________________
सनातनजैनग्रंथमालायां
आश्रयायिभावान स्वातंत्र्यं समवायिनां ।
इत्ययक्तः स संबंधो न युक्तः समवायिभिः॥ ६४ ॥ - वृत्तिः-स्वातंत्र्यं स्वप्रधानता तेषां नास्ति । कुतः ? आश्रयाः स्वारंभकावयवा आश्रयी अवयवी कार्यादिस्तयोर्भावस्तस्मात् । यस्मात् आश्रयमंतरेण नाश्रयी वर्तते नायिणमंतरेणाश्रयः परस्परप्रतिबंधात् । तस्मान्न कालादिभेदेन वृत्तिस्तेशं समवायिनां कार्यकारणानामिति चेदत्रोत्तरमाह । सोऽयुक्तः संबंधः समवायिभिः सह न युक्तः, समवायसंबंधः परैरिष्टः कार्यकारणादिभिः सह स न घटते विचार्यमाणायोगात् । अनवस्थादिदोषादिति ॥ ६४ ॥
तदेव विघटयत्नाह___ अष्टशती-कार्यकारणादीनां परस्परं प्रतिबंधात् कुतः स्वातंत्र्यं यतो देशकालादिभेदेन वृत्तिः ? इति चेत् समवायस्य समवायांतरेण वृत्तौ अनवस्थाप्रसंगात् । स्वत एव वृतौ द्रव्यादेस्ताथापत्तेरसंबद्धः समवायः कथं द्रव्यादिभिः सह वर्तेत यतः पृथक सिद्धिर्न स्यात् ॥ ६४ ॥
सामान्यं समवायश्चाप्येककत्र समाप्तितः ।
अंतरेणाश्रयं न स्यानाशोत्पादिषु को विधिः ॥ ६५ ॥ वृत्तिः-सामान्यं भिन्नेष्वभिन्नकारणं । समवाय इहेदं प्रत्ययलक्षणं । एकैकत्र एकस्मिन्नवयवे व्यक्ती वा । समाप्तितः समाप्तेर्व्यवस्थितत्वादित्यर्थः । आश्रयमंतरेण यस्मात्तयोरवस्थानं नास्ति । एवं सति नाशोत्पादा विद्यते येषां तेषु नाशोत्पादिषु खण्डमुण्डघटपटादिषु को विधिः कः क्रमः ? किं तु न कश्चिदीप स्यात् ।। पुनरपि संबंधस्य दूषणमाह
अष्टशती-प्रत्येकं परिसमाप्तेराश्रयाभावे सामान्यसमवाययोरसंभवादुत्पत्तिविपत्तिमत्सु कथं वृत्तिः-उत्पित्सुप्रदेशे प्राङ् नाति नान्यतो याति, स्वयमेव पश्चाद्भवति स्वाश्रयविनाशे च नश्यति प्रत्येक परिसमाप्तं चेति व्याहतमेतत् ॥ ६५ ॥
सर्वथाऽनभिसंबंधः सामान्यसमवाययोः ।
ताभ्यामर्थो न संबद्धस्तानि त्रीणि खपुष्पषत् ॥ ६६ ॥ वृत्तिः-सामान्यसमवाययोः परस्परेण सर्वथा सर्वप्रकारेणानभिसंबंधोऽसंयोगोऽतस्ताभ्यां सामान्यसमवायाभ्यां अर्थो गुणगुण्यादिर्न संबद्धो न लग्नाऽतस्तानि त्रीण्यपि सामान्यसमवायार्थरूपाणि खपुष्पसमानानि॥
सत्यमेवैतत् समवायादीनां दोषः । अस्माकं पुनः परमाणूनामेकांतेनानन्यत्वमिच्छतां न दोष इत्यत्र दूषणमाह
___ अष्टशती-सामान्यसमवाययोः परस्परतः स्वसंबंधासंभवात् ताम्यामर्थो न बद्धः, ततस्त्रीण्याप नात्मानं विमृयुः कूर्मरोमादिवत् ॥ ६६ ॥
अनन्यतैकांतेऽणूनां संघातेऽपि विभागवत् ।
असंहतत्वं स्याद्भूतचतुष्कं भ्रांतिरेव सा ॥ ६७॥ वृत्तिः-परमाणनां द्वितीयविभागरहिताना संघातेऽपि प्रचयेऽपि असंहतत्वं पृथक्त्वं स्यात् विभागवत्, यथा घटपटयोः। नान्यताऽनन्यता सैवैकांतस्तस्मिन् परमाणूनां । अन्यथा स्वरूपेण परिणामायोगात् ,एकदेशेन सवात्मना वा तथा वृत्तिविरोधात् । सहस्राणुमात्रपिंडप्रसंगादणोः । तस्मात्प्रविरलत्वं प्रविकलत्वं, अणूनां ततो धारणाकर्षणादयो न स्युः । भूतानां पृथिव्यादीनां चतुर्णा भावश्चतुष्कं सा भ्रांतिः स्यात् -भूतचतुष्टयं भ्रांतं स्यादित्यर्थः ॥ १। नानुलभ्यते पाठोयं लिखितपुस्तके प्रेविकलत्वस्यानांतरेत्वत्वनियोज्यः प्रविलरत्वप्रावकलवयोः समानार्थकत्वादिति ।