥ ६६ ॥
- अष्टशती-चक्षुरादिबुद्धौ स्थूलैकाकारः प्रतिभासमानः परमाणुभेदैकांतवाद प्रतिहंति तद्विपरीतानुपलब्धिर्वा तत्रैतत्स्यात् । भ्रांतैकत्वादिप्रतिपत्तिरिति तन्न परमाणूनां चक्षुरादिबुद्धौ स्वरूपमनर्पयतां कार्यलिंगाभावात् । तत्त्वभावाभ्युपगमानुपपत्तस्तद्वयाभावात् वृत्तयो जातिगुणक्रिया न स्युः, व्योमकुसुमसौरभवत् ॥ ६८॥
एकत्वेऽन्यतराभावः शेषाभावोजविनाभुवः ।
द्वित्वसंख्याविरोधश्च संवृतिश्चेन्मृषैव सा ॥६९॥ वृत्तिः-कार्यकारणयोरेकत्वे द्वयोर्मध्येऽन्यतराभावस्तस्य चाभावे द्वितीयस्य चाभावः । कुतः ? अविनाभावनियमात् । न ह्येकमंतरेणापरं भवति । द्वित्वमिति च या संख्या तस्याश्च विरोधोऽघटना । अथ मत संवृत्या सर्व युक्तं ? सा संवृतिम॒षैव । व्यलीकैव ततो न किंचित् स्यात् बंध्यासुतपरिकल्पितरूपव्यावर्णनवत् ॥ ६९ ॥
उभयैकांतवादिनं प्रत्याह
अष्टशती-आश्रयाश्रयिणोरेकत्वे तदन्यतराभावस्ततः शेषाभावस्तत्स्वभावाविनाभावित्वात् बंध्यासुत रूपसंस्थानवत् । तथा च सति द्वित्वसंख्यापि न स्यात् । तत्र संवृतिकल्पना शून्यतां नातिवर्तते परमार्थविपर्ययाद् व्यलीकवचनार्थवत् ।। ६९ ॥
विरोधानोभयेकात्म्यं स्याद्वादन्यायविद्विषां।
अवाच्यतैकांतेऽप्युक्तिनावाच्यमिति युज्यते ॥ ७० ॥ - वृत्तिः-अवयवावविव्यतिरेकाव्यतिरेकैकांतौ न यौगपद्येन संभविनौ विरोधात्-स्ववचनविरोधात् । अनभिलाप्यकांतोऽपि न संभवति । स्याद्वादाभ्युपगमें तु न दोषः कथंचित् तथाभावोपलब्धेः ॥ ७० ॥
तथैव स्पष्टयति-- __ अष्टसती-अवयेवतरादीनां व्यतिरेकाऽव्यतिरेकैकांतौ न वै योगपद्येन संभविनौ विरोधात् । तथानभिलाप्यतैकांते स्ववचनविरोधः तदभिलाप्यत्वात् । स्याद्वादाभ्युपगमे तु न दोषः कथंचित्तथाभावोपलब्धेः ॥ ७० ॥
द्रन्यपर्याययोरैक्यं तयोरव्यतिरेकतः । परिणामविशेषाच्च शक्तिमच्छक्तिभावतः ॥ ७१ ।।